________________
-६५. ९५ ] खण्डश्रीकथानकम्
१४९ विषव्याप्तसमस्ताङ्गी विह्वलीभूतमानसा । पपात निष्क्रिया वेगात् तदा कामलता भुवि ॥६६॥ ततः कामलतां दृष्ट्वा निश्चेष्टीभूतविग्रहाम् । वसुमित्रा जगौ लोकं बाष्पविप्लुतलोचना ॥ ६७ ॥ मत्सुता सौम्यया लोकाः सपत्नीमत्सरेण च । मृतिं नीता विना कार्यात् सार्पणविधानतः॥६८॥ ततस्तद्वाक्यतः सौम्या दृष्ट्वा कामलतामिमाम् । नागदष्टां तमादाय घटं प्राप्य नृपान्तिकम् ॥६९॥ तद्वृत्तान्तं परिज्ञाय सौम्यां पप्रच्छ भूपतिः । किं कारणमियं प्राप मृति कामलता वद ॥ ७० ॥ भूपालवचनं श्रुत्वा जगौ सौम्याऽपि तं विभुम् । नाहं जानामि राजेन्द्र किंतु मद्भारतीं शृणु ॥७॥ एताभ्यां घटमध्यस्थाः पुष्पमाला मनोहराः । आनीता भक्तितस्ताभिर्जिनानी पूजितौ मया ॥७२॥ जनन्या सह गच्छन्त्या स्वगृहं जिनमन्दिरात् । मयैका पुष्पमालाऽस्या देवशेषा समर्पिता ॥७३॥ राजन् कामलताया हि शेषा दत्ता मया यदि । वसुमित्रा वदत्येषा मत्सुता भक्षिताऽहिना ॥७४॥ दन्दशूकेन दष्टेयं मन्मतेन यदि स्फुटम् । वसुमित्रैव जानाति न किंचिद्वेन्यहं प्रभो ॥ ७५॥ ॥ हितं समस्तजन्तुभ्यो जिनधर्म प्रजानती । एतस्य कर्मणो राजन् कारिणी न भवाम्यहम् ॥ ७६ ॥' अत्रान्तरे फणी भीमो घटादादाय वेगतः । सभास्थितस्य भूपस्य दर्शितो वसुमित्रया ॥ ७७ ॥ सौम्यामतेन भूपाल भीमेनानेन भोगिना । दष्टा मृतिं परिप्राप्ता मत्सुता धववल्लभा ॥ ७८॥ एवं निगद्य "मुक्तोऽहिनरेन्द्रपुरतोऽनया । कञ्जकासेन हस्तेन गृहीतः सौम्यया लघु ॥ ७९ ॥ सर्पो गृहीतमात्रः सन् पञ्चवर्णसमुज्वला । बभूव पुष्पमालेयं सौम्याहस्ते मनोहरे ॥ ८०॥ गृहीता पुष्पमालेयं तदानीं वसुमित्रया। भीमो भुजंगमो जातो भाषिताशेषजन्तुकः ॥ ८१॥ सौम्यया स्वकरामृष्टा मन्दा कामलता तदा । विषवेगपरित्यक्ता समुत्तस्थौ सभान्तरे ॥ ८२ ॥ दृष्ट्वाऽऽश्चर्यमिदं राजा वसुमित्रां पुरःस्थिताम् । सत्येन श्रावितां कृत्वा पप्रच्छेति कुतूहली ॥८॥ त्वयेदं चेष्टितं भद्रे कृतं वा यदि वाऽकृतम् । यथा स्वरूपतो जातं सत्यं वद यथायथम् ॥८४॥ भूपेन्द्रवचनं श्रुत्वा वसुमित्रा जगौ नृपम् । मया नीतो घटस्थोऽहिः सौम्यावधनिमित्ततः ॥८५॥ ॥ न भक्षिताऽमुना सौम्या धर्मेण परिरक्षिता । मत्सुता वलनं कृत्वा कोपतो भक्षिताऽहिना ॥८६॥" अथ पत्तनदेवीभिदृष्ट्वाऽऽश्चर्यमिदं तदा । परं वचः समुद्भुष्टं गगनस्थितमूर्तिभिः ॥ ८७॥ अहो शीलमहो सत्यमहो धैर्यमहो गुणः । जिनधर्मे परा भक्तिः सौम्यायाः शुद्धचेतसः ॥ ८८॥ इत्थमाभाष्य देवीभिनरेशस्य सभाऽन्तरे । पातिता पुष्पवृष्टिश्च सौम्याया मस्तकोपरि ॥ ८९॥ दृष्ट्वाऽतिशयमीदृशं रुद्रदत्तो नरेश्वरः । जिनदासादयः सर्वे जिनधमपरायणाः ॥ ९०॥ जीवितं चपलं ज्ञात्वा धनयौवनसंपदा । दीक्षां दैगम्बरी वीरा धर्मसेनान्तिके दधुः ॥९१॥ तथा नागरिका नार्यों वसुमित्राऽपि भक्तितः । परां श्रावकतां प्राप्ता नूनं कामलतादयः ॥ ९२ ॥ खण्डश्रीः श्रेष्ठिनं ब्रूते स्वभार्यापरिवारितम् । महाविस्मयसंपन्ना भक्तिहृष्टतनूरुहा ॥ ९३॥ शीलसंघोषणं श्रुत्वा देवतापूजनं तथा । पुष्पमालाऽभवंश्चाहेभीषणाकृतिधारिणः ॥ ९४ ॥ जिनभक्तिसमेतायाः सौम्यायाः स्थिरचेतसः । दृष्ट्वा सम्यक्त्वमापन्नं स्थिरतां मम वल्लभ ॥९५॥".. ॥ इति श्रीसौम्याब्राह्मणीसदर्शनसहितखण्डश्रीहढसम्यक्त्वकारणं
तृतीयकथानकमिदम् ॥ ६५ ॥
*
1 पफज त्रिभिः कुलकम्. 2 फज मुक्तो हि नरेन्द्र. 3 [कञ्जकामेन]. 4 [भापिताशेष]. 5 पफ युग्मम् , ज युगलम्. 6 पफ युग्मम् , ज युगलम्. 7 पफज त्रिभिः कुलकम्. 8 पफ युग्मम् , ज युगलम्. 9 [°ऽभवच्चाहे ]. 10 पफज त्रिकलमिदम्. 11 ज omits इतिश्री. 12 पफ add संपूर्णम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org