________________
१५६
हरिषेणाचार्यकृते बृहत्कथाकोशे
३८ ॥
परिणीय विधानेन तदा पद्मश्रियं तकौ । उपवासं विधायात्र तस्थिवांसौ कृतक्रियौ ॥ ततो भिक्षुर्जगादास्या बुद्धधर्मं सभेदकम् । पद्मश्रीरपि तत्पक्षं नेच्छति स्थिरबुद्धिका ॥ भूयो वदन्ति ते तां च सर्वजन्तुहितो वचः । समस्तकरुणोपेतो बुद्धधर्मः सुखप्रदः ॥ ३४ ॥ अस्माकं ज्ञानमप्यम्ब कालत्रयविशेषवित् । तत्प्राप्य निश्चितं बौद्धस्तिष्ठन्ति सुखिनो भुवि ॥ ३५ ॥ · अहं ज्ञानविशेषेण सत्यरूपेण साधुना । जानामि सकलान् भावान् यद्रूपेण व्यवस्थितान् ॥ ३६ ॥ यथा तेऽत्र पिता पुत्र जिनधर्मं विधाय च । अटव्यां भीमरूपायां बभूव हरिणो मुधा ॥ ३७ ॥ श्रुत्वा तद्वचनं तत्र पद्मश्रीर्निजगाद तान् । विज्ञातं भवतां ज्ञानमस्माभिरधुना स्फुटम् ॥ मत्पिता येन विज्ञातो भवद्भिर्वीतसंशयैः । सारङ्गतां परिप्राप्तो वने वृक्षसमाकुले || ३९ ॥ पद्मश्रियाऽन्यदा सर्वे भिक्षवो हि निमंत्रिताः । उपानच्छत्रिकोपेता निविष्टास्ते यथाक्रमम् ॥ ४० ॥ 10 मुक्त्वा प्राणहिताः सर्वा गृहको प्रयत्नतः । निविष्टास्ते यथास्थानं भिक्षवः पिशिताशिनः ॥ ४१ ॥ एकैकोपानहं तेषामादाय त्वरितं पुनः । कृत्वा तत्खण्डखण्डानि सूक्ष्मरूपाणि तान्यलम् ॥ ४२ ॥ व्यञ्जनानि सुगन्धानि' नानारसयुतानि च । तद्भक्षणार्थमेतानि विहितानि घनान्यपि ॥ ४३ ॥ पद्मश्रिया वितीर्णानि तानि तेभ्यः पुनः पुनः । भक्षितानि त कैस्तुष्टैरङ्गुलिस्फोटकादिभिः ॥ ४४ ॥ भुक्त्वोत्थितैस्तकैस्तस्माद् दृष्ट्वा प्राणहितां निजाम्। एकैकां विस्मितैः पृष्टा पद्मश्रीर्द्रुतमादरात् ॥४५॥ 15 उपासकि गृहे तत्र मुक्ताः प्राणहिता यकाः । दृष्टैकैका च साऽस्माभिः द्वितीया न क्वचित्पुनः ॥४६॥ अन्वेषणं प्रयत्नेन विधाय निजमन्दिरे । समर्पय पुनर्येन गच्छामः स्वगृहं मुदा ॥ ४७ ॥ श्रुत्वा तद्भारतीं तत्र पद्मश्रीर्निजगावमून् । भवतां विद्यते ज्ञानं सर्ववस्तुप्रकाशकम् ॥ ४८ ॥ मत्पिता येन ज्ञानेन विज्ञातो हरिणो वने । उत्पन्नस्तेन विज्ञाय गृहाणोपानहं द्रुतम् ॥ ४९ ॥ ततस्तद्वाक्यतो रुटैर्भिक्षुभिः सुगताश्रितैः । बुद्धदासस्य सा वार्ता सकलाऽपि निवेदिता ॥ ५० ॥ 20 अस्मन्निमन्त्रणं कृत्वा भवद्वध्वाऽतिचण्डया । उपानद्भक्षणं दत्तमस्मभ्यं संस्कृतं तया ॥ ५१ ॥ श्रुत्वा तद्वचनं सोऽपि बुद्धदासोऽरुणेक्षणः । तदर्थं भूमिपालाय ददौ बहुधनं तदा ॥ ५२ ॥ आदाय तद्धनं तेन भूभुजा रोषमीयुषा । निजपत्तनतः शीघ्रं घाटितौ तौ वधूवरौ ॥ ५३ ॥ 'तेन निर्धाटितौ सन्तौ मिलितौ सार्थवाहयोः । परदेशं गतौ तौ च दुःखपूरितमानसौ ॥ ५४ ॥ भुक्त्वा सविषमाहारं सार्थवाहौ परस्परम् | 'अजातविषसंबन्धौ सलोकौ तौ मृतौ निशि ॥ ५५ ॥ बुद्धसंघोऽपि भुक्त्वेममाहारं विषसंयुतम् । विषव्याप्त समस्ताङ्गी मृतकल्पो बभूव सः ॥ ५६ ॥ तद्वा बुद्धदासोऽपि विज्ञाय सकलामसौ । स्वलोकसंगतः प्राप तं प्रदेशं शुचाऽन्वितः ॥ ५७ ॥ मृतकल्पं सुतं दृष्ट्वा जगादोच्चैर्ध्वनिर्जनान् । पद्मश्रिया विषं दत्त्वा मत्सुतो निहितो' जनाः ॥ ५८ ॥ तथा समस्तलोकोऽयं सार्थवाहसमन्वितः । निहतो विषयोगेन कारणेन विनाऽनया ॥ ५९ ॥ अभ्याख्यानमिदं तत्र सत्येन परिवर्जितम् । पद्मश्रियो विमूढात्मा बुद्धदासश्चकार सः ॥ ६० ॥ निगद्यैवं जनाध्यक्षं बुद्धदासो निजं सुतम् । करेणादाय चिक्षेप पद्मश्रीचरणोपरि ॥ ६१ ॥ एवं कृतेऽमुना तत्र पद्मश्रीर्निजगा विदम् । रात्रिभोजनमाहात्म्यादुत्तिष्ठतु धवो मम ॥ ६२ ॥ एवं प्रोक्तेऽनया तत्र बुद्धसंघो विषोज्झितः । तत्क्षणेन समुत्तस्थौ सर्वोऽपि सकलस्तदा ॥ ६३ ॥ अत्रान्तरेऽमरैस्तुष्टैर्गगनस्थितविग्रहैः । पद्मश्रीः पूजिता बाढं महाविभवसंपदा ॥ ६४॥ पूजयित्वा तकां देवा दिवि विस्मितमानसाः । अदृष्टविग्रहा हृष्टा वदन्तीदं मुहुर्मुहुः ॥ ६५ ॥
6
25
20
1 ज सुगन्धीनि 2 पफ पद्मश्रीत . 3 पफ युग्मम्, ज युगलम्. 4 [ अज्ञात ]. 5 [ निहतो ] 6 पज मानसः.
Jain Education International
[ ६८. ३२
३२ ॥
३३ ॥
For Private & Personal Use Only
www.jainelibrary.org