________________
-६३. २५७ ] अर्हद्दासकथानकम्
१४३ ततस्तद्वाक्यमाकर्ण्य त्रिः परीत्य प्रणम्य तम् । चौरदेवः पुनः प्राह त्वं गुरुः परमो मम ॥२२६॥ आचार्य साधुसंघं च प्रणम्य पुनरादरात् । श्रेष्ठिपार्श्व परिप्राप्य तस्थौ चौरसुरो मुदा ॥ २२७॥ दस्युदेवं पुरो वीक्ष्य भूपतिमुनिसंसदि । जगाद विस्मितस्वान्तः प्रभाभासुरविग्रहम् ॥ २२८॥ भवतां स्वर्गलोके किं विनयो हीदृशो बुध । येन साधुगणं हित्वा श्रावकं वन्दसे तराम् ॥२२९॥ नरेन्द्रवचनं श्रुत्वा चौरदेवो बभाण तम् । कौतुकव्याप्तचेतस्कं गुरुभक्तिपरायणः ॥ २३०॥ । विनयं वेद्मि राजेन्द्र विपश्चिजनसंमतम् । पूर्व विधीयते नूनं जिनसाधुनमस्कृतिः ॥ २३१॥ मूलगुणव्रतानां च शिक्षाणुव्रतधारिणाम् । श्रावकानां पुना राजनिच्छाकारो विधीयते ॥ २३२॥ किं पुनर्जिनदत्तोऽयं श्रेष्ठी मम गुरुः सुहृत् । तेन पूर्व नमस्कारों मयाऽस्य विहितो मुदा ॥२३३॥ देवस्य वचनं श्रुत्वा जगादैतं नराधिपः । कथं गुरुरयं तेऽत्र कथय त्वं ममाधुना ॥ २३४ ॥ अवाचि भूपतिर्भूयो देवेन मुदमीयुषा । विस्मयव्याप्तचेतस्कः सर्वसत्त्वहितान्तिके ॥ २३५॥ ॥ अहं रूप्यखुरश्चौरो जिनदत्तो वणिक्पतिः । कुर्वस्तेयं त्वया लब्धः शूलिकायां निधापितः ॥२३६॥ दत्तः पञ्चनमस्कारो मेऽमुना श्रेष्ठिना परः । अस्योपदेशतो राजन् जातो देवोऽहमीदृशः ॥२३७॥ अनेन कारणेनार्य जिनदत्तो गुरुर्मम । हित्वा मुनिगणं भूप मयाऽयं विनुतस्तराम् ॥ २३८ ॥ गीर्वाणवाक्यमाकर्ण्य राजा जातकुतूहलः । बभूव प्रीतचेतस्कस्तद्रूपहृतलोचनः ॥ २३९॥ पूजां विधाय भूयोऽपि मणिस्वर्णसरोरुहैः । जिनदत्तस्य देवोऽयं तस्थौ मुदितमानसः ॥ २४० ॥ 15 दृष्ट्वाऽऽश्चर्यमिदं सारं नृपमत्रिपुरोहिताः । स्वपुत्रेभ्यः श्रियं दत्त्वा दीक्षां दैगम्बरी दधुः ॥२४॥ केचित् सम्यक्त्वमादाय श्रावकत्वं तथा परे । अन्ये मध्यस्थतां प्राप्य शशंसुर्जिनशासनम् ॥२४२॥ सम्यक्त्वं प्राप्य देवोऽपि मुनिसंघ प्रणम्य च । जिनदत्तं पुनः प्राह विन्यस्य करकुमलम् ॥२४३॥ भवत्पादप्रसादेन जैनो धर्मो मया परः । लब्धोऽतः कृतकृत्योऽहं पुण्यवानस्मि सांप्रतम् ॥२४४॥ भूयो भूयो नतिं कृत्वा जिनदत्तस्य भक्तितः। सौधर्म प्राप्य देवोऽसौ स्मृतश्रेष्ठिगुणान्तरः ॥२४५॥ 20 जिनदत्तसुतोऽवोचत् स्वकान्ताः पुरतः स्थिताः । आश्चर्यमिदमाकर्ण्य जातोऽहं दृढदर्शनः ॥२४६॥ श्रेष्ठिवाक्यमुपश्रुत्य श्रेष्ठिभ्यो निगदन्त्यमूः । त्वद्भाषितमिदं सुष्ठु श्रुतमस्माभिरादरात् ॥ २४७॥ श्रद्धानं रोचनं साधुस्पर्शनं प्रत्ययं तथा । भवद्वाक्यस्य भो श्रेष्ठिन् वयं कुर्मो दिवानिशम् ॥२४८॥ ततः कुन्दलता प्राह तद्वचो विनिशम्य सा । न सुष्ठु श्रुतमस्माभिर्न सुष्ठ कथितं त्वया ॥२४९॥ न सुष्ठ भाषितं किंचिन्नापि सुष्ठ विलोकितम् । न श्रद्दधामि किंचिच्च न प्रत्येमि मनागपि ॥२५०॥ 25 कस्यापि रोचनं नापि जल्पितस्य करोम्यहम् । स्पृशामि न क्वचिन्मुग्धा मनोवाक्कायकर्मभिः ॥२५१॥' श्रुत्वा कुन्दलतावाक्यं वृक्षमूलस्थितो नृपः । रोषपूरितचेतस्को दध्यौ विस्मितमानसः॥ २५२ ॥ ईदृशोऽतिशयो दृष्टो मयाऽपि जनको मम । राज्यं वितीर्य निग्रन्थो बभूव श्रमणो महान् ॥२५३॥ एषा कुन्दलता दुष्टा ब्रवीति मदविह्वला । न श्रद्दधाम्यहं सर्वं पूर्वोक्तवचनं त्रिधा ॥ २५४ ॥ आश्चर्यमिदमीक्षं श्रुतदृष्टानुभूतकम् । तथाऽपि दुर्विदग्धेयं न प्रत्येति मनागपि ॥ २५५ ॥ एतस्याः श्रेष्ठिभाया नितान्तं दुष्टचेतसः । निग्रहं श्वः करिष्यामि स्वयमेव विसंशयम् ॥२५६॥ मत्री स्वर्णखुरश्चौरो दध्यौ वृक्षं समाश्रितः । धृष्टा कुत्रेष्ठिनी चैषा न प्रत्येति वचः कथम् ॥२५७॥
॥ इति श्रीशूलहतरूप्यखुरचौरमृतान्तर्गतदृष्टान्त
संयुक्ताहँद्दासकथानकमिदम् ॥ ६३ ॥
.: 1 पफ युग्मम्, ज युगलम्.2 फ पूर्वनमस्कारो. 3 पफज चतुष्कुलकम्. 4 पफज चतुष्कुलकम, 5 पफ कृत्यकृत्योहं. 6 पफज त्रिभिः कुलकम्..7 पफज त्रिभिः कुलकम्. 8ज omits इतिश्री.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org