________________
૪૮
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ६५. ३३
1
तदभावे मया श्रेष्ठिन् लोकतीर्थानि गच्छता । जिनधर्मः परो लब्धो बन्धुः सर्वशरीरिणाम् ||३३|| जैने धर्मे परे लब्धे किं गोत्रेण धनेन वा । स्वजनैर्जनकेनापि ममैभिर्न प्रयोजनम् ॥ ३४ ॥ ब्रह्मचारी त्वहं भूत्वा व्रतशीलानि पालयन् । तिष्ठामि सर्वदा श्रेष्ठिन् कुर्वन् जिननमस्कृतिम् ॥ ३५ ॥ रुद्रदत्तवचः श्रुत्वा कौतुक व्याप्तमानसः । जिनदासो जगादेतं धर्मं वाऽपघनान्वितम् ॥ ३६ ॥ · किं त्वया क्षुल्लक स्वामिन् ब्रह्मचर्यमिदं धृतम् । सर्वकालं न वा ब्रूहि सांप्रतं मम निश्चितम् ॥३७॥ जिनदासवचः श्रुत्वा क्षुल्लको निजगाद तम् । ब्रह्मचर्यमिदं श्रेष्ठिन् सर्वकालं न मे धृतम् ॥ ३८ ॥ किंतु जैने मया लब्धे धर्मे जनहिते तराम् । मैथुनेन न मे कार्यं संसारार्णवकारिणा ॥ ३९ ॥ * अवाचि जिनदासेन रुद्रदत्तः कुतूहलात् । गृहीतं सर्वकालं नो ब्रह्मचर्यं यदि त्वया ॥ ४० ॥ विद्यते मगृहे कन्या ब्राह्मणी रूपशालिनी । मिथ्यादर्शनयुक्तेभ्यो न दत्ता सा मया सती ॥ ४१ ॥ सम्यग्दर्शनयुक्तस्य श्रावकस्य ददामि ते । यदीच्छा विद्यते तस्यास्ततः पाणिग्रहं कुरु ॥ ४२ ॥ श्रेष्ठिवाक्यमुपाश्रित्य क्षुल्लकः प्राह तं पुनः | जिनधर्मं परिप्राप्य कथंचिद्दैवयोगतः ॥ ४३ ॥ गृहबन्धननिर्मुक्तः पुरुषो धर्मसंयुतः । भवपाशे पुनः को वा क्षिपति स्वं सचेतनः ॥ ४४ ॥ इत्थं निगदतस्तस्य वितीर्णा श्रेष्ठिना सका । परिणीताऽमुना सौम्या रुद्रदत्तेन रूपिणी ॥ ४५ ॥ परिणीतदिने सोऽपि नवकङ्कणपाणिकः । द्यूतकारान् परिप्राप्य जगादैतान् हसन् मुदा ॥ ४६ ॥ 15 प्रतिज्ञा भवतां मध्ये मया या विहिता तदा । साऽधुना सिद्धिमानीता सद्विवाहविधानतः ॥४७॥ द्यूतकारैः समं द्यूतं रममाणो दिवानिशम् । तिष्ठति प्रीतचेतस्को रुद्रदत्तः स धूर्तकः ॥ ४८ ॥ विद्यते तत्पुरे वृद्धा सुमित्रा गणिका तदा । तत्सुता रूपसंपन्ना परा कामलताभिधा ॥ ४९ ॥ रुद्रदत्तोऽनया सार्धं कामभोगान् मनोरमान् । पूर्ववल्लभया बाढं भुञ्जानो व्यवतिष्ठते ॥ ५० ॥ परिणीताऽहमेतेन धूर्तेन बहुमायिना । व्रतशीलानि रक्षन्ती तस्थौ सौम्या स्वमन्दिरे ॥ ५१ ॥ 2 धनेन पितृदत्तेन बहुना जिनमन्दिरम् | सहस्रकूटमुत्तु कारयामास सा तदा ॥ ५२ ॥ तत्प्रतिष्ठां विधायात्र तूर्यमङ्गलनिस्वनैः । अन्धसा सकलं लोकं सा सौम्या समतर्पयत् ॥ ५३ ॥ रुद्रदत्तं सुमित्रां च तथा कामलतामपि । सौम्यैतेषां समस्तानां प्राप्य चक्रे निमन्त्रणम् ॥ ५४ ॥ पुष्पमालां कुटे' कृत्वा पन्नगं च भयानकम् । वक्रवस्त्रावृते शुक्ले दधिपूर्वाक्षतैर्युता ॥ ५५ ॥ क्रूरमानससंयुक्ता रक्तोत्पलसमप्रभे । सुमित्रेमं समादाय ददौ कामलताकरे ॥ ५६ ॥ * गृहीतचारुनेपथ्याः पुष्पताम्बूलभोगिनः । रुद्रदत्तादयः सर्वे ययुर्जिनवरालयम् ॥ ५७ ॥ सौम्यया सौम्यभावेन जिनभक्तिसमेतया । गृहीतः स कुटस्तत्र तदा कामलताकरात् ॥ ५८ ॥ उद्घाटनं विधायास्य पुष्पमालां तदन्ततः । सौम्या करेण जग्राह पन्नगं च स्फुरत्प्रभम् ॥ ५९ ॥ गुञ्जाफलसमानाक्षो लोलजिह्वोऽसितप्रभः । बभूव पुष्पमालाऽऽशु तत्करस्थः स पन्नगः ॥ ६० ॥ सुगन्धया तया चार्व्या दीर्घया पुष्पमालया । सौम्यया जिनपादाब्जमर्चितं भक्तियुक्तया ॥ ६१॥ • सौम्याऽपि रुद्रदत्तादीन् प्राप्य या निजमन्दिरम् | भोजयित्वा विधानेन तानाहारेण चारुणा ॥६२॥ भोजनान्ते च ताम्बूलं दत्त्वा तेभ्यः स्वपाणिना । पुष्पमालां तकां सौम्यां ददौ कामलताकरे ॥ ६३॥ तया सा पुष्पमाला च गृहीता निजपाणिना । कृष्णसर्पो बभूवेयं दष्टा कामलता मुना ॥ ६४ ॥ ष्ट्वा कामतां तत्र नागदष्टां स्वमातृका । तत्करात् सर्पमादाय घंटे चिक्षेप तं पुनः ॥ ६५ ॥
19
1 पफज कुलकम्. 2 ज अपघनान्वितम् = शरीरयुक्तम् 3 पफ युग्मम् ज युगलम्. 4 पफ युग्मम्, ज युगलम्. 5 पफज त्रिकलमिदम् 6ज मुपश्रुत्य 7 पज कुठे घटे 8 पफ युग्मम्, ज युगलम् 9 पफ नागदृष्टां.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org