________________
-७१. ४] छेलककथानकम्
१६३ चिन्तयित्वा चिरं तत्र प्रभाते तरुशाखतः। उत्तीर्य भूपतिः शीघ्रं विवेश स्वपुरं ततः ॥ १३२ ॥ नृपः श्रेष्ठिगृहं प्राप्य स्थित्वा त्वेनं प्रयत्नतः । पप्रच्छ नक्तमाख्यानमुपवासपरिश्रमम् ॥ १३३ ॥ राजा पुनरपि प्राह श्रेष्ठिनीः श्रेष्ठिपूर्वकम् । भवन्मध्ये तु का वक्ति क्षणदायां मदालसा ॥१३४॥ प्रोच्यमाने वराख्याने भवतीभिः परस्परम् । स्नेहातिशययुक्ताभिर्धर्मरञ्जितबुद्धिभिः ॥ १३५॥ यथा न सुष्ठ दृष्टं मे न सुष्ठु कथितं तथा । न सुष्ठ श्रुतमेवेदं संबन्धपरिवर्जितम् ॥ १३६ ॥ । न श्रद्दधाम्यहं किंचिन्न प्रत्येमि च किंचन । रोचनं स्पर्शनं नापि विदधामि महीतले ॥ १३७॥ इदं किं ज्ञानतः प्रोक्तं कयाऽप्यज्ञानतोऽपि वा । ननु संक्षेपतः सर्वं कथ्यतां मम सांप्रतम् ॥१३८॥' .. श्रुत्वाऽस्य वचनं सापि जगादेमं पुरःस्थिता । नक्तं मया महाराज मत्वाऽऽख्यानं प्रभाषितम् ॥१३९॥ निशम्य भारतीमस्या विस्मयस्थितमानसः । त्रयोऽपि ते गदन्तीमां नारी कुन्दलताभिधाम् ॥१४०॥ यथा शूलहताख्यानमस्माभिः कृतनिश्चयैः । दृष्टं श्रुतानुभूतं च खप्रत्यक्षं तनूदरि ॥१४१॥ ॥ किं कारणमिदं ब्रूषे दृष्टं सुष्ठ न किंचन । न सुष्ठु कथितं किंचिन्न सुष्ठ श्रुतमेव कौ ॥ १४२ ॥ न श्रद्दधामि किंचिच्च न प्रत्येमि क्वचित्पुनः । रोचनं स्पर्शनं चापि न करोमि धरातले ॥१४३॥ एवं पृष्टा च तैरेषा वदतीमान् पुरःस्थितान् । कौतुकव्याप्तचेतस्कान् भृशं तन्निहतेक्षणान् ॥ १४४॥ जिनधर्मप्रवीणानि सर्वाण्येतानि भूपते । विस्मयव्याप्तचित्तानि कृतकोलाहलानि च ॥ १४५॥ जिनधर्मस्य माहात्म्यं स्वर्गमोक्षपदस्य च । वीरास्तपो न कुर्वन्ति दक्षं कर्मविनाशने ॥ १४६ ॥ 15 प्रयोजनेन चैतेन मयैवं ते प्रजल्पिताः । दुर्दुष्टं दुःश्रुतं चैव तथा दुःकथितं भुवि ॥ १४७॥ जिनधर्मस्य माहात्म्यं प्रत्यक्षं न मयेक्षितम् । कथ्यमानं श्रुतं चाय हरिद्रायां कथानकम् ॥१४८॥ प्रत्यक्षं जिनधर्मस्य माहात्म्यमहमद्य च । प्रत्यक्षं तत्समादाय विदधामि तपोऽमलम् ॥ १४९॥ तद्वाक्यतस्त्रयस्तुष्टा वदन्तीमां नृपादयः । यथेदं शोभनं भद्रे त्वया निगदितं क्षितौ ॥ १५० ॥ त्वमेव दृढसम्यक्त्वा जिनधर्मपरायणा । यस्या बुद्धिसमुत्पन्ना प्रशस्तगुणविस्तरा ॥ १५१॥ 20 कुन्दादिकलतान्तायाः सम्यक्त्वं विधुनिर्मलम् । तथा शीलमुदारं च प्रशस्यातीव शोभनम् ॥१५२॥ तदोदितोदयो राजा सुबुद्धिः सचिवोऽपि वा । अर्हद्दासस्तथा श्रेष्ठी सुवर्णखुरतस्करः ॥ १५३ ॥ वितीर्य स्वस्वपुत्रेभ्यः संपदं बहवो नृपाः । श्रीधरान्ते दधुर्दीक्षां महावैराग्यसंगताः ॥ १५४ ॥" उदितोदयमहादेव्यो मित्रश्रीप्रभृतिस्त्रियः । ऋषभाद्यर्जिकापार्श्वे जगृहुर्जिनदीक्षणम् ॥ १५५ ॥ अन्येऽपि बहवो लोका विस्मयव्याप्तमानसाः । जिनधर्म ससम्यक्तवं जगृहुः शुद्धचेतसाः ॥१५६॥ 25
॥ इति श्रीअर्हद्दासश्रेष्ठीमित्र श्रीप्रभृतिअष्टभार्या
दृढसम्यक्त्वकथानकमिदम् ॥ ७॥
७१. छेलककथानकम् । नासिकाख्यपुरस्यास्य पश्चिमस्यां दिशि स्फुटम् । कुडमोपपदो देशो विद्यते जनसंकुलः ॥ १॥ तत्र धान्यधनाकीर्णो बहुलोकसमावृतः । पलाशपूर्वको ग्रामो महातरुसमन्वितः॥२॥ सुदासोऽत्र पृथुग्रामे ग्रामकूटो महाधनः । सुदासी तत्प्रिया चार्वी तन्मनोनयनप्रिया ॥३॥ वसुदासोऽनयोः पुत्रस्तन्मानसमलिम्लुचः । विनयी रूपसंपन्नो बभूव दयितस्तराम् ॥ ४॥
1 फप चतु:कुलकम् , ज चतुष्कलकम्. 2 पफज चतुष्कलकम्. 3 पफ वदन्तीमान्. 4 पफज त्रिभिः कुलकम्. 5 पफ युग्मम् , ज युगलम्. 6ज omits इतिश्री, and reads अर्हदास.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org