________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[६६.६२तथा चोक्तम्नीयमानः स्वपर्णेन नागः पण्डुरिरब्रवीत् । यः स्त्रीणां गुह्यमाख्याति तदन्तं तस्य जीवितम् ॥ ६२ ॥ एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ।।
पृथिव्यां नास्ति तद्रव्यं यद्दत्वाऽनृणी भवेत् ॥ ६३॥ अस्माभिः शास्त्रदानस्य माहात्म्यं कथितं तव । अधुनौषधदानस्य तद्वदामि समासतः ॥ ६४ ॥ औषधं यो हि साधुभ्यो रोगार्तेभ्यः प्रयच्छति । स जीवति निरातको जन्मान्तरशतेष्वपि ॥६५॥ चत्वार्यतानि दानानि प्रशस्तानि भवन्ति को । नान्यानि गोधनादीनि गुणकारीणि देहिनाम् ॥६६॥ धराक्षेत्रहिरण्यानि गोवित्तान्नानि भक्तितः । जिनमुद्दिश्य देयानि पुण्यहेतूनि देहिनाम् ॥६७॥ " देयादेयफलं श्रुत्वा जिनधर्म च भक्तितः । हृष्टो बभूव सोमश्रीर्लोकधर्मपराङ्मुखः ॥ ६८॥
शङ्कादिदोषनिर्मुक्तं सम्यक्त्वं मेरुनिश्चलम् । अणुव्रतानि सर्वाणि गुणशिक्षाव्रतैरमा ॥ ६९॥ मधु मांसं सुरां हित्वा तथा पञ्चुम्बरादिकम् । समाधिगुप्तसामीप्ये जग्राहायं विशुद्धधीः॥७०॥ नत्वा मुनि पुनः प्राह सोमश्रीभक्तितत्परः । यावजीवं न गृह्णामि लोहशस्त्रं मुनीश्वर ॥ ७१ ॥
नत्वा मुनिपदद्वन्द्वममात्यः प्रीतमानसः । स्वमन्दिरं जगामासौ जिनधर्मविभूषितः ॥ ७२ ॥ 15 क्षुरिकां काष्ठनिर्माणां खड्ग काष्ठमयं तथा । सकोशान्तं स चादाय नृपं गच्छति सेवया ॥ ७३ ॥ अन्यदा मत्सरोपेतैः पुरोहितमहत्तरैः । काष्ठखड्गादिका वार्ता भूपस्यास्य निवेदिता ॥ ७४॥ अमात्योऽयं महाराज क्षुरिकां काष्ठनिर्मिताम् । खड्गं च काष्ठनिष्पन्नं कोशमध्यव्यवस्थितम् ॥ ७५॥ माययाऽऽदाय दुष्टात्मा सद्भावपरिवर्जितः । भवन्तं सेवयाऽऽयाति महासामन्तपूजितम् ॥ ७६ ॥ निशम्य तद्वचो राजा क्रोधारुणनिरीक्षणः । अन्तर्मदकरीवाशु चुकोपास्मै खलाय सः॥ ७७॥ " कथामन्यापदेशेन विधाय सदसि स्थितः । पश्यति स्म निजं खड्गमिन्दीवरनिभं पुनः ॥ ७८॥ ततः क्रमेण चान्येषां कृपाणानि महीभुजाम् । तदा विलोकयामास छद्मना धरणीपतिः ॥ ७९ ॥ ततः सोमश्रियं राजा बभाण हृदि कोपवान् । पश्याम्यहं द्रुतं भद्र त्वं मे स्वमसिमर्पय ॥ ८०॥ नरेन्द्रस्य वचः श्रुत्वा नितान्तं चित्तकोपिनः । सोमश्रीः श्रावकः कृत्वा हृदि पञ्चनमस्कृतिम् ॥८१॥ सभामध्यस्थितस्यास्य महीपालस्य रोषिणः । खड्गं समर्पयामास कोशमध्यस्थितं निजम् ॥ ८२॥ - आदाय तत्करादाशु कृपाणं भासुरप्रभम् । आचकर्ष नृपः कोशात् सभामध्ये व्यवस्थितः ॥ ८३॥ ततो निजप्रभाजालैोतमानो नभोधराम् । मण्डलायो बभूवायं रविर्वा भासुरप्रभः ॥ ८४॥ . तन्निस्त्रिंशकरो राजा तत्कोपागतमानसः । पूर्वोक्तसचिवादीनां व्यालुलोके मुखान्यसौ ॥ ८५ ॥ ततः सभ्यान् जगादासौ नरेन्द्रोऽसिकरस्तदा । तोयदध्वानधीरेण वचसाऽऽश्चर्यमीयुषा ॥ ८६ ॥
कैश्चिन्ममोदितं पूर्वमाश्चर्यों महतात्मभिः । खड्गधेनुं समादाय खड्गं काष्ठमयं तदा ॥ ८७ ॥ 30 मयाप्रपञ्चतो दुष्टः सोमश्रीस्तत्समीपकम् । आगच्छतीह सेवायां पश्यतेममसिं खलाः ॥ ८८॥ महीपालवचः श्रुत्वा सोमश्रीभूपतिं जगौ । गृहीतं व्रतमेकं हि गुरुपार्थे मयेदृशम् ॥ ८९ ॥ संग्रहो लोहशस्त्रस्यानर्थभूतस्य भूतले । यावजीवं न कर्तव्यो मया त्रेधा नराधिप ॥९॥ यदेभिः कथिता वार्ता तव मत्रिपुरोहितैः । साऽपि सत्यसमुद्भूता मद्विद्वेषविधायिभिः ॥ ९१ ॥
. 1ज तदन्तस्य जीवितम्, 2 पफ युग्मम् , ज युगलम्. 3 [खकोशान्तः]. 4 पफज त्रिभिः कुलकम्. 5 पफ युग्मम्, ज युगलम्. 6 [माया ].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org