________________
-६४.६५] जिनदत्तमित्रश्रीकथानकम्
१४५ अन्यदा यमदूतो वा मुदा बन्धुमतीगृहम् । कापालिको भ्रमन् भिक्षां चण्डमारिः समाययौ ॥३२॥ मृष्टाहारं ददात्यस्मै घृतपूरादिकं भृशम् । जिनदत्ताऽपकाराय बन्धुश्रीबन्धुनिःस्पृहा ॥ ३३॥ विदित्वा तदभिप्रायमुपचारकदम्बकैः । जगाद तामसौ धूर्तश्चण्डमारिः कलस्वनः ॥ ३४॥ विद्यामत्रौषधं योग्यं वशीकरणमुत्तमम् । उच्चाटनं च विद्वेषं स्तम्भनं मोहनाञ्जनम् ॥ ३५ ॥ एवमादीनि वस्तूनि सिद्धानि भुवनत्रये । नूनं जानाम्यहं भद्रे न कश्चिद्वेत्त्यमून्यलम् ॥ ३६॥ । यदि किंचित्तरां गूढं कार्यमुत्पद्यते तव । ततो ब्रूहि मम क्षिप्रं सर्व संपादयाम्यहम् ॥ ३७॥ कापालिकं वचः श्रुत्वा तं जगौ विकसन्मुखी । तव ज्ञानेन मे पुत्र न किंचिदुर्लभं भुवि ॥३८॥ प्रदत्ता त्वत्स्वसाऽन्यस्मै जिनदत्तामतेन मे । तद्वञ्चिता सुदुःखेन पुत्र तिष्ठति साधुना ॥ ३९ ॥ जिनदत्तामृतिं पुत्र कुरु मद्वचनेन सा । येनानुजा सुखं तेऽलं तिष्ठति प्रीतमानसा ॥४०॥ श्रुत्वा बन्धुश्रियो वाक्यं जगौ कापिलिकोऽपि ताम् । मारणं नः कुले युक्तं भूषणं न च दूषणम् ॥४१॥॥ अहं कृष्णचतुर्दश्यां नक्तं वेतालविद्यकाम् । नूनं साधयितुं यामि पुष्पादीनि त्वमानय ॥४२॥ तदादिष्टदिने पुष्पधूपदीपादिकं तया । आदाय तत्पुरः क्षिप्तं बन्धुमत्याऽतिवेगतः ॥४३॥ सोपवासः समादाय पुष्पधूपादिकं तदा । कापालिको जगामेदं भीमं पितृवनं निशि ॥४४॥ मनुष्यशवमादाय तत्करे संनिधाय च । वेतालिविद्यकां तत्र तदानीं साधयत्यसौ ॥४५॥ ततो वेतालविद्या च खड्गमादाय भीषणम् । जगादेमं ममादेशं देहि किं करवाणि ते ॥४६॥ 15 वाक्यं वेतालविद्यायाश्चण्डमारिर्निशम्य ताम् । कापालिकः श्मशानस्थो बभाण पुरतः स्थिताम्॥४७॥ चैत्यवेश्मस्थितां शीघ्रं जिनदत्तां कृतागसाम् । वेतालाख्यमहाविद्ये त्वं मारय मदुक्तितः ॥४८॥ ततस्तद्वचनात् सा च खङ्गहस्ता भयानका । गर्जन्ती भीषणारावं चैत्यवेश्मबहिःस्थिता ॥४९॥ तको कृष्णचतुर्दश्यां सोपवासौ जिनान्तिके । तन्नादाभीतचेतस्कौ कायोत्सर्गेण तस्थतुः॥ ५० ॥ ततो वेतालविद्याऽपि चैत्यान्तर्गन्तुमक्षमा । भूयः कापालिकान्तं च जगाम विगतक्रिया ॥५१॥ 20 भूयोऽपि साधिता तेन द्वितीयसमये सका । सखड्गा प्रोत्थिता तस्मात् तदन्तं प्रेषिता पुनः ॥५२॥ तेनैव विधिना भूयो जिनान्तं जातुमक्षमा । निवृत्ता साऽपि वेगेन तदन्तं प्राप्य विह्वला ॥५३॥ भूयोऽपि साधिता तेन तृतीयसमये सका । उत्थिता खड्गमादाय तत्समीपं विसर्जिता ॥ ५४॥ जिनेश्वरसमीपं सा प्रयातुमसहा सती । चण्डमारिसमीपं च प्राप शक्तिपरिच्युता ॥ ५५ ॥ चतुर्थसमये तेन साधिताऽसिसमन्विता । कापालिकेन सा विद्या प्रोक्ता खपुरतः स्थिता ॥५६॥ 23 दुराचारां द्वयोर्मध्ये निहत्य सहसा पुनः । आगच्छ मत्समीपं च कृतकृत्यत्वमागता ॥ ५७॥ पुनर्वेतालविद्या च सुप्तां तां कनकश्रियम् । हत्वा जगाम सा शीघ्रं कापालिकसमीपताम् ॥ ५८॥ ततः कापालिको दृष्ट्वा कृपाणं रुधिरारुणम् । कृतकृत्यो जगामाशु खकीयस्थानमादरात् ॥ ५९॥ ततः प्रभातकाले च बन्धुश्रीस्तोषमागता । जिनदत्ता हताऽनेन जामातुर्ग्रहमाययौ ॥६०॥ माता दृष्ट्वा सुतां तत्र जीवन परिवर्जिताम् । बाष्पविप्लुतनेत्रास्या जगादेति वचस्तदा ॥ ६१॥ ॥ मदीया तनया लोका निहता जिनदत्तया । किंवदन्ती नृपस्यैषा तयाऽऽशु विनिवेदिता ॥६॥ श्रुत्वा तद्वचनं राजा कोपलोहितलोचनः । बभाण भासुराकारो वचसा स्वान् नरानरम् ॥ ६३ ॥ जिनदत्तापति बवा समस्तधनसंयुतम् । मदभ्याशं पुनः शीघ्रं समानयत सजनाः॥ ६४॥ तदाज्ञां प्राप्य निर्गत्य प्रापुस्ते श्रेष्ठिमन्दिरम् । चकार स्तम्भनं तेषां तथा शासनदेवता ॥६५॥ . 1 पफ चतुष्कुलकम् , ज चतुष्कलकम्. 2 पफज त्रिकलम्. 3 पफ वेतालि'. 4 [वेताल° ]. 5 पफ भयानिका. 6 पफ युग्मम् , ज युगलम्.
बृ० को० १९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org