________________
१६० हरिषेणाचार्यकृते बृहत्कथाकोशे
[७०. ३३तद्वाक्यतोऽमुना सर्वे चानीतास्तुरगास्तदा । वाजिमध्येऽत्र को सारौ गृह्णाम्यश्ववरौ वद ॥ ३३॥ तद्वाक्यतो जगादैषा तत्प्रीतिस्थिरमानसा । स्यातामश्वाविमौ सारौ वाजिमध्ये मनोजवौ ॥ ३४ ॥ एकः खे याति वेगेन द्वितीयोऽपि जलोपरि । एतौ गृहाण वाजीन्द्रौ बहुमूल्यौ मनोहरौ ॥३५॥
उक्ता समुद्रदत्तेन सा कन्या कलनिस्वना । जानामि तौ कथं सारी हरी ब्रूहि मनस्विनि ॥३६॥ 5 तयाऽवाचि पुनः सोऽपि नितान्तं तद्गताशयः । एकः शुक्लो बलाकाभो रक्तोऽन्यः शुक्ललोचनः ॥३७॥ यः किलर्जुरुदासीनः स्थिरको वराङ्गकः । आस्ते सितः खयायान् स जात्यश्वः सप्तिनायकः ॥३८॥ चलकर्णशयानो यः स रक्तो जलयानकः । कथितौ ते मया चारू जात्यश्वौ च गृहाण तौ ॥३९॥' तदभिज्ञानतो ज्ञात्वा जात्यश्वौ स्वमनोहरौ । कमलादिश्रियं प्राह तद्गुणाकृष्टमानसः ॥ ४०॥ ज्ञातौ तवोपदेशेन वाजिनौ परमौ मया । अधुना यद्रवीपि त्वं तदेव विदधाम्यहम् ॥४१॥ 10 ततोऽभिलक्षणं कृत्वा स्वमतं प्रीतमानसौ । तूष्णीभावमुपाश्रित्य तस्थतुस्तौ यथोचितम् ॥४२॥
अत्रान्तरे परिभ्रम्य पुरग्रामादिकं बहु । पलाशपूर्वके ग्रामे प्राप्तास्ते तत्समागमम् ॥४३॥ प्राप्तेषु तेषु सर्वेषु प्रपूर्णे च समात्रये । जगौ समुद्रदत्तोऽयमशोकं शोकवर्जितम् ॥ ४४ ॥
गृहं स्वामिन्नहं यामि स्वदेशं मातृवल्लभम् । तत्र देशे क्रियाः सर्वाः करिष्यामि मनोहराः॥४५॥ __ अशोकस्तद्वचः श्रुत्वा बभाणेमं ससंभ्रमम् । स्नेहनिर्भरचेतस्कं बाष्पविप्लुतलोचनम् ॥ ४६॥ 15 सर्वलक्षणसंपूर्णौ “त्वन्मनोनयनप्रियौ । अश्वमध्ये गृहाण द्वावश्वावत्यन्तशोभनौ ॥ ४७ ॥ निशम्य गिरमेतस्य बभाणेमं हरीश्वरम् । एकमश्वं हि मे देहि श्वेतरक्ततुरङ्गयोः ॥ ४८॥ आकर्ण्य तद्वचो दक्षमशोकोऽपि तमब्रवीत् । दुष्टावश्वाविमौ भद्र दूरोत्कलनकारिणौ ॥ ४९॥ दुःकुलीनालसोपेतौ कठोरखनभीषणौ । देशान्तरमपि प्राप्तौ स्तोकमूल्याविमौ खलौ ॥ ५० ॥ अश्वावेतौ विहायान्यो सप्तिमध्ये मनोहरौ । गृहाण शोभनाकारौ बहुमूल्यौ कलखनौ ॥ ५१ ॥ तद्वाक्यतः पुनः प्रोक्तोऽशोकोऽनेन मनीषिणा । अश्वौ पूर्वोदितौ हित्वा नान्यौ गृह्णामि निश्चितम् ॥५२ ० देशिकोक्तं समाकर्ण्य खगृहं प्राप्य वेगतः। पप्रच्छेति जनं सर्वं स्वकीय सप्तिनायकः ॥ ५३॥
देशिकस्यास्य केनायं स्थूरीपृष्ठपरीक्षणे । उपदेशो वितीर्णोऽसौ ब्रूत मे लघु सज्जनाः ॥ ५४॥ भूयोभूयः समुक्तोऽपि यदा वक्ति न कोऽपि तत् । तदाऽशोकेन विज्ञातं मुखालोकनतः स्फुटम् ॥५५॥ उपदेशः प्रदत्तोऽस्मै मत्पुत्र्या कमलश्रिया । एवं ज्ञात्वाऽमुना चित्ते स्थितं विस्मितचेतसा ॥५६॥
समुद्रदत्तमाहूय दत्तश्च हयमादरात् । ददावस्मै प्रयत्नेन कन्यां च कमलश्रियम् ॥ ५७॥ 25 शोभने दिननक्षत्रे योगे च रजनीपतौ । विधिनेदं तदा वृत्तं पाणिग्रहणमेतयोः ॥ ५८॥ ततो बहुधनं दत्त्वा तत्तुरङ्गद्वयं तथा । वधूवरौ मुदा क्षिप्रमशोकस्तौ विसृष्टवान् ॥ ५९॥ भार्ययाऽश्वद्वयेनापि समस्तैः सह वाणिजैः। तदाऽसौ नावमारूढो नदीनोत्तरणं प्रति ॥६०॥ जात्यश्वरूढमालोक्य वार्धिमध्ये स नाविकः । जगौ समुद्रदत्तं च धूर्तः कुटिलमानसः ॥ ६१॥
यदि त्वं देहि मे क्षिप्रमश्वमेकं मनोहरम् । वार्धितीरं नयामि त्वां नान्यथा मे तवोदितम् ॥६२॥ 30 नाविकस्य वचः श्रुत्वा जगादैतं स वाणिजः । यजल्पितं मया ते च तद्ददामि न चापरम् ॥६३॥
अवाचि नाविकेनायं यदि न देहि मेऽश्वकम् । ततोऽपसर्प नावोऽरं मदीयाया विसंशयम् ॥६४॥ नाविकोक्तं समाकर्ण्य बभाणेमं वणिक्पतिः । अतोऽहमुत्तरिष्यामि नाश्वमेकं ददामि ते ॥ ६५ ॥
___1 पज षड्भिः कुलकम् , ज षट्कुलकमिदम्. 2 [ ततोऽभिलषणं ]. 3 पफ युग्मम् , ज युगलम्. 4 पफ तन्मनों. 5 पफ युग्मम् , ज युगलम्. 6 पफज त्रिभिः कुलकम्.7 [ दत्त्वा च ].8[यदि मे देहि नाश्वकम्].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org