________________
-७०. ९८]
विद्युल्लतादिकथानकम् एवमुक्त्वा समुत्तीर्य जलयानादरं वणिक् । एकमश्वं समारुह्य तत्समं गगनायनम् ॥६६॥ द्वितीयं रश्मिनाऽऽकृष्य तुरङ्गं जलयायिनम् । प्रापतुः सूर्यकौशाम्बी तदानीं तौ वधू-वरौ ॥६७॥ जलायनं समप्यकं तुरङ्गं कमलश्रियः । आदायाकाशगं सोऽपि जगाम नृपमन्दिरम् ॥ ६८॥ स्थूरीपृष्ठं समालोक्य हरिलक्षणलक्षितम् । अङ्गलग्नं ददावस्मै भूषणं तोषतो नृपः ॥ ६९ ॥ अनझोपपदां सेनां प्रासादं सप्तभूमिकम् । अर्धराज्यं प्रदायास्मै जग्राहावं महीपतिः ॥ ७० ॥ । तरामृषभसेनस्य श्रावकस्य महात्मनः । अश्वं पालयितुं बाढं भूभुजाऽयं समर्पितः ॥ ७१ ॥ आदाय तत्तुरङ्गं च स्वहस्तेन प्रयत्नतः । स्थापयामास स श्रेष्ठी स्वगृहे भूमिगोचरे ॥ ७२ ॥ श्रेष्ठी तमश्वमारुह्य सुन्दरं पर्ववासरे । विजयार्धगिरौ चैये वन्दनार्थं जगाम सः ॥ ७३ ॥ तत्रत्यसिद्धकूटान्ते तुरङ्गादवतीर्य सः । कृत्वा प्रदक्षिणं चास्य तदन्तः स्तौति तं जिनम् ॥ ७४ ॥ अश्वोऽपि श्रेष्ठिना सार्धं त्रिः परीत्य जिनालयम् । चैत्याङ्गणे विनीतात्मा तिष्ठति प्रीतमानसः ॥७५॥ ॥ जिनस्तुतिं विधायात्र श्रेष्ठी पूर्वविधानतः । भूयस्तमश्वमारुह्य सूर्यकौशाम्बिकं ययौ ॥ ७६ ॥ ततोऽसौ सूर्यकौशाम्ब्यां मुनिसंघसमन्वितम् । आचार्य जिनदत्ताख्यं तत्समं याति भक्तितः ॥७७॥ ततः श्रेष्ठी समं तेन त्रिःपरीत्य जिनालयम् । विवेशाभ्यन्तरं तस्य तद्वहिस्तुरगोऽभवत् ॥ ७८ ॥ तत्र चैत्यं मुनिं नत्वा भक्तिहृष्टतनूरुहः । श्रेष्ठीमं सप्तिमारुह्य प्रययौ स्वनिकेतनम् ॥ ७९ ॥ अन्यदा भूपतिः प्राह जितशत्रुः सभागतान् । बली प्रत्यन्तवासी च ललाटन्यस्तपाणिकान् ॥८०॥ 15 नगयाँ सूर्यकौशाम्ब्यां शकटस्य महीपतेः । जात्यश्वो हि नभोयायी श्रेष्ठिगृहे वितिष्ठते ॥ ८१॥ यस्तमश्वं मनोवेगं नभस्तलविसर्पिणम् । क्षिप्रमानयति स्पष्टं ददाम्यस्मै महाधनम् ॥ ८२ ॥ जितशत्रुवचः श्रुत्वा सहस्रभटसंज्ञकः । जगादेमं विनीतात्मा सभामध्ये भटोत्तमः॥८३॥ आनयामि तव क्षिप्रमादित्यरथवाजिनम् । धरास्थेन तुरङ्गेण न गण्यं मे नरेश्वर ॥ ८४ ॥ एवमुक्त्वा पुरस्तस्य निर्गत्य स तदन्तिकात् । आदाय क्षौल्लकं रूपं सूर्यकौशाम्बिकां ययौ ॥८५॥ 20 दृष्ट्वा तं क्षुल्लकं तेन धर्मवात्सल्यकारणात् । श्रेष्ठिना संगृहीतोऽसाविच्छाकारं प्रकुर्वता ॥८६॥ अथ लोचनरोगोत्थां मायां कृत्वा सुदुष्टधीः । तस्थौ स तगृहे तत्र "फूत्कारमुखराननः ॥ ८७॥ जनैः प्रकथितं तस्य सत्यभाषणतत्परैः । यथाऽयं क्षुल्लकः श्रेष्ठिन् धर्मबाह्योऽतिवञ्चकः ॥ ८८॥ तथाऽपि श्रेष्ठिना तस्य धर्मवात्सल्यमिच्छता । पृष्टेन दर्शितः शीघ्रं तुरङ्गो रूपराजितः ॥ ८९ ॥ दृष्ट्वाऽयं तस्करः प्राह श्रेष्ठिनं विनयानतः । अहमस्य प्रयत्नेन करोमि परिरक्षणम् ॥ ९०॥ 21 श्रुत्वाऽस्य वचनं श्रेष्ठी बभाणेमं पुरःसरम् । एवमस्त्विति संभाष्य तुरङ्गोऽस्य समर्पितः ॥ ९१॥ अथाश्वं पालयन् धूर्तों नक्तमादाय तं पुनः । जगाम सूर्यकौशाम्ब्याः सहस्रभटनामकः ॥ ९२ ॥ अत्रान्तरे प्रमुक्तेन तेनाश्वेन प्रधावता । पतितो विषमस्थाने तस्करो मृतिमाप सः ॥ ९३॥ विजयाधनगं प्राप्य त्रिःपरीत्य तुरङ्गमः । सिद्धकूटं महाकूटं तस्थौ भक्त्या तदङ्गणे ॥ ९४ ॥ चारणौ ज्ञानसंपन्नौ सिद्धकूटजिनालये । तस्थौ चित्रगतिस्तत्र मनोगतिरपि क्रमात् ॥ ९५॥ ७ अथ विद्याधरस्तत्र प्राह चित्रगतिं मुनिम् । दिव्यज्ञानसमायुक्तं कौतुकव्याप्तमानसः ॥ ९६॥ नाथ सप्तिरयं कस्य तिष्ठति प्रीतमानसः । उत्तुङ्गसिद्धकूटाग्रे ब्रूहि मे सांप्रतं मुने ॥ ९७ ॥' श्रुत्वा तद्वचनं साधुर्जगादेमं पुरः स्थितम् । कौतुकव्याप्तचेतस्कं दिव्यज्ञानविलोचनः॥९८॥
___ 1 पफ जलयानं. 2 फ तिष्ठते. 3 पफज त्रिभिः कुलकम्. 4 पफ युग्मम् , ज युगलम्. 5 ज पूत्कार. 6 फ अथ खं. 7 पफ युग्मम्, ज युगलम्.
बृ० को० २१ Jain Education International For Private & Personal Use Only
www.jainelibrary.org