________________
-६३. १९१]
अर्हहासकथानकम् वयं सहस्रकूटाख्यं जिनायतनमुत्तमम् । भवतीभिः समं यामः पुण्योपार्जनकारणात् ॥ १५८ ॥' ततः श्रेष्ठिवचः श्रुत्वा भक्तिहृष्टतनूरुहाः । तदानीं श्रेष्ठिनं प्रोचुर्विस्मयव्याप्तमानसाः ॥ १५९ ॥ त्वरितं वन्दितुं यामो जिनान् जितभवद्विषः । सर्वपापपरित्यक्ता भवामो येन वल्लभ ॥ १६०॥ तद्वाक्यतः पुनः श्रेष्ठी भार्याऽष्टकसमन्वितः । तोषपूरितचेतस्को ययौ जिनवरालयम् ॥ १६१॥ जिनेश्वरनुतिं कृत्वा संसारोच्छेदकारिणीम् । भार्याः पुरःस्थिताः श्रेष्ठी पप्रच्छेति कुतूहली ॥१६२॥ । भवतीनां कुतो हेतोः सम्यक्त्वं दृढतां गतम् । निवेदयत मे शीघ्रं जातं सुष्ठ कुतूहलम् ॥१६३॥ श्रेष्ठीवाक्यं समाकर्ण्य प्रोचुस्ता वचनं तदा । दृष्टिस्त्वया कथं प्राप्ता त्वं नाथ प्रथमं वद ॥१६४॥ परिपाट्या पुनः पश्चाद् वयं सर्वाः कुतूहलात् । भवतां कथयिष्यामः सम्यक्त्वस्थिरकारणम् ॥१६५॥ निशम्य वाचिकं तासां शोभनं प्रीतमानसः। श्रेष्ठी बमाण शुद्धात्मा सम्यक्त्वस्थिरकारणम् ॥१६६॥ क्षणं चित्तसमाधानं विधाय परमार्थतः । तत्र श्लोकानिमान् भव्यानाकर्णयत मुग्धिकाः ॥१६७॥" राजोदितोदयो नाम मथुरायां महाबलः । मन्त्री सुबुद्धिरस्यासीत्सुबुद्धिर्बुधसंमतः ॥१६८॥ सुवर्णखुरनामायं तस्करः सिद्धविद्यकः । कौमुदीजनसंघातं पश्यतीमं तरुस्थितः ॥ १६९ ॥ शूलाहते हि वेताले वासीशत्यमलीमसा । पृथिवीरात्रिभक्ते च फले वास्यैव संमताः ॥ १७ ॥ मथुरा नगरी रम्या पुरं राजगृहं परम् । हस्तिनागपुरं चैव कौशाम्बी नगरी तथा ॥ १७१॥ वाराणसी पुरी चम्पा श्रीमदुज्जयिनी परा । तथाऽन्या सूर्यकौशाम्बी धनधान्यजनालया ॥१७२॥ 11 जिनदत्तो वणिनाथो जिनदत्ता च तत्प्रिया । सौम्यः सौम्यशरीराभा सोमश्रीरस्य गेहिनी ॥१७३॥ तथा मुण्डितपद्मश्रीः पद्मश्रीसमविभ्रमा । प्रियंवदो महासत्त्वः सोमशर्मा जनप्रियः ॥ १७४ ॥ मित्रश्रीमित्रसत्तेजाः खण्डश्रीरपि रूपिणी । विष्णुश्रीः शोभनाकारा नागश्री गिनीव सा ॥१७५॥ तथा पद्मलता चार्वी कनकादिलता परा । मता विद्युल्लता कान्ता तथा विद्युल्लता परा ॥ १७६॥ सूत्रश्लोकान् विधायायं स्वदृष्टिस्थिरकारणम् । जगौ शूलहताख्यानं स्वभार्याणां मनोहरम् ॥१७७॥ 20 शूरसेनजनान्तेऽस्ति चोत्तरामथुरा पुरी । प्रमोदवाहनो राजा भार्या चास्य यशोमती ॥१७८॥ तत्पुत्रोऽपि गुणाधारो बलवानुदितोदयः । महोदया प्रिया चास्य रूपराजितविग्रहा ॥ १७९ ॥ सुबुद्धिरस्य मन्त्री च तद्भार्या सुप्रभा प्रभा । तत्पुत्रोऽपि सुबुद्धिः स्याद् बुद्धिविज्ञानभावकः ॥१८०॥ तथा रूप्यखुरश्चौरो भार्या रूपखुराऽस्य सा । सुवर्णादिखुरः पुत्रस्तयोस्तेजपरायणः ॥ १८१॥ अत्रैव नगरे रम्ये कनकादिसमन्विते । सिद्धाञ्जनादिसद्विद्यः चौरिकातः स जीवति ॥ १८२ ॥ 25 यो ह्यस्मिन्नगरे श्रेष्ठी जिनदत्तोऽभवद्धनी । तत्प्रिया जिनदत्ता च जिनभक्तिपरायणा ॥ १८३॥ अहंदासः सुतः प्रेयाननयोर्गुणशालिनोः । सांप्रतं हि प्रवर्तेऽहं भवद्भार्याऽष्टकान्वितः॥१८४॥ तज्जल्पितमिदं नक्तं त्रयोऽपि तरुसंस्थिताः । कौतुकव्याप्तचेतस्काः शृण्वन्ति प्रमुदान्विताः॥१८५॥ अथ रूपखुरश्चौरो जीवंश्चौरिकया पुरे । रन्त्वा द्यूतं पुनर्याति सदा नृपमहानसम् ॥ १८६ ॥ लोचनद्वयमजित्वा कन्जलेन निजं पुनः । नरेन्द्रेण समं सोऽपि भोजनं कुरुते सदा ॥ १८७ ॥ नरेन्द्रेण समं तस्य भुञ्जानस्य दिने दिने । बभूव दुर्बलो राजा त्वस्थिचर्मावशेषतः ॥ १८८॥ अत्यन्तदुर्बलं दृष्ट्वा नरेन्द्रं सचिवादयः । मायाविनं परिज्ञाय तदुपायं प्रचक्रिरे ॥ १८९॥ भूपभोजनवेलायां विस्तायां प्रयत्नतः । विकीर्यार्कप्रसूनानि नृपभोजनमण्डपे ॥ १९०॥ भूयः कटुकधूमेन भण्डकानि बहून्यपि । खड्गस्थान् पुरुषान् मन्त्री स्थापयामास दिक्षु सः॥१९१॥"
1 पफ युग्मम् , ज युगलम्. 2 पफ युग्मम् , ज युगलम्. 3 प हे. 4 फज शरीराभः. 5 पफज कुलकम्. 6 [तेजःपरायणः]. 7 पफ अहंदासः. 8 फ रत्वा. 9 पफ युग्मम् , ज युगलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org