________________
-६८. ३१ ]
पद्मलताकथानकम्
६८. पद्मलता कथानकम् ।
15
भार्या पद्मलताभिख्या पञ्चमी श्रेष्ठिना पुनः । कौतुकेन हि संपृष्टा स्थिरसम्यक्त्वकारणम् ॥ १ ॥ श्रेष्ठिवाक्यं समाकर्ण्य जगौ पद्मलताऽप्यमुम् । स्थिरतां येन संप्राप्तं सम्यक्त्वं मम तच्छृणु ॥ २ ॥ अङ्गकाख्यजनान्तेऽस्ति चम्पाऽऽख्या नगरी शुभा । अस्यां नराधिपः श्रीमान् दन्तिवाहननामकः ॥३॥ बभूवास्य नरेन्द्रस्य महादेवी मनः प्रिया । विनयाचारसंपन्ना शोकाऽन्ता विनयादिका ॥ ४ ॥ अस्मिन्नेव पुरे श्रेष्ठी विद्यते धनसंयुतः । ऋषभोपपदो दत्तस्तस्य पद्मावती प्रिया ॥ ५ ॥ सम्यग्दर्शनसंपन्ना पद्मश्रीसमविभ्रमा । पद्मश्रीरभवत् पुत्री तयोः प्रेमानुरक्तयोः ॥ ६ ॥ बुद्धदासोऽभवत् तत्र श्रेष्ठी बाढमुपासकः । बुद्धश्रीरस्य भार्या च तत्प्रिया साऽप्युपासकी ॥ ७ ॥ बुद्धसंघोऽनयोः पुत्रस्तन्मनोनयनप्रियः । 'बुद्धभक्तिसमायुक्तो रूपराजितविग्रहः ॥ ८ ॥ अन्यदा बुद्धसंघोऽसौ पश्यन्नायतनानि च । अनुक्रमेण संप्राप्य जिनायतनमुत्तमम् ॥ ९ ॥ पद्मश्रियं विलोक्यात्र जिनपूजां प्रकुर्वतीम् । प्रसूनैर्बुद्धसंघोऽयं कामविह्वलतां ययौ ॥ १० ॥ ततः स्वमन्दिरं प्राप्य स्नानभोजनकादिकम् । हित्वा मौनं समालम्ब्य शयनीयमसौ श्रतः ॥११॥ दृष्ट्वा मञ्चस्थितं पुत्रं मौनस्थं शुचमागतम् । पप्रच्छेति तदा माता म्लानव क्रसरोरुहम् ॥ १२ ॥ भोजनं पुष्पताम्बूलं स्नानं काश्मीरकादिकम् । हित्वा किं कारणं पुत्र स्थितोऽसि शयने शुचा ॥१३॥ * जननीवाक्यमाकर्ण्य बुद्धसंघोऽपि तां जगौ । प्रमुञ्चनुष्णनिःश्वासं कामबाणसमाहतः ॥ १४ ॥ सुतामृषभदत्तस्य पद्मश्रीनामसंगताम् । यदि प्राप्स्यामि तां कान्तां जीविष्यामि ततो ध्रुवम् ॥ १५ ॥ अथवैतां न प्राप्स्यामि मन्मनोनयन प्रियाम् । नियतं श्वो मरिष्यामि प्रतिज्ञेयं ममाम्बिके ॥ १६ ॥ श्रुत्वा तद्वचनं माता तन्मृत्युभयवेपिता । तत्पितुः कथयामास वृत्तान्तं निखिलं तदा ॥ १७ ॥ श्रुत्वा स्वरमणीवाक्यं पिता पुत्रं जगाद तम् । उपासका वयं पुत्र पिशिताहारिणस्तराम् ॥ १८ ॥ पद्मश्रीजनको बाढं श्रावको विदितो बुधैः । स ददाति कथं पुत्रीमस्माकं जिनदेवतः ॥ १९ ॥ 20 लब्धोऽथवा मयोपायो येन पुत्रीं ददाति ते । उत्सुकत्वं विहाय त्वं विश्रब्धो भव बालक ॥ २० ॥ एवं संमध्य तावत्र यशोधरमुनीश्वरम् । प्रापतुः प्रीतचेतस्कावुपविष्टौ यथासनम् ॥ २१ ॥ जैनधर्ममुपश्रुत्य' गृहीत्वाऽणुव्रतानि च । छद्मना श्रावकौ जातौ विनयानतविग्रहौ ॥ २२ ॥ बौद्धधर्मं विहायैतौ जिनपूजां प्रचक्रतुः । भिक्षादानं च साधुभ्यो दत्तवन्तौ मुहुर्मुहुः ॥ २३ ॥ उपवासं च कुर्वाणौ हृष्टौ तौ पर्ववासरे । धर्मवात्सल्यतः श्रेष्ठी स्नेहं च कुरुते तराम् २४ ॥ बुद्धः कृतोपवासश्च तचैत्ये स्थितवानसौ । श्रेष्ठिना स्वगृहं नीतः पारणार्थं प्रमोदिना ॥ ततो भोजनवेलायां दत्ता पेयाऽस्य वासिता । बुद्धदासो जगादैतं विनयानतमस्तकः ॥ २६ ॥ पुत्रीं वृषभदास त्वं मत्पुत्राय यदि स्फुटम् । पद्मश्रियं ददासीमां भोजनं विदधाम्यहम् ॥ २७ ॥ श्रुत्वा तद्वचनं श्रेष्ठी बभाणैवं पुरः स्थितः । अस्माभिः स्वसुता देयाः श्रावकेभ्यो बुधाखिलाः ॥ २८ ॥ सुता ऋषभदासेन दत्वास्मै श्रावकाय सा । भोजनं कुरुतः पश्चात्तौ तदानीं विधानतः ॥ २९ ॥ 30 तरां ऋषभदासोऽपि जिनानां जितविद्विषाम् । चकार महतीं पूजां पुष्पधूपादिसंपदा ॥ ३० ॥ शङ्खतूर्यनिनादेन महाविभवयोगतः । अकारयच्च विधिना पाणिग्रहणमेतयोः ॥ ३१ ॥
॥
२५ ॥
Jain Education International
१५५
1 पफ दन्तवाहन 2 पफ बुद्धिश्री 3 पफ बुद्धिभक्ति 4 पफ युग्मम्, ज युगलम् 5 पफंज त्रिभिः कुलकम् 6 पफ बालकः. 7 ज जैनं. 8 [ दत्तास्मै ].
For Private & Personal Use Only
5
10
25
www.jainelibrary.org