________________
१४२ हरिषेणाचार्यकृते बृहत्कथाकोशे
[६३. १९२तदाऽर्कपुष्पशब्देन विविदुस्तं मलिम्लुचम् । गच्छन्तं भूपसामीप्यमरं भोजनवाञ्छया ॥ १९२ ॥ तद्भाण्डकानि सर्वाणि नरेणैकेन वेगतः । उद्घाटितानि धूमोऽपि विस्तरं प्राप्य' तगृहे ।। १९३॥ . तल्लोचनद्वयं तेन धूमेन च कदर्थितम् । पतद्भिरश्रुभिः शीघ्रं कजलं विलयं गतम् ॥ १९४ ॥ कजले विलयं याते तस्करः प्रकटोऽभवत् । गृहीतोऽयं नरैराशु तदानीं नृपसंमतैः ॥ १९५ ॥ 5 प्राध्वंकृत्य तक कोपान्नीत्वा नगरतो बहिः । नरै रूप्यखुरः शीघ्रं शूलिकायां निधापितः ॥१९६॥ एवं कृते ततश्चौरे नराः प्रच्छन्नविग्रहाः । तस्थुर्नरेन्द्रवाक्येन दिक्षु सर्वासु सायुधाः ॥ १९७॥ योऽनेन सह संजल्पं करिष्यति नरो बली । नूनं गृहीतसर्वस्वः स दण्ड्यो मे भविष्यति ॥१९८॥ अत्रान्तरे जिनं नत्वा मुनींश्च बहुभक्तितः । धर्माख्यानमतः श्रुत्वा जिनदत्तो दिनानने ॥ १९९॥
आगच्छन् स्वगृहं हृष्टः शूलास्थेन च दस्युना । दृष्टो रूप्यखुरेणायं विह्वलीभूतचेतसा ॥२०॥ 10 श्रावकस्त्वमसि ख्यातो दयावान् सर्वजन्तुषु । समस्तभुवनव्यापिकीर्तिच्छन्नदिगन्तरः ॥२०१॥ जलं पायय मां भद्र तृष्णाव्याकुलमानसम् । एवमुक्तोऽमुना श्रेष्ठी तदानीं मर्तुमिच्छता ॥२०२॥ श्रुत्वा तद्वचनं तथ्यं शूलस्थं प्राप्य तं तदा । जगौ कण्ठगतप्राणं जिनदत्तः कृपाऽऽर्द्रधीः ॥२०३॥ मया द्वादशभिर्वमंत्रो लब्धः प्रकामदः । सोऽधुना विस्मृतिं याति जलानयनतो मम ॥ २०४ ॥
यावज्जलमहं शीघ्रमानयामि कृते तव । तावन्मत्रमिमं वत्स त्वं घोषय भवच्छिदम् ॥ २०५॥ 15 श्रुत्वा तद्वचनं चौरो जिनदत्तं जगौ पुनः । दत्त्वा मे कामदं मत्रं गच्छ त्वं सलिलं प्रति ॥२०६॥
ततः पञ्चनमस्कारो दत्तोऽस्मै श्रेष्ठिना तदा । गृहीतो भक्तितः सोऽपि मस्तकाञ्जलिधारिणा ॥२०७॥ ध्यायन् पञ्चनमस्कारं जिनदत्तसमर्पितम् । समाधि प्राप्य सौधर्म प्राप चौरः सुभक्तितः ॥२०८॥ जिनदत्तोऽपि पानीयं गृहादादाय चागतः । तदन्तं यावदायाति व्यसुं तावदपश्यत ॥ २०९ ॥
न्यस्तं विलोक्य च श्रेष्ठी ललाटे करकुङ्मलम् । नाकं प्राप्तमिमं ज्ञात्वा सोपवासो गृहं ययौ ॥२१०॥ 20 समाधिगुप्तनामायमाचार्यः संघसंयुतः । शान्तिकादिगुहायां च तदा संतिष्ठते सुधीः ॥ २११॥
अत्रान्तरे नरैरस्य जिनदत्तो निवेदितः । जल्पन् रूप्यखुरेणामा दृष्टोऽस्माभिर्नरेश्वर ॥ २१२ ॥ तद्वाक्यतो रुपं प्राप्य भूपती रक्तलोचनः । तद्वन्धने धनादाने चादिदेश नरानरम् ॥ २१३॥ नरेन्द्राज्ञां समादाय देवशेषामिव क्षणात् । भूपान्ततो भटा भीमा निर्ययुस्तुष्टचेतसः ॥ २१४ ॥ उपसर्ग परिज्ञाय जिनदत्तस्य मत्कृते । अवधिज्ञानतः प्राप चौरदेवस्तदालयम् ॥ २१५ ।। 25 वेतालरूपमादाय भीषिताशेषजन्तुकम् । जिनदत्तगृहद्वारे तस्थौ चोरसुरस्तदा ॥ २१६॥ विलोक्य नृपमायान्तं महाभटपुरस्सरम् । तत्सन्मुखमभीयाय सुरो रूप्यखुरः पुरा ॥ २१७॥ भयानकं पुरो दृष्ट्वा सुरं लकुटपाणिकम् । ननाश भूपतिः शीघ्रं मरणाशङ्किमानसः ॥ २१८ ॥ तन्मार्गतः सुरो भीमः खनादापूरिताम्बरः । वदन्निदं तरां रुष्टो दण्डहस्तः प्रधावति ॥ २१९ ।। रेरे खल दुराचार घोर पापिष्ठ कातर । जीवन्न यासि दुर्बुद्धे दण्डेन क्राथयामि ते ॥ २२० ॥ 30 अथ तां भीतितो राजा स्रस्तवासःशिरोरुहः । मुनिश्रेष्ठिसमाकीर्णां क्षान्तिकादिगुहां ययौ ॥२२१॥
श्रेष्ठिन् मां पाहि पाह्यात निगदन् वचनं त्विदम् । भयवेपितसर्वाङ्गः स्थितोऽयं तत्समीपके ॥२२२॥ देवोऽपि तदनु प्राप्य महाभासुरविग्रहः । जिनदत्तं जगादेति कोपलोहितलोचनः ॥ २२३ ॥ इमं दुष्टं दुराचारं किं रक्षसि निकारिणम् । एतस्य निग्रहं स्वेन करोमि कुरु मोचनम् ॥ २२४ ॥ देववाक्यं समाकर्ण्य जिनदत्तो जगावमुम् । भवताऽवश्यमेतस्य क्षन्तव्यं मुदितः सकः ॥२२५॥
1 [प्राप]. 2 पफ युग्मम् , ज युगलम्. 3 फ कीर्तिछिन्न. 4 पफ युग्मम् , ज युगलम्. 5 फ दुराचार. 6 [ काथयामि ]. 7 पफ युग्मम् , ज युगलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org