________________
-६६. ६१]
विष्णुश्रीकथानकम् .. अथायं भूपतिर्भक्त्या तत्पुरासन्नभूतले । मखं सुवर्णनामानं चकार प्रीतमानसः ॥ ३१ ॥ क्रियमाणे मखे विप्रैाह्मणेभ्यो मुहुर्मुहुः । आदिमध्यावसानेषु ददाति कनकं नृपः ॥ ३२ ॥ अथ तन्मखशालाऽन्ते विश्वभूतिः प्रियंवदः । तापसो लोकविख्यातो वसति प्रीतमानसः ॥३३॥ शिशिरे त्वच्छवृत्त्याऽयं तापसो जीवति स्फुटम् । ग्रीष्मे कपोतवृत्त्या च चक्रवृत्त्या घनागमे ॥३४॥ सक्तून् कपोतवृत्त्याऽयमानीय जलमर्दितान् । चकार चतुरः पिण्डान् समभागान् स तापसः ॥३५॥ हुत्वा तत्पिण्डमेकं च चित्रभानौ स तापसः । प्रतीक्षतेऽतिथीन् भक्त्या समीपस्थितपिण्डकः ॥३६॥ अथ मासोपवासस्थः पिहिताश्रवनामकः । आजगाम क्रमाद् भ्राम्यंस्तगृहं यतिनायकः ॥ ३७॥ दृष्ट्वा स्वमन्दिरं प्राप्तं साधु भक्तिपरायणः । नत्वा मुनिं समुत्थाय तिष्ठ त्वं मगृहे मुने ॥ ३८॥ स्थापयित्वा तकं साधुं श्रद्धादिगुणसंयुतः । सक्तुपिण्डं ददावेकं साधवे तापसस्तदा ॥ ३९ ॥ तस्मिन् भुक्ते पुनस्तेन स्वस्य पिण्डोऽपि योषितः । पिण्डद्वयं वितीर्ण तद्भुक्तमेतेन साधुना ॥४०॥" भोजनान्ते प्रदायास्य चाशीर्वादं मुनीश्वरः । तन्मन्दिराजगामाशु मन्दमन्दगतिक्रियः ॥४१॥ ततो विनिर्गते साधौ संतोषस्थितचेतसि । आश्चर्यपञ्चकं जातं वसुधारादि तद्गृहे ॥ ४२ ॥ दृष्ट्वाऽऽश्चर्यमिदं विप्रा राजाऽपि बहुविस्मयः । सुवर्णमखमाहात्म्याजातमागुस्तदालयम् ॥ ४३॥ यावगृह्णन्ति रत्नानां समूह नृपमाहनाः । तावदङ्गारसंघातः कृष्णवर्णों बभूव सः॥४४॥ प्राप्तान्यङ्गारतां दृष्ट्वा रत्नानि नरनायकः । विश्वभूतिगृहे प्राप ब्राह्मणैरिति विस्मितः ॥४५॥ ॥ सुवर्णयज्ञसामर्थ्याद्यदि रत्नानि माहनाः । संजातानि ततोऽङ्गारा जाता किं वदतेति मे ॥४६॥ निशम्य भूपतेर्वाक्यं नकुलः प्राह तं पुनः । सुवर्णयागतो नैषा रैधारा पतिता प्रभो ॥४७॥ पतिता वसुधारेयं नरेन्द्र मुनिदानतः । विश्वभूतिगृहे नूनं पञ्चवर्णसमुज्वला ॥४८॥ न युक्तमिदमादातुं विश्वभूतिधनं तव । भिक्षादानसमुत्पन्नं तत्पुण्यकृतरक्षणम् ॥४९॥ श्रुत्वाऽस्य भारती राजा तरां विस्मितमानसः । विश्वभूतिं जगादेमं संजातधनसंचयम् ॥ ५० ॥ अहं बहुसुवर्णस्य यज्ञस्याधं ददामि ते । मुनिभिक्षाफलस्यापि विश्वभूते हि देहि मे ॥५१॥ . एवं प्रचोदिते तेन भूभुजा तोषकारिणा । नेष्टं मनागपि स्पष्टं तदानीं विश्वभूतिना ॥५२॥ तेन कार्येण दानानि स्वर्णादीनि दशापि च । सामान्याहारदानेन न भवन्ति धरातले ॥ ५३॥ अभयादिप्रदानस्य माहात्म्यं शृणु सांप्रतम् । कथयामि समासेन तव धर्म चिकीर्षतः ॥ ५४॥ यः सौवर्णं नगाधीशं ददाति सकलां धराम् । जीवितं च तथैकस्य तत्फलेन समं न तत् ॥५५॥2 स्वर्णगोभूमिदानानि यः परस्मै प्रयच्छति । जीवितं च तथैकस्य तत्फलेन समं न तत् ॥५६॥
तथा चोक्तम्यो दद्यात् काञ्चनं मेरं कृत्वां चापि वसुंधराम् ।
एकस्य जीवितं दद्यात् फलेन न समं भवेत् ॥ ५७ ॥ हिरण्यदानं गोदानं भूमिदानं तथैव च । एकस्य जीवितं दद्यात् फलेन न समं भवेत् ॥ ५८॥॥ एतत्तेऽभयदानस्य माहात्म्यं कथितं मया । अधुना शास्त्रदानस्य कथयामि समासतः ॥ ५९॥ विप्रेण नीयमानोऽहिः पाण्डुरीको' जगाद सः।यो गुह्यं योषितां ख्याति न चिरं तस्य जीवितम् ॥६॥ गुरुरप्यक्षरं चैकं यः शिष्याय प्रयच्छति । धरायां तद्धनं नास्ति यद्वितीर्यानृणी भवेत् ॥६१॥
1 [तूञ्छ°1.2 पफ कृष्णो वर्णो. [ब्राह्मणैरतिविस्मितः]. 4ज सुवर्णयागसा.. 5पफज त्रिभिः कुलकम्. 6 [समान्याहार]. 7 ज पण्डुरीको.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org