________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
६४. जिनदत्त मित्रश्रीकथानकम् ।
१२ ॥
१३ ॥
१४ ॥
मित्र श्रीः श्रेष्ठिना' पृष्टा प्रथमा दयिता तदा । स्थिरतां तव सम्यक्त्वं संजातं केन हेतुना ॥ १ ॥ ततस्तद्वचनं श्रुत्वा मित्रश्रीः प्राह तं प्रति । कौतुकव्याप्तचेतस्कं श्रेष्ठिनी तन्मनः प्रिया ॥ २ ॥ मगधाख्यमहादेशे पुरे राजगृहे परे । नरशूरोऽभवद् राजा स्वर्णलेखाऽस्य गेहिनी ॥ ३ ॥ 5 तत्रैव नगरे श्रेष्ठी चार्चदासो धनान्वितः । बभूव जिनदत्ताऽस्य सुन्दरी सर्वसुन्दरी ॥ ४ ॥ ततस्तौ दम्पती तत्र सुखसागरमध्यगौ । अन्योन्यप्रीतिसंपन्नौ तिष्ठतः स्म मुदाऽन्वितौ ॥ ५ ॥ ततो वन्ध्या सती सा च जिनदत्ता जगौ प्रियम् । अन्यां कन्यां वृणीष्व त्वं पुत्रसंतान कारणात् ॥६॥ पुत्रलाभं विना कान्त धर्मलाभो विनश्यति । धर्मलाभे विनष्टे हि सर्वं नष्टं भवेदिति ॥ ७ ॥ अस्मिन्नेव पुरे श्रेष्ठी जिनदासो जनप्रियः । तद्भार्या जिनदासी स्याजिनदत्ता च तत्सुता ॥ ८ ॥ 1. मिथ्यादृष्टिस्तरामस्य प्रिया बन्धुमती परा । कनकश्रीः सुता चास्याः कनकाभशरीरका ॥ ९ ॥ ततः कनिष्ठिका प्राप्ता मृतिं च जिनदत्तया । कनकश्रीर्वृता यत्नात् सपत्नी भगिनी तदा ॥ १० ॥ ऋषभोपपदो दासस्तामुवाह विधानतः । गृहं समर्पितं तस्याः सधनं श्रेष्ठिना मुदा ॥ ११ ॥ ऋषभोपपदो दासः श्रेष्ठिन्या जिनदत्तया । आस्ते धर्मविनोदेन सर्वदा जिनमन्दिरे ॥ ततो मध्याह्नवेलायां विधाय वरभोजनम् । स्वगृहे धर्मपृच्छातस्तिष्ठतस्तौ जिनालये ॥ कनकश्रीगृहं सर्वं कौटिल्यपरिवर्जिता । धनधान्यादिना सार्धं वृद्धिं नयति सर्वदा ॥ अन्यदा तद्गृहं प्राप्य बन्धुश्रीः स्नेहकारणात् । इदं संक्षेपतः पुत्रीं पप्रच्छ कनकश्रियम् ॥ १५ ॥ त्वत्पतिः स्नेहसंपन्नस्त्वया सार्धं स्वपित्यरम् । उत्तिष्ठ ते महास्नेहाद् ब्रूहि मे सकलं द्रुतम् ॥१६॥ जननीवचनमाकर्ण्य कनकश्रीस्तयोदिता । जगाद मातरं क्रुद्धा बाष्पविलुतलोचना ॥ १७ ॥ बुद्धिहीने खले वृद्धे सपत्नीतनयोपरि । मां प्रदाय पुनः प्रापे' धववार्तां प्रपृच्छसि ॥ १८ ॥ विवाहदिवसे सुप्ता धवेन सह निश्चितम् । स्वप्नान्तरेऽपि कीदृक्षं पतिं जानामि नाम्बिके ॥ १९ ॥ गृहधर्मं विधायेदं दासीव वशवर्तिनी । एकाकिनीव साम्यं च दुःखिनी शीर्णमञ्चके ॥ २० ॥ म त दम्पती प्रीत्या स्थित्वा जिनवरालये । गृहे मध्याह्नवेलायां आगत्य कुरुतोऽशनम् ॥२१॥ तस्मिन्नेव गृहे भूयो मदनोन्मत्तमानसौ । तिष्ठतो लीलया तौ च कथानकविधानतः ॥ २२ ॥ अहं दैवसिकं कर्म विधाय सकलं पुनः । तिष्ठाम्येकाकिका मातर्निन्दती निजजीवितम् ॥ २३ ॥ दिने निशि सुखं भर्तुः पक्षे मासेऽपि मातृके । मानितं न मया जातु त्वत्प्रसादान्मनखिनि ॥ २४ ॥ कनकश्रीवचः श्रुत्वा बन्धुश्रीर्निजगावमुम् । वञ्चिताऽहं सुते बाढं दुष्टया जिनदत्तया ॥ २५ ॥ तयेदं गदितं पुत्र मत्पुरो वचनं पुरा । त्वत्सुतां वल्लभां पत्युः करिष्यामि तरामहम् ॥ भर्तृसौख्यं परित्यज्य ब्रह्मचर्यसमन्विता । स्थास्यामि रागनिर्मुक्ता जिनगेहे धवान्विता ॥ अनेन च विधानेन त्वं दत्ताऽसि मया सुते | जिनदत्ताधवायास्मै त्वदादेशविधायिने ॥ २८ ॥ 30 जिनदत्तामृतिं यावच्चिन्तयामि तनूदरि । दिनानि कतिचिन्मुग्धे तिष्ठ तावत् स्वमन्दिरम् ॥२९॥ तनयाश्वासनं कृत्वा क्रोधारुणनिरीक्षणा । बन्धुश्रीः क्रूरचेतस्का जगाम निजमन्दिरम् ॥ ३० ॥ ततो निजगृहं प्राप्य महाक्रोधसमन्विता । जिनदत्तावधं सा हि चिन्तयन्त्यवतिष्ठते ॥ ३१ ॥
25
२६ ॥
२७ ॥
15
20
१४४
1 पफ श्रीष्टिनी ( ? ).
2 पफ शरीरिका. 3 No. 11 is given only in ज. 4 ज कनकश्रीगृहं. 5फ प्राये, [ पापे ]. 6 पफ धनवार्ता. 7 [ एकाकिनी वसाम्यत्र ]. 8 ज इमौ तु. 9 No. 30 is given only in ज; पफज षद्भिः कुलकम्.
Jain Education International
[ ६४.१
For Private & Personal Use Only
www.jainelibrary.org