________________
१६६
हरिषेणाचार्यकृते बृहत्कथाकोशे
[७२. १७२. मृगसेनधीवरकथानकम् । अवन्त्याख्यमहादेशे सिप्राख्यासरितस्तटे । शिशपाख्योऽभवद् ग्रामो धीवरौघसमन्वितः ॥१॥ बभूव भवदेवाख्यो धीवरः पापकारकः । भवश्रीरस्य भार्या च मृगसेनोऽनयोः सुतः ॥२॥ सोमदासोऽभवत् तत्र धीवरः क्रूरमानसः । सेनाऽस्य गेहिनी नाम घण्टाख्या तनयाऽनयोः ॥३॥
मृगसेनेन सा घण्टा परिणीता विधानतः । तगृहे तिष्ठति प्रीता गृहीतपतिमानसा ॥४॥ । तत्र पार्श्वजिनेन्द्रस्य भवनं बहुभूमिकम् । विद्यते शोभनाकारं शुभ्रीकृतनभस्तलम् ॥५॥
अन्यदा संघयुक्तोऽपि धनान्तो जयपूर्वकः । आचार्यों विहरन्नार पार्श्वनाथजिनालयम् ॥६॥ मृगसेनो मुनि प्राप्य धर्म श्रुत्वा जिनोदितम् । प्रथमं जालगं मीनं मुने मुञ्चामि सर्वदा ॥ ७॥ गृहीत्वेदं व्रतं सोऽपि तदाचार्यात् ततः क्षणात् । जगाम निम्नगां शीघ्रं स्कन्धारोपितजालकः ॥८॥
तस्या हृदे च गम्भीरे धीवरः कृतनिस्वनः । जालं चिक्षेप विश्रब्धः प्रसारितकरेण सः ॥ ९॥ 10 आकृष्टोऽनेन जालेन जलान्मीनः स्थले महान् । एको वृद्धः प्रमुक्तोऽयं गृहीतव्रतयोगतः ॥१०॥ मुक्त्वाऽमुं तेन संक्षिप्तं जालं तत्सलिले पुनः। गृहीतः प्राक्तनो मत्स्यो मुक्तो भूयोऽप्यनेन सः॥११॥ गृहीतो प्राक्तनो मीनो धीवरेण महातनुः । साभिज्ञानं विधायास्य तेन मुक्तः पुनः सकः॥१२॥ भूयोऽप्यनेन संक्षिप्तं जालं तन्निनगाजले । नूनं चिरंतनो मीनो गृहीतो दैवयोगतः ॥ १३॥ मुक्त्वा तत्र महामीनं निर्विण्णो रिक्तवैवधम् । स्कन्धमारोप्य संध्यायां धीवरः स्वगृहं ययौ ॥१४॥ 15 मृगसेनं प्रियं दृष्ट्वा खगृहे रिक्तवैवधम् । जगाद निष्ठुरस्वान्ता घण्टा तं रमणी तदा ॥ १५ ॥ किमर्थं मगृहे पाप गृहीत्वा रिक्तवैवधम् । आगतोऽसि दुराचार यथावृत्तं वदाशु मे ॥ १६ ॥ घण्टावचनमाकर्ण्य मृगसेनो जगाद ताम् । इदं व्रतं मया कान्ते गृहीतं साधुसंनिधौ ॥ १७ ॥ क्षिप्ते जाले जले मत्स्यः प्रथमं यः पतिष्यति । महानपि स मे नूनं मोक्तव्यः संशयं विना ॥१८॥
इदं व्रतं समादाय धीवरैः सह वेगतः । सिप्रां नदीं गतः कान्ते ग्रहीतुं शफरानहम् ॥ १९॥ 20 क्षिप्तं जालं मया नद्यां प्रिये वारचतुष्टयम् । मुक्तो मुक्तः पुननिः स एवात्र पतत्यलम् ॥२०॥ मुक्त्वा मत्स्यमहं मुग्धे नूनं वारचतुष्टयम् । आगतः स्वगृहं तेन रिक्तवैवधसंयुतः ॥ २१ ॥ मृगसेनोदितं श्रुत्वा घण्टा वदति तं रुषा । बालैः सहाय यास्यामि पञ्चतां भोजनं विना ॥२२॥ दुष्ट पापिष्ठ याहि त्वं मदीयान्मन्दिरादरम् । निशम्य तद्वचः सोऽपि निर्जगामामुतः पुनः॥२३॥ मृगसेनो निशि प्राप्य शून्यं देवकुलं तदा । सुप्तो मृतिं परिप्राप्य सर्पदष्टः स तत्क्षणात् ॥२४॥ 25 सृगसेनप्रिया घण्टा बुभुक्षाग्रस्तमानसा । अन्वेषयन्त्यथ प्राप प्रियं प्राणपरिच्युतम् ॥ २५ ॥
दृष्ट्वा दृढव्रतं तं हि तदेव व्रतमस्तु मे । इति ध्यात्वा ससर्प सा बिले हस्तं समर्पयत् ॥ २६ ॥ तेनैव दन्दशकेन दष्टाऽथो क्रूरचेतसा । तदैव पञ्चतां प्राप नियतिः केन लंध्यते ॥ २७॥ अत्रान्तरे पुरि श्रीमानुज्जयिन्यां प्रतापवान् । राजा वृषभदत्तोऽभून्महासामन्तसेवितः ॥ २८ ॥ रूपयौवनसंयुक्ता पीनोन्नतघनस्तनी । वृषभोपपदा दत्ता बभूवास्स नितम्बिनी ॥ २९॥ 30 अस्यैव भूपतेः श्रेष्ठी गुणपालोऽभवद् धनी । गुणश्रीरस्य भार्या च गुणरञ्जितभूतला ॥ ३० ॥ घण्टाऽऽख्या धीवरी या च मृता मन्दकषायतः।साऽनयोर्दुहिता जाता विषाख्याऽतिमनोहरी॥३१॥ सार्थवाहोऽभवत् तस्यां श्रीदत्तः श्रीसमन्वितः । तद्भार्या श्रीमती नाम श्रीकीर्तिसमविभ्रमा ॥३२॥ मृगसेनो मृतिं प्राप्य धीवरो जिनभक्तितः। विनयी रूपसंपन्नः सोमदत्तोऽनयोः सुतः ॥ ३३॥
1 पफ युग्मम्, ज युगलम्. 2 पफ चतुःकुलकम् , ज चतुष्कलकम्. 3 [परिप्राप]. 4 फ सर्पदृष्टः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org