________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ६४. ६६
७२ ॥
७३ ॥
जिनदत्ताधवोऽप्यत्र तदा चैत्यगृहे मुदा । कायोत्सर्गेण संतस्थौ चोपसर्गप्रशान्तये ॥ ६६ ॥ अथ कापालिकं बद्धा मठस्थं पुरदेवता । भूपालमन्दिरद्वारमानयामास दुर्मदम् ॥ ६७ ॥ पुरमध्यस्थितो दीनं विह्वलीभूतमानसः । स्वबन्धवेदनाग्रस्तः पूत्कारं विदधाति सः ॥ ६८ ॥ अहो महाजन क्षिप्रं निर्दोषस्य वचो मम । तथा निरपराधस्य श्रूयतामेकचित्ततः ॥ ६९ ॥ बन्धुश्रीवाक्यतो नूनं विद्या वैतालिका मया । जिनदत्तावधार्थं च साधिता पुरतः स्थिता ॥ ७० ॥ मया वैतालिकी विद्या जिनदत्तावधाय सा । वारत्रयं समादिश्य प्रेषिता परमोदया ॥ ७१ ॥ जिनदत्तावधाशक्ता समागत्य मदन्तिकम् । भूयो मया प्रयत्नेन भाषितेयं पुनः पुनः ॥ दुष्टा या च द्वयोर्मध्ये सद्भावपरिवर्जिता । तां निहत्य मदादेशादागच्छाशु मदन्तिकम् ॥ इदमाभाष्य मुक्तेयं मया तद्वधकारणात् । भूयो मदन्तिकं प्राप निहत्य कनकश्रियम् ॥ ७४ ॥ 10 एवंविधं वचः सोऽयं तदा देवतया तया । बंभ्रमीति पुरस्यान्ते भाषमाणः पुनः पुनः ॥ ७५ ॥ तथा बन्धुमती पापा भूतयक्षपिशाचकैः । हन्यमाना प्रजल्पन्ती बंभ्रमीति पुरान्तरे ॥ ७६ ॥ भो भो महाजनाः स्पष्टं श्रूयतां मद्वचोऽधुना । दोषो न जिनदत्ताया मम दोषोऽयमीदृशः ॥७७॥ मया कापालिकः क्षिप्रं प्रेरितो मन्दभाग्यया । विद्याबलेन केनापि जिनदत्तावधं कुरु ॥ ७८ ॥ वेतालविद्यया लोक कापालिकविसृष्टया । मत्सुता निहता नूनं कनकश्रीः प्रियंवदा ॥ ७९ ॥ 15 प्रभाते स्वसुतां दृष्ट्वा स्वगृहे मृतिमागताम् । दत्तं हि जिनदत्ताया मयाऽभ्याख्यानमीदृशम् ॥८०॥ जिनदत्ता स्वपुण्येन रक्षिता दोषवर्जिता । वेतालविद्यया तत्र चण्डमारिविमुक्तया ॥ ८१ ॥ तयोर्निगदितं श्रुत्वा राज्ञा जनपदेन च । नागरैरपि विज्ञाता जिनदत्ताऽतिशोभना ॥ ८२ ॥ ततो नगरदेवीभिर्महाविभवसंपदा | पूजिता जिनदत्ताऽलं शीलालंकृतविग्रहा ॥ ८३ ॥ तदाश्चर्यमिदं दृष्ट्वा बहवो नरकुञ्जराः । प्रापुर्जेनेश्वरं धर्मं जिनभक्तिपरायणाः ॥ ८४॥ नरशूरो नृपो मत्री पुरोहितनृपादयः । समाधिगुप्तमानम्य दीक्षां दैगम्बरीं दधुः ॥ ८५ ॥ समाधिगुप्तनामस्य जिनदत्ता विशुद्धधीः । जिनमत्यर्जिकापार्श्वे दधौ जैनेश्वरं तपः ॥ ८६ ॥ दृष्ट्वाऽतिशयमीक्षं जिनदत्तासमुद्भवम् । जातं स्थिरं सुसम्यक्त्वं श्रेष्ठिन् मित्रश्रियो मम ॥ ८७ ॥ श्रुत्वा तद्वचनं तत्र खण्ड श्रीप्रमुखाः परम् । श्रेष्ठिभार्या वदन्तीमं धर्मविन्यस्तबुद्धयः ॥ ८८ ॥ सुष्ठु दृष्टं तथा सुष्ठु कथितं परमार्थतः । श्रद्धानं प्रत्ययं कुर्मो रोचनं स्पर्शनं परम् ॥ ८९ ॥ 25 श्रेष्ठभार्यावचः श्रुत्वा तथा कुन्दलता परा । लघीयसी जगादैता जिनधर्मपरायणा ॥ ९० ॥
1
20
5
१४६
दृष्टं न सुष्ठु युष्माभिर्न सुष्ठु कथितं भुवि । श्रद्दधामि न भावेन न प्रत्येमि प्रभाषितम् ॥ ९१ ॥ नाहं करोमि भावेन भवदुक्तस्य रोचनम् । स्पर्शनं च तथा नूनं सतीभूतस्य भूतले ॥ ९२ ॥ आकर्ण्य तद्वचो राजा दध्यौ कोपारुणेक्षणः । अमुष्या निग्रहं स्वेन श्वः करिष्यामि निश्चितम् ॥९३॥
॥ इति श्रीवेतालविद्या निर्भय जिनदत्तमित्र श्रीदृढ सम्यक्त्वा - रोपणद्वितीयकथानकमिदम् ॥ ६४ ॥
Jain Education International
*
1 पफज कुलकम्. 2 ज महाजन. 3 पफज षड्भिः कुलकम्. 4 पफ प्रापुर्जिनेश्वरं 5फ प्रमुखां परं. 6 ज तदा. 7 पफ युग्मम् ज युगलम्. 8 ज omits इति श्री.
For Private & Personal Use Only
www.jainelibrary.org