________________
१६४
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ७१.५
८
१६ ॥
पद्मिनीवनसंछन्नं महाजलसरोवरम् । कारापितं सुदासेन चक्रवाकादिनादितम् ॥ ५ ॥ तत्समीपे समुत्तुङ्गं नानाऽनोकुहसंकुलम् । नन्दनादिवनं तेन कारितं पक्षिनन्दनम् ॥ ६ ॥ तन्मध्ये च समुत्तुङ्गं शिरीकृतनभस्तलम् । अमुना कारितं चारु साणूरं ध्वजभूषितम् ॥ ७ ॥ तन्मध्ये विकरालास्या भृकुटीभीषणालिका । मारीव जीवसंघानां दुर्गादेवी प्रतिष्ठिता स्वहस्तनिहतैर्जीवैर्महिषाजाविकादिभिः । मासषट्रे जनैः सार्धं दुर्गापूजां करोति सः ॥ ९ ॥ अन्यदा व्याधिसंग्रस्तः सुदासः स्वल्पजीवितः । आजुहाव निजं पुत्रं स्वनरेण त्वरावता ॥ १० ॥ समागतं पिता पुत्रं जगादेमं पुरः स्थितम् । तदा कण्ठगतप्राणश्चण्डिकाभक्तितत्परः ॥ ११ ॥ मासषट्ङ्के त्वयाऽवश्यं वर्षं वर्षं प्रति स्फुटम् । नितरां चण्डिकापूजा कर्तव्या महिषादिभिः ॥ १२ ॥ सुदासवचनं श्रुत्वा वसुदासो जगावमुम् । चण्डिकापूजनं तात करिष्याम्यजकादिभिः ॥ १३ ॥ 10 वसुदासवचः श्रुत्वा तन्मतप्रीतमानसः । सुदासः पञ्चतावाप्तिं प्राप्तवान् क्रूरमानसः ॥ १४ ॥ पलाशोपपदे ग्रामे चास्मिन्नेव सुदासकः । बभूव छेलकः पापात् तदा श्वपचपाटके ॥ १५ ॥ छेको यौवनं प्राप्तो मासष वराककः । मण्डितः पिष्टचूर्णेन पुष्पमालाभिरचितः ॥ देवतापादमूले च जनकप्रेमकारिणा । निहतो वसुदासेन छेलको दीनमानसः ॥ १७ ॥ महानसं परिप्राप्य तन्मांसं च सुसंस्कृतम् । भक्षितं वसुदासेन महासंतोषकारिणा ॥ १८ ॥ 15 अनेनैव विधानेन छेलकः सप्तजन्मसु । निहतो वसुदासेन जनकोक्तविधायिना ॥ १९ ॥ वसुदासपिता पूर्वं सुदासः कर्मयोगतः । भूयोऽपि छेलको जातस्तदाऽष्टमभवान्तरे ॥ २० ॥ मण्डितः पीतपिष्टेन पुष्पमालापरिष्कृतः । वसुदासेन नीतोऽसौ वधार्थं देवतान्तिकम् ॥ २१ ॥ तदुद्यानवने तेन छेकेन सुवेपिना । दृष्टः समाधिगुप्ताख्यो मुनिस्तरुतले सुधीः ॥ २२ ॥ जातिस्मरत्वमासाद्य छेलको मुनिदर्शनात् । यतेः समीपतां प्राप दीनं नादं समुच्चरन् ॥ 20 भगवन् मोचनं मेऽरं कारापय महामते । येनाहं त्वत्प्रसादेन तिष्ठामि स्वेच्छया भुवि ॥ छेलकस्य वचः श्रुत्वा बभाणेमं यतीश्वरः । अहं त्वन्मोचने भद्र न समर्थो मनागपि ॥ २५ ॥ यत्त्वया विहितं कर्म भुंक्ष्व त्वमशुभोदयम् । अतस्त्वन्मोचने भद्र न प्रभुर्वसुधातले ॥ २६ ॥ * श्रुत्वा मुनिवचः सत्यं वसुदासो जगावमुम् । अनेन छेलकेनामा किं ब्रूषे वद मेऽधुना ॥ २७ ॥ अवाचि साधुना भूयो वसुदासः पुरः स्थितः । विस्मयव्याप्तचेतस्को बहुलोकसमावृतः ॥ २८ ॥ 25 छेलकोऽयं भवत्तातः सुदासाख्योऽन्यजन्मनि । त्वयाऽयं देवतामूले निहतः सप्तवारकम् ॥ २९॥ अधुनाऽष्टमवेलायां जातोऽयं छेलको महान् । भवता नेतुमारब्धो देवतापादमूलकम् ॥ ३० ॥
२३ ॥
२४ ॥
5
मां छेलको भद्र भयवेपितविग्रहः । जगाद त्रस्तचेतस्कोऽधुना गद्गदनिखनः ॥ ३१ ॥ यथा मे मोचनं शीघ्रं कारापय मुनीश्वर । सर्वसत्त्वदयोपेतः समस्तजनबान्धवः ॥ ३२ ॥ परित्रायस्व मां नाथ परित्रायस्व पावन । परित्राणपरित्यक्तं पापिष्ठं पापसंभवम् ॥ ३३ ॥ 30 एवं ब्रुवन्नयं भद्र विह्वलीभूतमानसः । अस्माभिर्गदितो बाढं स्वरावाराविताम्बरः ॥ ३४ ॥ त्वया जीववधः पूर्वं विभूतिगणमिच्छता । विहितो मन्दभाग्येन पापोपार्जनकारिणा ॥ ३५ ॥ सांप्रतं ते परित्राणं विधातुं क्षणमप्यहम् । न शक्नोमि स्फुटं वत्स प्रतीहि वचनं मम ॥ ३६ ॥ आकर्ण्य तद्वचः क्रुद्धो जगादैतं यतीश्वरम् । वसुदासो जनाध्यक्षं कोपारुणनिरीक्षणः ॥ ३७ ॥
4 पफ युग्मम्
1 ज नानानोकह° ज युगलम् 5 [पेत... बान्धव ]. 6 पफज कुलकम्.
2 पफ युग्मम् ज युगलम् 3 पफ युग्मम्, ज युगलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org