________________
१५४ हरिषेणाचार्यकृते बृहत्कथाकोशे
[६७. २२पिता सुतां समादाय किल गच्छति वेगतः । गन्तुमिच्छति सा नातो भूयो भूयोऽपि भाषिता ॥२२॥ यन्मयोपार्जितं किंचिच्छुभाशुभफलोदयम् । प्राप्स्यामि तदहं तात गच्छ त्वं भयमत्र ते ॥ २३ ॥ पुत्रीवचनमाकर्ण्य धीरत्वसहितं तदा । जितशत्रुर्जगादैतां बाष्पविप्लुतलोचनः ॥ २४ ॥ एकाकिनी विहायात्र भवती मदनप्रियाम् । गन्तुं किं युज्यते पुत्रि प्रस्तावेऽत्र भयावहे ॥२५॥ 5 श्रुत्वा पितृवचः कन्या स्थिरचित्ता बभाण तम् । व्रततः पुण्यतो वा मे कोऽपि रक्षां करिष्यति ॥२६॥ महापराक्रमोपेतः प्रतापी बहुसैन्यकः । भवन्निकारसंसक्तो नानुबन्धं त्यजत्वरिः ॥ २७॥ तस्माद् व्रजामुतः स्थानात् प्राणसंदेहकारिणः । सुतावचनतो यातो जितशत्रुर्यथेप्सितम् ॥२८॥ स्मृत्वा जिननमस्कारं प्रत्याख्यानं च बालिका । सविकल्पं स्थिरस्वान्तरूपराजितविग्रहा ॥ २९ ॥
वैरिदृष्टिपथं याता भगदत्तस्य पश्यतः । गङ्गाह्रदं विवेशाय जलदेवीव मुण्डिता ॥ ३०॥ 10 गङ्गाह्रदं विशन्त्या हि तदाऽस्या धीरचेतसः । एको रुच्यमणिद्वीपो हृदो गेहं बभूव सः॥३१॥ गङ्गाह्रदं प्रविश्येवं जलकल्लोलभीषणम् । तस्थौ सुखेन विस्रब्धा भीतिवर्जितमानसा ॥ ३२ ॥ भगदत्तोऽपि भूपालस्तद्रपहृतमानसः। विशन् गङ्गाह्रदं देव्या स्तम्भितस्तत्तटे स्थितः ॥ ३३ ॥ ततः प्रभातकाले च सर्वलोकेन भूपतिः । निश्चेष्टस्तम्भितो दृष्टो देव्या सुरसरिजले ॥ ३४ ॥
ज्ञात्वा वृत्तान्तमेतस्य मिलितः सकलो जनः । तदन्तःपुरमप्यार धवान्तमतिविह्वलम् ॥ ३५॥ 15 अन्तःपुरं शुचाग्रस्तं बाष्पविप्लुतलोचनम् । पतिभिक्षां कृताक्रन्दं ययाचे मुण्डिताऽमरम् ॥ ३६॥ हृदगेहाद् विनिःसृत्य तदाऽन्तःपुरवाक्यतः । जगाद मुण्डिता वाक्यं करुणाहृतमानसा ॥ ३७॥ येन देवन देव्या वा मनुष्येणापि केनचित् । प्रातिहार्यं कृतं मेऽद्य स भूपं मुञ्चतु द्रुतम् ॥३८॥ तद्वाक्यतो नृपो मुक्तो जलदेव्या सुरेण वा । बभूव विस्मितस्वान्तो विस्रब्धीकृतचेतनः ॥३९॥ सिंहासनस्थितां कृत्वा मुण्डितां सुरसाः सुराः । क्षीरोदवारिणा तस्याः प्रचक्रुरभिषेचनम् ॥४०॥ 20 अभिषेकावसाने च मुण्डिता पूजिता सुरैः। स्थिरचित्ता गुणाधारा मृत्तिकावतशालिनी ॥४१॥
अत्रान्तरे विनीतात्मा भगदत्तो नरेश्वरः । दध्यो विस्मितचेतस्को मुक्तमानमहीधरः॥४२॥ अहो रूपमहो शीलमहो धैर्यमहो वचः । एतस्या वरकन्याया नान्यासामत्र योषिताम् ॥ ४३॥ एवं विचिन्त्य संप्राप्य तत्समीपं नराधिपः। भूयो भूयो नतिं कृत्वा चक्रेऽस्या हि क्षमापणम् ॥४४॥ ततः सा पूजिता बाढं भगदत्तेन पीडिता । तत्सामन्तैरपि स्पष्टं तत्पत्तनजनेन च ॥४५॥ 23 सुतामाहात्म्यमाकर्ण्य जितशत्रुस्त्वरान्वितः । आजगामान्तिकं तस्याः समस्तान्तःपुरेण सः॥४६॥ भगदत्तो नरेन्द्रोऽपि वैराग्याहितमानसः । तदा क्षमापणं चक्रे भूभुजा जितशत्रुणा ॥४७॥ प्रदाय सकलं राज्यं वसुताय जितेन्द्रियः । जितशत्रुर्जितानङ्गो भगदत्तोऽपि भूपतिः॥४८॥ अन्योऽपि भूपसंघातो भोगनिस्पृहमानसः। दधौ दैगम्बरी दीक्षां धर्मसेनान्तिके मुदा ॥४९॥ केचित् सम्यक्त्वपूर्वाणि व्रतान्यादाय भक्तितः । अणूनि श्रावका जाता जिनधर्मपरायणाः ॥५०॥ 30 मुण्डिताधबलाः सद्यो महावैराग्यसंगताः । ऋषभश्रीसमीपे हि बभूवुरर्जिकाः पराः ॥ ५१॥ मुण्डिताप्रातिहार्य च विलोक्य सुरनिर्मितम् । जाताऽस्मि दृढसम्यक्त्वा श्रेष्ठिन् मे कथितं तव ॥५२॥ ॥ इति श्रीजितशत्रुनृपमुण्डिताख्यकुमारीमृत्तिकाभक्षणनियमकरण
दशेननागश्रीदृढसम्यक्त्वपञ्चमकथानकमिदम् ॥ ६७ ॥
ज विवेशाशु. 4 पफज युगलम्. 5 पफ
1 पफ संशक्तो. 2 पफज त्रिभिः कुलकम्. युग्मम् , ज युगलम्. 6ज omits इति श्री.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org