________________
-६७. २१] नागश्रीकथानकम्
१५३ करवाल्या कृपाणेन दारुनिर्मापितेन च । नक्तंदिवमहं कर्तुं सेवामायामि ते विभो ॥ ९२ ॥ सोमश्रियो वचः श्रुत्वा मत्रिणः प्रीतिकारिणः । जिनधर्मे दृढा जाता पूजितोऽयं नरेशिना ॥९३॥ तथा नगरदेवीभिः संप्राप्य नृपमन्दिरम् । मणिभर्मविनिर्माणे स्थापितः सिंहविष्टरे ॥ ९४ ॥ अष्टापदमयैः कुम्भैस्तथा मणिमयैरपि । स्वच्छनीरभरोपेतैरभिषिक्तः समङ्गलम् ॥ ९५॥ ततो नगरलोकेन सर्वेणापि सुभक्तितः । पूजितः सुतरां मन्त्री सोमश्रीः सर्वसंपदा ॥ ९६ ॥ दृष्ट्वा तद्धर्ममाहात्म्यं नरा नरवरादयः । जिनसेनगुरोरन्ते मोक्षार्थं ते प्रवव्रजुः ॥ ९७॥ अन्येऽपि बहवस्तत्र सम्यक्त्वं प्रतिपद्य ते । नरा विस्मयमासाद्य जिनधर्म प्रपेदिरे ॥ ९८॥ विष्णुश्रीः श्रेष्ठिनं प्राह जिनदासं मम प्रभो । दृष्ट्वाऽतिशयमेतस्य सम्यक्तवं स्थिरतामितम् ॥ ९९ ॥ ॥ इति श्रीअमात्यसोमश्रीदृढ सम्यक्त्वदर्शनबहुहिरण्ययागान्तर्गत
कथामहितविष्णुश्रीदृढसम्यत्तवचतुर्थकथानकमिदम् ॥६६॥
६७. नागश्रीकथानकम् । नागश्रीः श्रेष्ठिना पृष्टा तुरीया रमणी तदा । सम्यक्त्वं ते कुतो जातं स्थिरं मे वद सांप्रतम् ॥१॥ श्रेष्ठिवाक्यं समाकर्ण्य नागश्रीनिजगावमुम् । यथा मे स्थिरसम्यक्त्वं जातं शृणु वदामि ते ॥२॥ काशीजनपदे रम्ये वाणारस्यां पुरि प्रभुः । जितशत्रुरभूदस्य स्वर्णचित्रा प्रिया प्रिया ॥३॥ तत्सुता मुण्डिका नाम कुमारी रूपराजिता । अत्यन्तवल्लभा पित्रोस्तद्रूपहृतचेतसोः॥४॥ बालकाले विलोक्यैतां मृत्स्नाभक्षणतत्पराम् । ऋषभश्रीजगादार्या तद्वात्सल्यसमुद्यता ॥ ५॥ मृत्तिकाभक्षणे दोषो विद्यते पुत्रि निश्चितम् । पृथिवीकायजीवानां हिंसनं त्यज्यतामिदम् ॥ ६ ॥ अर्जिकावाक्यमाकर्ण्य मुण्डिका धर्मतत्परा । चकार नियमं तस्या मृत्तिकाया विशुद्धधीः ॥ ७॥ मृत्तिकायाः परित्यागे तदा मुण्डिकया कृते । देवकन्यासमं जातं तच्छरीरं मनोहरम् ॥ ८ ॥ ततस्तां ते समालोक्य तद्रूपहृतचेतसः । याचन्ते भूपतिं भूपास्तेभ्यो दातुं स नेच्छति ॥ ९॥ 20 अन्यदा भगदत्ताख्यः स्कन्धावारण भूयसा । वाराणसी रुरोधासौ सर्वतो मेदिनीपतिः ॥ १० ॥ देहि मे मुण्डिकाभिख्यां जितशत्रो कुमारिकाम् । अर्धराज्यं च भूपाल नान्यथा गतिरस्ति ते ॥११॥ एवं निगद्य तं दूतं भगदत्तो नरेश्वरः । जितशत्रुसमीपं च प्रजिघाय त्वरान्वितम् ॥ १२ ॥ दूतः क्रमेण संप्राप्य तद्वृत्तान्तमभाषत । स्वसुतायाचनं ज्ञात्वा जितशत्रुः क्रुधं ययौ ॥ १३॥ दूतनिर्भर्त्सनं कृत्वा प्रापय्य निजनायकम् । जितशत्रुः पुराच्छीघ्रं निर्ययौ संयुगं प्रति ॥ १४ ॥ 25 दूतवात परिज्ञाय संनह्य सकलं बलम् । तत्सन्मुखमभीयाय भगदत्तश्चमूसमम् ॥ १५ ॥ अथ युद्धं बभूवोग्रं वीरजातपराभवम् । सैन्यद्वयस्य कन्याऽर्थं बीजं युद्धस्य योषितः ॥ १६ ॥ पातितो वाजिना वाजी करिणाऽपि करी महान् । रथिकेन रथस्थोऽपि पदकोऽपि पदातिना ॥१७॥ "तुरङ्गहेषितैस्तुङ्गैनितान्तं गजगर्जितैः । रथाङ्गचयचीत्कारैः पदातिगलगर्जितैः ॥ १८॥ रणतूर्यनिनादेन धरागगननादिना । कर्णेऽपि पतितं भूपैः श्रूयते न परस्परम् ॥ १९॥ 30 एवं महति संजाते संग्रामे जनसंक्षये । रणात् पलायनं चक्रे जितशत्रुर्जितोऽमुना ॥ २०॥ अन्तःपुरं समस्तं च भयवेपितविग्रहम् । जितशत्रुमतेनाशु शत्रुभीतेः पलायितम् ॥ २१॥
1 पफ युग्मम् , ज युगलम्. 2 ज प्रीतिकारिणा. 3 पफ युग्मम् , ज युगलम् . 4 प संपदाम्. 5 ज omits इति श्री. 6 पफ हैषित. 7 पफ धर', 8 ज स्तूयते. 9 पफ युग्मम् , ज युगलम्.
बृ० को० २० Jain Education International For Private & Personal Use Only
www.jainelibrary.org