________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[१३. १२४श्रुत्वा तद्वचनं तेन भाषितं च सुभाषितम् । इदं बुधमनोहारि शब्दार्थपरिपेशलम् ॥ १२४ ॥ येन बीजाः प्रजायन्ते सिच्यन्ते येन पादपाः । तन्मध्येऽहं मरिष्यामि जातं शरणतो भयम् ॥१२५॥ ततः षष्ठदिने तस्य नरेन्द्रस्य पुरः परम् । कथानकमिदं तेन प्रारब्धं गदितुं तदा ॥ १२६ ॥
आरामरक्षिका जाता मर्कटाश्चलचेतसः । सुराया रक्षकाः शौण्डाः स्वप्रयोजनकारिणः ॥ १२७ ॥ 5 वृका भवन्त्यजारक्षाः समस्तवसुधातले । प्रनष्टं मूलतः कार्यं नष्टमेव विदुर्बुधाः ॥ १२८॥
नगरे पाटलीपुत्रे सुभद्रो नाम भूपतिः । नरेण केनचित् पृष्टः कार्यमेतत् कुतूहलात् ॥ १२९ ॥ यथाऽऽरामः सुराजानां नताशेषमहीपतिः । पृथिव्यां कः प्रकर्तव्यो रक्षपालो नराधिपः॥१३० ॥ आराममभिरक्षन्ति मर्कटा यदि सर्वदा । सुराभाण्डं च कल्लाला छेलिका वृकराशयः ॥ १३१॥ ततोऽमीभिः स्फुटं कार्य समस्तमपि भूतले । विनष्टमवगन्तव्यं रक्षपालकदम्बकैः ॥ १३२॥ ॥ सप्तमे च दिने जाते तदानीं दण्डपाशिकः । कथानकमिदं भूयो भूपस्य निजगाद सः॥१३३॥ विनष्टा मूलतो वल्ली यत्तवेष्टं हि तत्कुरु । मातुर्वातारिमूले च दृष्ट्वा वस्त्रं जगौ वधूः ॥ १३४ ॥ अस्ति नित्योत्सवा रम्या श्रीमदुज्जयिनी पुरी । सार्थवाहोऽत्र शुद्धात्मा यशोभद्रो महाधनः ॥१३५॥ खजनन्या समं सोऽपि गृहीत्वा निजवल्लभाः। श्रीमदुजयिनीतोऽरं साथैन सह निर्ययौ ॥१३६॥ भूयोऽपि स गृहं प्राप्तो यशोभद्रो निशामुखे । स्वमातुरुत्तरीयं च ददशैरण्डमूलके ॥ १३७ ॥ 15 दृष्ट्वेदं स पुनः प्राह निजकान्ताः पुरस्थिताः । खेच्छया तिष्ठतात्रैव कोपलोहितलोचनः ॥१३८॥
आख्यानकमिदं प्रोक्तं तलारविनिवेदितम् । रुष्टो जगाद तं राजा भृकुटीभीषणालिकः ॥ १३९ ॥ दिनानि द्वादशार्धानि व्यतिक्रान्तान्यशोभनैः । कथानकैरिदानी च वर्तते सप्तमं दिनम् ॥१४०॥ तेन दुष्टतलार' त्वं चौरमानय मत्पुरः । अन्यथा निग्रहं तेऽद्य करिष्यामि न संशयः ॥ १४१॥
ततस्तद्वचनं श्रुत्वा युवराजपुरो हि सः । मत्रिसामन्तपुत्राणां मिलितानां सभाऽन्तरे ॥ १४२॥ 20 तत्पुरः सहसा मुक्ता तदानीं रत्नपादुके । नखां यज्ञोपवीतं च बभाणेति सभामयम् ॥ १४३॥ यत्र राजा स्वयं चौरः समन्त्री सपुरोहितः । वनं व्रजत सर्वेऽपि जातं शरणतो भयम् ॥ १४४॥ आरक्षकवचः श्रुत्वा सत्यभूतं भुवः स्थले । सुयोधनो नृपोऽन्यायी कूटमन्त्री पुरोहितः ॥१४५॥ ततः समस्तसामन्तैर्युवराजेन वेगतः । अर्धचन्द्रं गले दत्त्वा खदेशादपसारितः ॥ १४६॥
ततः सचिवसामन्ततलवर्गादिपूजितः । चकार विपुलं राज्यं युवराजः स तत्पुरे ॥ १४७॥ 25 अनेन कारणेनार्य मर्यादालङ्घनं तव । कर्तुं न युज्यते गन्तुं महिलामध्यमप्यदः ॥ १४८॥
श्रुत्वा तद्भारती राजा तन्निषिद्धोऽपि तं जगौ । युक्तं न योषितां मध्ये यदि गन्तुं मनागपि ॥१४९॥ किंतु पत्तनमध्ये च यन्मनोनयनप्रियम् । तदहं प्राप्य पश्यामि रूपातिशयकारिणम् ॥ १५०॥" भूयो मत्रिपदं प्राप्य तत्समं निर्ययौ गृहात् । प्राप्तौ पत्तनमध्यं तौ नानातिशयसुन्दरम् ॥१५॥ ततो रूप्यखुरस्तोको नाम्ना वर्णखुरस्तदा । ताभ्यामग्रेसरो याति मन्दं मन्दं खलीलया ॥१५२॥ 30 कौतुकानि विचित्राणि पश्यन्तौ प्रीतमानसौ । तस्यानुमार्गतस्तौ च गच्छतो विस्मयाकुलौ ॥१५॥
श्रेष्ठिवेश्मबहिर्भूतप्राकारान्तस्तरौ घने । सुवर्णखुरनामायं तस्करस्तस्थिवांस्तदा ॥१५४॥ तन्मार्गानुगतः शीघ्रं राजा प्रमुदितोदयः । तस्थौ तदृक्षमूले च सुबुद्धिरपि निश्चलः ॥१५५ ॥ अष्टोपवाससंयुक्तः श्रेष्ठी मुदितमानसः । पुरः स्थिता महारूपा जगाद स्वप्रियाः प्रियाः॥१५६॥ योषितः सितराकायां कार्तिकस्य पुरोद्भवाः । प्रययुः कौमुदी रन्तुं वने नन्दनसंनिभे ॥ १५७॥
____1 [ दुष्टं]. 2 [मुक्त्वा ]. 3 पफज त्रिभिः कुलकम्. 4 पफ युग्मम्, ज युगलम्. 5 पफज कुलकम्. 6 पफ युग्ममू,ज युगलमू, 7 [मन्त्रिवरं].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org