________________
१५८
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ६९. २४
जिनदत्तावचः श्रुत्वा तन्नरेण निरूपितम् । मुनिं नत्वा जगामायं तत्समं स्वसुरन्तिकम् ॥ २४ ॥ दृष्ट्वा स्वभ्रातरं प्राप्तं जिनदत्ताऽतिवेगतः । चकार स्नेहतोऽनेन क्षेमसंभाषणादिकम् ॥ २५ ॥ प्रदाय भोजनं चास्मै नानावस्त्रादिकं धनम् । चकार बहुसन्मानं जिनदत्ता जिनप्रिया ॥ २६ ॥ सार्थवाहसुतास्ते च कृत्वा वाणिज्यमुत्तमम् । कौशाम्ब्याख्यपुरीतोऽरं निर्ययुः प्रीतमानसाः ॥ २७ ॥ • सूक्ष्मं महापथं हित्वा गोदण्डेन ययुस्तके । उमकेन समं सर्वे महाकक्षमिदं श्रिताः ॥ २८ ॥ ततो मार्गपरिभ्रष्टाः क्षुधापम्पाकदर्थिताः । उमकेन समायुक्ताः सार्थवाहसुतास्तदा ॥ २९ ॥ गन्धामोदितसर्वाशं फलितं' दृष्टिवल्लभम् । किंपाकवृक्षमुत्तु ददृशुस्ते वनान्तरे ॥ ३० ॥' तत्फलानि समादाय मनोहारीणि देहिनाम् । भक्षितानि तकैर्मूढैस्तृड्बुभुक्षाकदर्थितैः ॥ ३१ ॥ उमकेन विचित्राणि बुभुक्षाग्रस्तचेतसा । भक्षितानि न चैतानि तन्निवृत्तिनिमित्ततः ॥ ३२ ॥ सार्थवाहयुताः सर्वे युगपन्मृतिमाययुः । अज्ञानमूढचेतस्काः किंपाकफलभक्षणात् ॥ ३३ ॥ अज्ञातफलहानेन व्रतयोगेन केवलम् | उमकः पञ्चतावाप्तिं न यातः स्थिरमानसः ॥ ३४ ॥ ततो मृतावशिष्टं तं वृद्धदेवी विलोक्य च । पप्रच्छ तत्परीक्षार्थं तन्मतान्तरवेदिनी ॥ ३५ ॥ एतान्यदनरूपाणि मृष्टानि मधुराणि च । नरदेवीसुरादीनां भोज्ययोग्यानि सर्वदा ॥ ३६ ॥ तृष्णाक्षुधागृहीतेन वने भोजन वर्जिते । त्वया कुतो न जग्धानि फलानि कथयाशु मे ॥ ३७ ॥ वृद्धदेवीवचः श्रुत्वा जिनदत्ताऽग्रजोऽब्रवीत् । इमां पुरस्थितां तत्र कौतुकव्याप्तमानसाम् ॥ ३८ ॥ अविज्ञातफलानां हि मयैतेषामवग्रहः । गृहीतो मुनिसामीप्ये खण्डितुं स न युज्यते ॥ ३९ ॥ देवी तद्वाक्यतो हृष्टा बभाणेमं दृढव्रतम् । वरं वृणीष्व भद्र त्वं मनोऽभिलषितं परम् ॥ ४० ॥ अवाचि देवताऽनेन तन्मतान्तरवेदिना । सर्वेऽपीमे वयस्या मे समुत्तिष्ठन्तु सत्वरम् ॥ ४१ ॥ देव्या तद्वाक्यतः सर्वे सार्थवाहकुमारकाः । उत्थापिताः प्रयत्नेन विकसन्मुखपङ्कजाः ॥ ४२ ॥ 20 ततो देवी तकं प्राह तोषपूरितमानसा । भवन्तं पूजयिष्यामि श्रीमदुज्जयिनी मितम् ॥ ४३ ॥ देवी प्रदर्श्य पन्थानमुज्जयिन्यास्त्वरावती । सार्थवाहकुमाराणां जगाम स्वमनीषितम् ॥ ४४ ॥ तत्समं प्रीतचेतस्काः सार्थवाहकुमारकाः । सर्वेऽपि ते परिप्रापुः श्रीमदुज्जयिनीं पुरीम् ॥ ४५ ॥ उमकं तं परिप्राप्तं सुकुमारं पुरीमिमाम् । ज्ञात्वा देवी च संप्राप्य तत्पार्श्वं प्रीतमानसा ॥ ४६ ॥ लोकविस्मयकारिण्या पूजयोमकमादरात् । पूजयामास सा देवी तदानीं नृपसाक्षिकम् ॥ ४७ ॥ 2s पञ्चवर्णमणीनां च स्वकराहतभास्वताम् । पातयामास सा देवी तदग्रे घष्टिकोटिकाः ॥ ४८ ॥ अन्येऽप्यतिशया जाताः पुष्पवृष्ट्यादयोऽस्य च । देवैर्नभोगतैर्घुष्टमुमकोऽयं दृढव्रतः ॥ ४९ ॥ दृष्ट्वाऽतिशयमेतस्य भूभुजा तज्जनेन च । महाविभवयोगेन चोमकः पूजितस्तराम् ॥ ५० ॥ दत्त्वा राज्यं स्वपुत्रेभ्यो नरपालादयो नृपाः । समीपे धरसेनस्य सवैराग्याः प्रवत्रजुः ५१ ॥ तदोमकादयो हृष्टा नराः सम्यक्त्वपूर्वकम् | जिनधर्मं समादाय बभूवुः श्रावकाः परे ॥ ५२ ॥ कनकादिलता भार्या श्रेष्ठिनं प्राह विस्मिता । उमकं पूजितं दृष्ट्वा सम्यक्त्वं मम सुस्थितम् ॥ ५३ ॥ - शेषं पूर्ववत् -
I
॥ इति श्रीअज्ञातफलपरित्यागदृढव्रतसम्यक्त्वदेवतापूजितोमकदर्शन
कनकलतादृढसम्यक्त्वसप्तमकथानकमिदं परिपूर्णम् ॥ ६९ ॥
1 ज फलिनं. 2 पफ युग्मम् ज युगलम्. 3 पफज त्रिभिः कुलकम्. 4 मनोभिलिखितं 5 [ वृष्टिकोटिकाः ]. 6 ज omits इति श्री.
For Private & Personal Use Only
10
15
30
Jain Education International
張
www.jainelibrary.org