________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
६६. विष्णु श्रीकथानकम् ।
विष्णुश्रीः श्रेष्ठिना प्रोक्ता सम्यक्त्वं केन हेतुना । स्थिरत्वं ते समायातं प्रिये त्वं ब्रूहि मेऽधुना ॥ १ ॥ श्रेष्ठिवाक्यं समाकर्ण्य विष्णुश्रीः श्रीसमप्रभा । जगाद स्थिरसम्यक्त्वं स्वस्य कान्तस्य कौतुकात् ॥२॥ विषये वत्सकावत्यां नृपोऽस्यामजितंजयः । तद्भार्या च महादेवी बभूव प्रीतिकारिणी ॥ ३ ॥ सोमश्रीरस्य चामात्यो विमलादिमतिः प्रिया । रूपयौवनसंपन्ना कलाविज्ञानकोविदा ॥ ४ ॥ मिथ्यादृष्टिरमात्यो हि धनधान्यादिसंयुतः । ददाति सूत्रकण्ठेभ्यो भोजनाच्छादनादिकम् ॥ ५ ॥ समाधिगुप्तनामायं योगी मासोपवासगः । सोमश्रियो द्यमात्यस्य पर्यटन् गृहमाययौ ॥ ६ ॥ भिक्षार्थमागतं साधुं स्वगृहं वीक्ष्य दुर्बलम् । सोमश्रिया समुत्थाय धृतो योगी सुभक्तितः ॥ ७ ॥ श्रद्धादिगुणयुक्तेन तेनामात्येन साधवे । दत्ता भिक्षा सुखिन्नाय जीर्णभक्तेन भक्तितः ॥ ८ ॥ 10 वन्दितोऽनेन भावेन स्वदानफलमश्नुते । एवं निगद्य शुद्धात्मा निर्ययौ तगृहादरम् ॥ ९ ॥ तगृहान्निर्गते साधौ तपोऽगारे तपोधने । गृहेऽस्यातिशयाः पञ्च बभूवुः शुद्धचेतसः ॥ १० ॥ वसुधारा पपातोच्चैः पुष्पवृष्टिस्तथाऽमला । त्रिगुणोऽपि ववौ वातो दध्मौ दुन्दुभिरम्बरे ॥ ११ ॥ अहो दानमहो दानं देवानां प्रीतचेतसाम् । विचेरुर्गगने वाचो मनःश्रोत्रसुखावहाः ॥ १२ ॥ तथा चोक्तम् -
5
15
20
१५०
[ ६६.१
देवदुन्दुभयो नेदुः सुरभिः पवनो ववैौ ।
अपतद् वसुधारा च पूरयन्ती नभःस्थलम् ॥ १३ ॥
द्विषट्काः खलु कोट्यस्तु तिस्रोऽर्धसहिताः स्मृताः । तीर्थकृच्छेषसाधूनां वसुधारेति कीर्तिता ॥ १४ ॥ शिरःकम्पाङ्गुलिस्फोटैर्हस्तभ्रमण निस्वनैः । साधु साध्विति देवानां पुष्पवृष्टिः प्रपातिता ॥ १५ ॥ आश्चर्यपश्ञ्चकं दृष्ट्वा स्वगृहे मुनिदानतः । अमात्यो विस्मितस्वान्तः प्रदध्यौ प्रीतमानसः ॥ १६ ॥ वेदवेदाङ्गयुक्तानामग्निहोत्रविधानतः । दत्तं यथेप्सितं दानं ब्राह्मणानां मया भृशम् ॥ १७ ॥ परिव्राजकशैवानां कालचक्रकपालिनाम् । यथेष्टं दानमन्येषां दत्तमस्माभिरादरात् ॥ १८ ॥
शोऽतिशयो लोके न मे जातः कदाचन । सत्त्वानां पुण्ययुक्तानां न किंचिद्दुर्लभं भवेत् ॥ १९ ॥ एवं विचिन्त्य शुद्धात्मा तोषकण्टकिताङ्गकः । ययौ शमं तदाऽमात्यो विवेकी बोधमेति हि ॥२०॥ शमं प्राप्य ततोऽमात्यो भक्तिनिर्भरमानसः । गत्वा समाधिगुप्तान्तं नत्वा पप्रच्छ तं त्विदम् ॥२१॥ * कनकाश्वतिला नागो रथो दासी मही गृहम् । कन्या च कपिला धेनुर्दश दानानि सन्ति वै ॥२२॥ दशाप्येतानि दानानि मया दत्तानि यत्नतः । माहनेभ्यस्तपखिभ्यो न दृष्टोऽतिशयो महान् ॥२३॥ श्रुत्वाऽस्य वचनं मुग्धं जगौ साधुरिमं पुनः । साधून्येतानि दानानि न भवन्ति महीतले ॥२४॥ आहाराभय शास्त्राणामौषधस्य प्रदानकम् । चत्वार्येतानि दानानि संमतानि मनीषिणाम् ॥ २५ ॥ उक्तमाहारदानस्य माहात्म्यं बुधसंगतम् । आकर्णयैकचित्तेन कथयामि तवेदृशम् ॥ २६ ॥ नकुलो यज्ञवाटस्थ इदं वचनमब्रवीत् । न सक्तुप्रस्थ तुल्यो हि यज्ञो बहुसुवर्णकः ॥ २७ ॥ इदं बुधमनोहारि भद्र साधुकथानकम् । शृणु त्वमेकचित्तेन निगदामि तवाधुना ॥ २८ ॥ दक्षिणापथदेशेऽस्ति विन्यानाम महानदी । तत्तटे लोकविख्यातं विन्यातटपुरं परम् ॥ २९ ॥ सोमप्रभः प्रभुस्तत्र बभूव जनविश्रुतः । सोमप्रभा प्रिया चास्य सुतरां तन्मनःप्रिया ॥ ३० ॥
30
Jain Education International
1 पफ सुखावहः 2 पफ चतुःकुलकम् ज चतुष्कलकम् 3 पफ आहारभय 4 फ वाटस्थमिदं
For Private & Personal Use Only
www.jainelibrary.org