________________
-७०. ३२]
विद्युल्लतादिकथानकम्
७०. विद्युल्लतादिकथानकम् । विद्युल्लताभिधां भार्यां सप्तमी श्रेष्ठिनी जगौ । श्रेष्ठी तव कथं कान्ते सम्यक्त्वं स्थिरतां गतम् ॥१॥ निशम्य श्रेष्ठिनो वाक्यं जगौ विद्युल्लताऽपि तम् । विस्मयव्याप्तचेतस्कं तच्चित्तस्थितमानसा ॥२॥ मनोरमाऽत्र पूर्देशे विद्यते धनसंकुले । नगर्यां सूर्यकौशाम्ब्यां शकटो नाम भूपतिः ॥ ३॥ बभूवास्य महादेवी विजया नाम विश्रुता । एकोऽत्रैव पुरे श्रेष्ठी शुरदेवो वसत्यसौ ॥४॥ अनेन शूरदेवेन कलिङ्गविषयादरम् । जात्यश्वोऽत्र समानीतो मनोवातजवो महान् ॥ ५॥ दत्तस्तुरङ्गमोऽनेन शकटाख्यमहीपतेः । नृपेणास्य धनं दत्त्वा महाधनपतिः कृतः ॥६॥ शूरदेवोऽपि तत्प्राप्य धनमस्य महीपतेः । महाधनाधिपो भूत्वा तस्थौ मुदितमानसः ॥ ७ ॥ मुनिः श्रीषेणनामाऽथ गृहपंक्त्या परिभ्रमन् । मासोपवाससंयुक्तो विवेश गृहमस्य सः॥ ८॥ दृष्ट्वा स्वगृहमायातं शूरदेवो मुनिं तदा । समुत्थाय तरेणाशु जग्राह स्थितिकोविदः ॥९॥ ॥ प्रतिग्रहः शुचिस्थानं चरणोदकपूजने । नतिर्मानसवाक्कायाहारशुद्धिः क्रमादिति ॥१०॥ एवमादिक्रियाः कृत्वा शूरदेवोऽतिभक्तितः । ददावाहारदानं च योगिने स्थितिभोजिने ॥११॥ दत्ते चाहारदानेऽस्मिन् शूरदेवस्य मन्दिरे । आश्चर्यपञ्चकं जातं भक्तितः किं न जायते ॥ १२ ॥ अत्रैव नगरे श्रेष्ठी दत्तान्तः सागरादिकः । पुत्रः समुद्रदत्तोऽस्य श्रीदत्तागर्भसंभवः ॥१३॥ वसुधारादिकं दृष्ट्वा शूरदेवगृहे तदा । दध्यौ समुद्रदत्तोऽयं महादारिद्रपीडितः ॥ १४ ॥ अहं तं देशमासाद्य जात्यश्वं चानये परम् । विभूतिमीदृशीं येन प्राप्नोमि सुखदायिनीम् ॥ १५॥ चिन्तयित्वा चिरं सोऽपि वणिग्भिः स्वसमैः सह । वणिज्यायै गतः शीघ्रं परदेशं धनेच्छया॥१६॥ ततस्तैर्मिलितैः प्रोक्तं सर्वैरपि परस्परम् । तोषपूरितचेतस्कैर्धनसंघातमिच्छुभिः ॥१७॥ पलाशपूर्वके ग्रामे विधाय क्रयविक्रयम् । मिलितव्यं समं सर्वैः कृतसंतोषनिखनैः ॥ १८॥ एवं निगद्य ते सर्व धनार्थ कांदिशीककाः । सहाय्यतां विहायाशु ययुर्मुदितचेतसः ॥ १९॥ 20 स्थितः समुद्रदत्तोऽत्र ग्रामे धनसमन्विते । आसीदशोकनामायं कुटुम्बी बहुगोधनः ॥ २० ॥ अशोकः सप्तिसंघानां नरमाह्वयते कृते । श्रुत्वा समुद्रदत्तोऽपि तच्छब्दं गतवानिमम् ॥ २१ ॥ दृष्ट्वा समुद्रदत्तं च जगादाशोकनामकः । किमर्थं त्वं समायातो मदन्तं ब्रूहि सत्वरम् ॥ २२॥ अशोकवचनं श्रुत्वा बभाणेममयं पुनः । त्वदश्वरक्षणं नूनं करोमि धनवान्छया ॥ २३ ॥ श्रुत्वा तद्वचनं सोऽपि जगावेतं पुरःस्थितम् । समात्रये गते भद्र प्रधानाश्वौ ददामि ते ॥ २४ ॥ 25 तदा समुद्रदत्तोऽपि तन्मतेन दिवानिशम् । तदश्वान् पालयंस्तस्थावशोकभवने मुदा ॥ २५ ॥ प्रभातेऽश्वान् समादाय वनं जलतृणान्वितम् । प्रयाति प्रीतचेतस्कस्तत्पालनपरायणः ॥ २६ ॥ नानाफलानि पक्वानि सपुष्पाणि मृदूनि च । वनादेत्य स सन्ध्यायां ददाति कमलश्रियः ॥२७॥ एवं गच्छति तत्काले फलादानमृदूक्तिभिः । प्रीतिः समुद्रदत्तेन बभूव कमलश्रियः ॥२८॥ दृष्ट्वेमं कन्यका दध्यौ गृहवासो यदि स्फुटम् । भविष्यति ममानेन नान्येन मनुजेन सः ॥ २९॥ 30 अन्यदाऽवाचि सा तेन स्नेहनिर्भरमानसा । स्वदेशं यातुमिच्छामि सांप्रतं जननीसमम् ॥३०॥ श्रुत्वाऽस्य वचनं कन्या सा सस्नेहमिमं जगौ । अहं त्वया समं यामि किंतु मद्वचनं शृणु ॥३१॥ जात्यश्वौ तिष्ठतः सारौ द्वावेवाश्वकदम्बके । मन्मतेन गृहाणेमौ कुरु कार्यं यथेप्सितम् ॥ ३२ ॥
1 [त्वरेणाशु]. 2 पफ युग्मम् , ज युगलम्. 3 ज सहय्यतां. 4 ज फलदान'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org