________________
खण्डश्रीकथानकम्
६५. खण्डश्रीकथानकम् ।
खण्डश्री श्रेष्ठिनी पृष्टा श्रेष्ठिना केन हेतुना । सम्यक्त्वं ते स्थिरं जातं कथयाशु मम प्रिये ॥ १ ॥ श्रेष्ठिनो वाक्यमाकर्ण्य स्थिरसम्यक्त्वशालिनः । जगाद श्रेष्ठिनी स्वस्य सम्यक्त्वस्थिरकारणम् ॥२॥ कुरुजङ्गलदेशेऽस्ति हस्तिनागपुरं परम् । महीधरो नृपस्तत्र भार्या चास्य महीधरी ॥ ३ ॥ सोमदत्तो द्विजस्तत्र सोमिल्ला चास्य गेहिनी । सौम्याऽनयोः सुता जाता सौम्यभावा प्रियंवदा ||४|| S अन्यदा सोमदत्तोऽपि महादारिद्रपीडितः । सोमिल्लाभावतो जातो महावैराग्यसंयुतः ॥ ५ ॥ सुगुप्ताचार्यमासाद्य सोमदत्तो विशुद्धधीः । बभूव सौम्यया साकं श्रावकोऽणुव्रतान्वितः ॥ ६ ॥ अस्मिन्नेव पुरे श्रेष्ठी जिनदासो महाधनः । ऋषभोपपदा दासी तत्प्रिया दयिताऽभवत् ॥ ७ ॥ धर्मवात्सल्यतः सौम्या सोमदत्तोऽपि माहनः । आनीतो जिनदासेन स्वगृहे स वितिष्ठते ॥ ८ ॥ अन्यदा सोमदत्तोऽपि ज्ञात्वाऽऽयुः क्षयमात्मनः । सुतां समर्पयामास जिनदासस्य धीमतः ॥ ९ ॥ " सौम्यकन्या त्वयाऽवश्यं जिनदास जिनप्रिय । श्रावकाय प्रदातव्या जिनपादाम्बुजालिने ॥ १० ॥ बभूव सोमदत्तोऽयं संस्तरश्रमणो द्विजः । कृत्वा सल्लेखनां मृत्वा जातो नाके सुरोत्तमः ॥ ११ ॥ सौम्या सौम्यमतिस्तत्र जिनदासजिनालये । पूजां विदधती साध्वी तिष्ठति प्रीतमानसा ॥ १२ ॥ रूपं शीलं समालोक्य सौम्याया बहवो द्विजाः । याचन्ते तां स्वपुत्रेभ्यो भूयो भूयो मनस्विनीम् ॥१३॥ जिनदासोऽपि तां तेभ्यो न ददाति मनोहरीम् । मिथ्यादृष्टिकलङ्केन दूषितेभ्यो निरन्तरम् ॥१४॥ " सुरूपाय सुशीलाय श्रावकाय सुधीमते । सुकुलीनाय दास्यामि तामहं जोषमापं सः ॥ १५ ॥ एको विप्रः पुरे धूर्तः सप्तव्यसनभावितः । द्यूतकारैः समं द्यूतं रममाणो वितिष्ठते ॥ १६ ॥ अन्यदा द्यूतमध्यस्थो रुद्रदत्तः स माहनः । सौम्यां विलोक्य तां कन्यां द्यूतकारान् जगौ तदा ॥१७॥ रूपयौवनयुक्तायाः कन्यायाः शुद्धचेतसः । एतस्याः प्रजनं शीघ्रं विधिना विदधाम्यहम् ॥१८॥ रुद्रदत्तवचः श्रुत्वा द्यूतकारा वदन्त्यमुम् । श्रावकेभ्यो ददात्येतां नापरेभ्यो वणिक्पतिः ॥ १९ ॥ 20 यो ददाति न साधुभ्यो ब्राह्मणेभ्यः पुनः पुनः । कन्यकां याचमानेभ्यो जिनदासो जिनप्रियः ॥ २० ॥ सप्तव्यसनयुक्ताय चौराय कलिकारणे । भवते द्यूतकाराय स किं यच्छति तामयम् ॥ २१ ॥ द्यूतकारवचः श्रुत्वा प्रतिज्ञां तत्पुरोऽकरोत् । अमुष्याः सौम्यकन्यायाः कर्तव्यं प्रजनं मया ॥२२॥ एवमुक्त्वा ततो देशाद्भूत्वा कार्पटिकः पुनः । रुद्रदत्तो जगामाशु देशमन्यं तदाप्तये ॥ २३ ॥ अन्यदेशं परिभ्रम्य मायया श्रेष्ठिनः परम् । कृत्वा हि क्षौलकं वेषं चैत्यगेहं विवेश सः ॥ २४ ॥ 23 विलोक्य क्षुल्लकं श्रेष्ठी चैत्यगेहे व्यवस्थितम् । इच्छाकारं विधायास्य पप्रच्छेति स तोषतः ॥ २५ ॥ कुतस्त्वमागतो देशाद्धर्मालंकृतविग्रहः । क्षुल्लक ब्रूहि मे क्षिप्रमिदं संक्षेपतः स्फुटम् ॥ २६ ॥ श्रुत्वा तद्वचनं सोऽपि क्षुलको निजगावमुम् । पूर्वदेशात् समायातो महाश्रावक सांप्रतम् ॥२७॥ समस्तसिद्धधामानि सर्वचैत्यानि च क्रमात् । वन्दित्वा सिद्धभावेन भक्तिहृष्टतनूरुहः ॥ २८ ॥ शान्तिकुन्थ्वरतीर्थेशान् जन्मनिष्क्रमणानि च । वन्दनार्थमिहायातस्त्वद्भक्तिं च विलोकितुम् ॥२९॥ ॐ श्रुत्वा तद्वचनं श्रेष्ठी तगुणाकृष्टमानसः । पूर्वाश्रमं स पप्रच्छ रुद्रदत्तं पुरःस्थितम् ॥ ३० ॥ आकर्ण्य वचनं तस्य श्रेष्ठिनः स जगाद तम् । अस्मिन्नेव पुरे श्रेष्ठिन् सोमशर्माख्यमाहनः ॥३१॥ तस्यापि सोमगोत्रस्य सोमशार्मास्ति माहनी । तत्पुत्रोऽहं विनीतात्मा रुद्रदत्तो विशुद्धधीः ॥ ३२ ॥
६५. ३२ ]
!
1 फ ज्योषमाप युग्मम्, ज युगलम्. 6 ज चावलोकितम्. 7 पफ युग्मम् ज युगलम्.
For Private & Personal Use Only
Jain Education International
१४७
2 प प्रजनं = विवाहम्. 3 पफज त्रिकलमिदम्. 4 पफ कार्पिटिकः 5 पफ
www.jainelibrary.org