________________
- ७१.६४ ]
छेलककथानकम्
उद्यानवनमीदृक्षं सारं च सितप्रभम् । महासरोवरं रम्यं पद्मेन्दीवरराजितम् ॥ ३८ ॥ देवतापूजनं कृत्वा स्वहतैर्जीवराशिभिः । कृतकृत्यो ' मृतिं प्राप्य मत्पिता शुद्धमानसः ॥ ३९ ॥ यदि मोक्षं न यात्येष सदेहो दैवयोगतः । नाकं तु निश्चितं साधो गच्छति स्थिरमानसः ॥ ४० ॥ तिर्यग्गतिसमुद्भूतो बहुपापविधायकः । मत्पिता धर्मसंयुक्तश्छेलको जायते कथम् ॥ ४१ ॥ वसुदासोदितं श्रुत्वा जगदैतं मुनीश्वरः । दिव्यज्ञानसमायुक्तो धर्मभूषितविग्रहः ॥ ४२ ॥ जीवहिंसनयुक्तेन धर्मेणानेन बालकः । स्वर्गो न जायते नूनं देहिनां पापकारिणाम् ॥ ४३ ॥ मुनिवाक्यं समाकर्ण्य वसुदासोऽपि तं जगौ । बहुना शुष्कवादेन किं कृतेन सुफल्गुना ॥ ४४ ॥ कालं प्रकुर्वता नाथ मत्पित्रा मोहकारिणा । धनं धरागतं तेन स्थापितं मे न भाषितम् ॥ ४५ ॥ अजानंस्तद्धनं क्वापि चिरकालं निरूपयन् । अपश्यन् दुःखितो भूत्वा स्थितोऽहं मुनिनायक ॥ ४६ ॥ तद्धनं यदि मे स्पष्टं साधो दर्शयतेऽखिलम् । ततोऽयं मत्पिता नूनं भवेदेष न चान्यथा ॥४७॥ वसुदासवचः श्रुत्वा छेलकं निजगौ मुनिः । यदि त्वं धनमेतस्य स्फुटं दर्शयसे द्रुतम् ॥ ४८ ॥ ततस्त्वां मुञ्चति क्षिप्रं वसुदासो भवत्सुतः । नैवं करोषि चेल्लोभान्मुञ्चत्येष न निश्चितम् ॥ ४९ ॥ निशम्य मुनिचन्द्रस्य वचनं पावनं नृणाम् । छेलकोऽमुं मुनिं प्राह स्वकीयध्वनिना कलम् ॥५०॥ मुने मुञ्चति यद्येष मां धनं चिरसंचितम् । ततोऽहं दर्शयाम्यस्य प्राणेभ्यः किं धनं बहु ॥ ५१ ॥ दिव्यज्ञानेन तद्भाषां विदित्वा मुनिसत्तमः । वसुदासं जगादायं विस्मयव्याप्तमानसम् ॥ ५२ ॥ " यत्प्रदेशे भुवं गत्वा स्वकीयचरणेन च । अयं जिघ्रति तामेव धनं तत्रास्ति ते परम् ॥ ५३ ॥ निगद्यैनं मुनिः स्पष्टं छेलकं वक्ति तं पुनः । अनेन विधिना सर्वं धनं पुत्रस्य दर्शय ॥ ५४ ॥ छेलको मुनिवाक्येन बहुलोकसमावृतः । जगाम प्राक्तनं क्षेत्रं महाधनसमन्वितम् ॥ ५५ ॥ खात्वा स्वधनभूमिं च पुरः पादखुरेण सः । जिघ्रति स्म तकां मन्दं छेलकः प्रीतमानसः ॥ ५६ ॥ अनर्घ्यरत्नसंघातं महारजतमिश्रितम् । प्रवालमौक्तिकोपेतं रजतादिमहाधनम् ॥ ५७ ॥ तत्प्रदेशे विलोक्येदं वसुदासः सवेपथुः । महावैराग्यसंपन्नो दध्याविति स चेतसि ॥ ५८ ॥ मत्पितुः सकलं ज्ञानं जन्मान्तरमिदं स्फुटम् । दिव्यज्ञानसमेतेन साधुना साधुना कथम् ॥ ५९ ॥ चिन्तयित्वा स्वपुत्राय धनं दत्त्वा विशुद्धधीः । समाधिगुणसामीप्ये वसुदासोऽग्रहीत् तपः ॥६०॥ पञ्चाणुव्रतसंयुक्तं चतुःशिक्षाव्रतान्वितम् । गुणत्रतत्रिकायुक्तं सम्यक्त्वादिसमन्वितम् ॥ ६१ ॥ मुनेः समाधिगुप्तस्य समीपे छेलकः सकः । गृहिधर्मं समादाय तस्थौ मुदितमानसः ॥ ६२ ॥ आश्चर्यमिदमालोक्य ग्रामीणः सकलो जनः । छागघाते जगामाथ देवता च भयान्विता ॥ ६३ ॥ जीवहिंसां विहायाशु महादुःखविधायिनीम् | जिनधर्मं च जग्राह स्वर्गमोक्षप्रदायकम् ॥ ६४ ॥ ॥ इति "श्रीपलाशसकूटग्रामोद्भववसुदासग्रामकूट देवताजीवहिंसाफलसंजातच्छेलककथानकमिदम् ॥ ७१ ॥
*
Jain Education International
1 पफ कृत्यकृत्यो. 2 पफ चतुःकुलकम् ज चतुष्कुलकम्. 3 [ बालक ]. 4 पफ युग्मम्, ज युगलम् 5 पफज चतुःकुलकम्. 6 पफ युग्मम् ज युगलम् 7 पफ युग्मम् ज युगलम्.
11 ज
8 पफ युग्मम्, ज युगलम्. 9 पफ युग्मम् ज युगलम्. 10 पफ युग्मम् ज युगलम्. omits इति श्री.
१६५
For Private & Personal Use Only
5
10
20
25
www.jainelibrary.org