________________
-६९. २३ ] कनकलताकथानकम्
१५७ अहो पद्मश्रियः शीलमहो सत्यमणुव्रतम् । अहो जिने परा भक्तिरहो धर्मेऽपि तन्मतिः ॥६६॥ विलोक्याश्चर्यमीदृक्षं तदा पद्मश्रियः परम् । दन्तिवाहनभूपालमत्रिणो विस्मयं ययुः ॥ ६७॥ वितीर्य स्वस्य पुत्रेभ्यो 'राज्यभारमहागुणम् । महावैराग्यसंपन्ना मोक्षविन्यस्तबुद्धयः ॥ ६८॥ दन्तिवाहनभूपालमत्रिपौरादयस्तदा । हित्वा परिग्रहं सर्व श्रीधरान्ते प्रवव्रजुः ।। ६९॥ बुद्धदासोऽपि पद्मश्रीर्बुद्धसंघादिवाणिजाः । विहाय लौकिकं धर्म जिनधर्म प्रपेदिरे ॥ ७० ॥ ततः पद्मलता प्राह श्रेष्ठिनं श्रेष्ठिनीयुतम् । दृष्ट्वाऽतिशयमेतस्या जाताऽहं दृढदर्शना ॥ ७१॥
-शेषं पूर्ववत्॥ इति श्रीपद्मश्रीदृढसम्यक्त्वरात्रिभोजनपरित्यागदर्शन
पद्मलतादृढसम्यक्त्वषष्ठकथानकमिदम् ॥ ६८॥
।
६९. कनकलताकथानकम् । कनकादिलता पृष्टा श्रेष्ठिना श्रेष्ठिनी तदा । सम्यक्त्वं स्थिरतां केन संप्राप्तं तव मे वद ॥१॥ अवन्त्याख्यमहादेशे श्रीमदुज्जयिनी पुरी । अस्यां बभूव भूपालो नरपालो बुधप्रियः ॥ २ ॥ बभूवास्य नरेन्द्रस्य महादेवी मनःप्रिया । कनत्कनकगौराभा मालान्ता कनकादिका ॥३॥ अस्मिन्नेव पुरे श्रेष्ठी श्रावको जिनदेवतः । नाम्ना समुद्रदत्तोऽयं समुद्रो रत्नसंपदाम् ॥ ४ ॥ तद्भार्याऽप्यभवञ्चार्वी दत्ताऽन्ता सागरादिका । तत्पुत्रश्चोमको नाम जिनदत्ताऽभिधा सुता ॥ ५॥ 15 विषये वत्सकावत्यां कौशम्ब्यां पुरि धीरधीः । अर्हद्दासोऽभवच्छ्रेष्ठी जिनदासी च तत्प्रिया ॥ ६॥ ऋषभोपपदो दासस्तत्पुत्रोऽभवदिद्धधीः। जिनदत्ताऽस्य सा दत्ता महाविभवयोगतः ॥ ७॥ । सप्तव्यसनसंयुक्तश्चोमकोऽपि परिभ्रमन् । कुर्वन् स चौरिकां तस्यामुज्जयिन्यां पुनः पुनः ॥ ८॥ प्रविष्टः कस्यचिद्रेहे गृहीतो दण्डपाशिकैः। श्रेष्ठिदाक्षिण्यतः सोऽपि विमुक्तस्तस्करो महान् ॥९॥ प्रविष्टो मन्दिरं भूयः कस्यचिद्धनतृष्णया । गृहीतश्चोमकः कोपात् स्वयमेव महीभुजा ॥ १० ॥ 20 समुद्रदत्तमाहूय जगादेमं महीपतिः । गृहीतश्चौरिकां कुर्वन्नुमकस्त्वत्सुतो मया ॥११॥ भवद्दाक्षिण्यतो मुक्तो भूयो भूयो मयाऽप्ययम् । निवारयाधुना पुत्रमन्यथा हन्मि निश्चितम् ॥१२॥ भूपालवाक्यतो दुष्टो जनकेन स तत्क्षणे । श्रीमदुजयिनीतोऽयं धाटितः कुलदूषणः॥१३॥ एवं निर्धाटितः सन्स सार्थवाहसुतैः सह । जिनदत्तान्तिकं गेहाजगाम जननिन्दितः ॥१४॥ सार्थवाहसुतानां च भोजनाच्छादनादिकः । उपचारः कृतस्तेषां तदानीं जिनदत्तया ॥ १५॥ 23 स्वस्रा हि पूजितान् दृष्ट्वा सार्थवाहसुतानरम् । धृत्वा चित्तेऽतिमानं स मुनिगुप्तान्तिकं ययौ ॥१६॥ नत्वा मुनिमिमं भक्त्या श्रुत्वा धर्ममनुत्तरम् । तत्पुरः स चकारेमा प्रतिज्ञां विनयानतः ॥ १७॥ फलस्य यस्य जानामि नाहं नाम मुने तदा । तत्फलं जातुचित् कान्तं भक्षयामि न निश्चितम् ॥१८॥ आदायेदं व्रतं सोऽपि भक्तिनिर्भरमानसः । जग्राह शुद्धसम्यक्त्वं तदन्ते विनयानतः ॥ १९ ॥ श्रुत्वा मुनिसमीपस्थं भ्रातरं दर्शनान्वितम् । जिनदत्ता तदा तं च स्वनरं प्राहिणोदरम् ॥ २० ॥ 30 तदन्तं प्राप्य वेगेन स नरः प्राह तं पुनः । जिनदत्ता जगाद त्वां मन्मुखेन ससंगतम् ॥ २१ ॥ सम्यक्त्वं यत्त्वया प्राप्तं मुनिपार्श्व सुनिर्मलम् । निवृत्तिर्यत्कृता भ्रातस्तथाऽज्ञातफलस्य च ॥ २२ ॥ त्वयेदं शोभनं भ्रातः कृतं मत्कुलभूषण । अधुनाऽऽगच्छ सामीप्यं सत्वरं मम निश्चितम् ॥ २३॥
___1 ज राज्यभारं. 2 पफ युग्मम् , ज युगलम्. 3 ज omits इति श्री. 4 Mss. read both उज्जयनी and उज्जयिनी.5 पफ मयः.6 पफ भवदाक्षिण्यतो. 7 पफस सन्सार्थ.8 पफज त्रिभिः कुलकम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org