________________
१६२ हरिषेणाचार्यकृते बृहत्कथाकोशे
[७०. ९९नगर्यां सूर्यकौशाम्ब्यां शकटाख्यो नरेश्वरः । स्वश्रेष्ठिनो गृहे चाश्वं मुमोच गगनायनम् ॥ ९९॥ जितशत्रुनृपप्रोक्तः सहस्रभटनामकः । जहारेमं तुरङ्गं स प्रसादाय प्रपञ्चतः ॥ १०० ॥ अधिरुह्य तुरङ्गं स यावद्वजति स्वाङ्गणे । तावदुत्पत्य चानेन पातितोऽयं मृतिं गतः ॥ १०१॥
पूर्वस्मिन् श्रेष्ठिना सार्धं समायातोऽत्र खेचर । अधुना सिद्धकूटाग्रे तिष्ठति स्थिरमानसः ॥१०२॥ । सांप्रतं स्कन्धदेशे त्वं करेणास्फालय द्रुतम् । वारत्रयं प्रयत्नेन तुरङ्गं व्योमचारिणम् ॥ १०३॥ चारणोक्तं समाकर्ण्य खेचरः प्रीतमानसः । स्कन्धे वारत्रयं शीघ्रं करणाहत्य वाजिनम् ॥ १०४ ॥ आरुरोह स तत्पृष्ठं विस्मयव्याप्तमानसः । सूर्यकौशाम्बिकाभ्याशं तुरङ्गः प्राप वेगतः ॥ १०५॥ अथ श्रेष्ठी परिज्ञाय वाजिनं गगनायनम् । मायाप्रपञ्चयुक्तेन हृतं तेन दुरात्मना ॥१०६ ॥ प्रत्याख्यानं समादाय द्विविधं जिनसाक्षिकम् । कायोत्सर्गेण संतस्थे चेत्यगेहे वनस्थिते ॥ १०७॥ 10 अत्रान्तरे स विज्ञाय भूपोऽश्वं केनचिद्धृतम् । चुकोप श्रेष्ठिने सद्यः प्रमतत्त्वकृतागसे ॥१०८॥
कोपतः प्राह भूपालो नरान् निकटवर्तिनः । गम्भीरध्वनिना बाढं दिशः प्रतिनिनादिना ॥१०९॥ रे रे नरा दुराचारं श्रेष्ठिनं तं प्रमादिनम् । निहत्य तद्धनं सर्वं समानयत सत्वरम् ॥ ११० ॥ नृपाज्ञाऽनन्तरं यावच्छ्रेष्ठिपार्थ प्रयान्ति ते । तावद्देवतया सर्व स्तम्भिता जिनवेश्मनि ॥ १११ ॥
अश्वोऽपि तावदागत्य त्रिःपरीत्य जिनालयम् । श्रेष्ठिपार्थं समं तस्थौ विनयानतमस्तकः ॥११२॥ 15 अहो दृढव्रतः श्रेष्ठी दृढधर्मा जिनप्रियः । नभःस्था दिव्यवाक्यानि वदन्ति सरसाः सुराः ॥११३॥
अहो जैनस्य धर्मस्य माहात्म्यं भुवनातिगम् । येनोपसर्गमीदृशं शमयन्ति सुरेश्वराः ॥ ११४ ॥ उपसर्गे क्षयं याते देवैः सर्वैः प्रपूजितः । महाविस्मयमापन्नैर्महाविभवयोगतः ॥ ११५ ॥ देवैः प्रपूजितं दृष्ट्वा श्रेष्ठिनं प्रीतमानसाः । नृपपौरादयः सर्वे चक्रिरेऽस्य क्षमापणम् ॥ ११६ ॥ ततो नृपमहाश्रेष्ठीमत्रिपौरादयो नृपाः । जिनदत्तान्तिके दीक्षां जगृहुः शुद्धचेतसः ॥११७॥ 20 दृष्ट्वाऽऽश्चर्यमिदं तस्य श्रेष्ठिनो गुणशालिनः । समुद्रोपपदो दत्तः सहायं कमलश्रिया ॥ ११८॥
अन्येऽपि बहवस्तत्र विस्मयव्याप्तमानसाः। जिनधर्मं च सम्यक्तवं प्राप्य श्रावकतामिताः॥११९॥ ततो विद्युल्लता प्राह श्रेष्ठिनं रमणीयुतम् । कौतुकव्याप्तचेतस्कं जिनाभिकमलालिनम् ॥ १२० ॥ प्रातिहार्यमिदं दृष्ट्वा विहितं सुरकुरैः । एतस्य दृढसम्यक्त्वा जाताऽहं मनसः प्रिय ॥ १२१ ॥ तद्वचः शोभनं श्रुत्वा चाहदासो जगौ प्रियाः । विनयोपस्थितास्तत्र कन्दोट्टदललोचनाः ॥१२२॥ 2भद्राः सुष्ठु श्रुतं दृष्टं कथितं सुष्ठु भोजनम् । तथा सुष्ठ श्रुतं नूनमस्माभिः कृतनिश्चयैः ॥ १२३ ॥
श्रद्दधामि तदेवोच्चैस्तत् प्रत्येमि दिवानिशम् । रोचनं स्पर्शनं चापि विदधामि मुहुर्मुहुः ॥ १२४ ॥ श्रुत्वा तद्वचनं कान्तं तदा कुन्दलता परा । तद्भार्या पश्चिमा प्राह तकं विस्मितमानसा ॥ १२५॥ तच्छ्रेष्ठिप्रातिहार्यं च न दृष्टं सुष्ठु बालिके । न सुष्ठु कथितं किंचिन्न सुष्ठु श्रुतमेव च ॥१२६॥
तथा न श्रद्दधामीति न प्रत्येमि कदाचन । रोचनं स्पर्शनं चैव न करोमि मनागपि ॥ १२७ ॥ ३० दृष्ट्वा वृत्तान्तमीदृक्षं श्रेष्ठिनो विह्वलात्मनः । न जाता दृढसम्यक्त्वा न धर्मस्थिरबुद्धिका ॥ १२८॥
श्रेष्ठिभार्यावचः श्रुत्वा राजा मत्री च तस्करः । दध्यौ विस्मितचेतस्को नक्तं तरुसमाश्रितः ॥१२९॥ एतस्याः श्रेष्ठिभार्यायाः प्रभातसमये द्रुतम् । निग्रहं हि करिष्यामि स्वहस्तेन कुयोषितः ॥१३०॥ अन्यासां श्रेष्ठिपत्नीनां विस्मयाकुलचेतसाम् । महापूजां करिष्यामि महाविभवयोगतः ॥१३१ ॥
___ 1 पफज षटूकुलकमिदम्. 2 पफ युग्मम् , ज युगलम्. 3 पफ युग्मम् , ज युगलम्. 4 [प्रमत्तत्व॰]. 5 पफ युग्मम्, ज युगलम्. 6 पफ जग्राह. 7 पफ युग्मम, ज युगलम्. 8 पफज त्रिकलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org