________________
-६३. १२३] अर्हदासकथानकम्
१३९ इयं च घोषणा दत्ता तदानीं पौरवाक्यतः । पुरमध्ये समस्तेऽपि स्तूयमाना जनवजैः॥ ९॥ दारिद्रपीडितो दुःखी लब्धटक्कः कठोरवाक् । गोचरोपपदो दत्तो विप्रो वसति तत्पुरे ॥ ९१॥ तद्भार्या टक्किनी दत्ता तत्पुत्राः सप्त सन्त्यमी । सुदत्तः शिवदत्तोऽपि गङ्गदत्तस्तथाऽपरः ॥ ९२॥ वसुदत्तस्तथा ज्ञेयः सूर्यदत्तो मतः परः । विष्णुदत्तेन्द्रदत्तौ च क्रमेणैते प्रकीर्तिताः ॥ ९३॥ श्रुत्वा तां घोषणां दत्तां तत्पुरे प्रीतमानसा । जगाद स्वपतिं टक्कं दारिद्रोपहतात्मिका ॥ ९४ ॥ पुत्रमेकं प्रदायाशु तरां यद्यपि वल्लभम् । दीनारलक्षमेकं च कान्तेदं परिगृह्यते ॥ ९५॥ निशम्य ब्राह्मणीवाक्यं ब्राह्मणः प्रीतमानसः । बभाण तां धनासक्तां शोभनं गदितं त्वया ॥९६॥ अस्माकं टक्ककानां हि कार्य द्रव्येण सुन्दरि । न पुत्रेणेति पुत्राश्च भविष्यन्त्यपरे ध्रुवम् ॥९७॥ ततः पुत्रं प्रदायैकं धनमानय मे गृहे । दत्ताऽपि घोषणां दधे गत्वा तां धववाक्यतः ॥ ९८॥ तथाऽहं पुत्रमेकं च भवभ्यो वितराम्यरम् । श्रुत्वा तैाह्मणीवाक्यं एवमस्त्विति सोदिता ॥ ९९ ॥ 10 इन्द्रदत्तसुतं दत्त्वा नागरेभ्यो कनिष्ठकम् । वरदत्ताऽपि जग्राह तदा दीनारलक्षकम् ॥ १०॥. अनयाऽवस्थया सोऽपि गृहीतो नागरैः पुनः । पित्रा गलोऽस्य हन्तव्यो मात्रा देयं गरं तथा ॥१०१॥ . जनन्या जनकेनापि नृपपौरजनेन च । नीयमानो हसन् याति हिंसनार्थमयं बटुः ॥ १०२ ॥ तदान्यपुरुषेणायं पृष्टः किं न भयं तव । त्वमद्य नगरद्वारे हन्तव्यो नागरैः सुत ॥ १०३॥ इन्द्रदत्तः समाकर्ण्य तद्वचस्तं जगौ पुनः । बालो मातृभयाद्याति पितरं भयहानये ॥ १०४॥ 1 तथा पितृभयाद्भीतो मातरं याति बालकः । द्वाभ्यामपि भयादाशु भूपतिं च भयापहम् ॥१०५॥ मातुः पितुस्तथा भूपात् त्रिभ्योऽपि भयतः स्फुटम् । महापौरसमूहानां शरणं याति बालकः॥१०६॥ नरनागाधुना यत्र निहन्ति जनको गलम् । सपौरो मां नृपो हन्ति नूनं तत्र न मे भयम् ॥१०७॥" ऐन्द्रदत्तं वचो धीरं जनै राज्ञे निवेदितम् । अमुनाऽयं पुनर्मुक्तो नेदुर्दुन्दुभयो दिवि ॥ १०८॥ इन्द्रदत्ते प्रमुक्तेऽस्मिन् भूभुजा तोषमीयुषा । बभूव गोपुरं तच्च तदानीं स्थिरविग्रहम् ॥१०९॥ 20 कथानकमिदं श्रुत्वा दण्डपाशिकभाषितम् । तस्थौ नराधिपः स्वस्थो मनाग विस्मितमानसः॥११०॥ चतुर्थे दिवसे जाते प्रविष्टो नृपसेवया । तलारो भूभुजा भूयः स्वपुरस्थः प्रभाषितः॥१११॥ त्वया मलिम्लुचो दृष्टो भ्रमता कापि पत्तने । निवेदय तकं शीघ्रं दुराचारं ममाधुना ॥ ११२ ॥ भूपालवचनं श्रुत्वा तलारो निजगावमुम् । महाराज मया क्वापि न दृष्टस्तस्करो विभो ॥ ११३॥ महाजनकृतानन्द समस्तजननन्दन । कथानकमिदं भूयो मदीयं शृणु भूपते ॥ ११४ ॥ 25. सर्व विषं हि पानीयं मरणं क्रूरसंगतम् । खतत्रो भूपतिर्यत्र तत्र वासः सतां कुतः॥११५॥ कथानकमिदं भव्यं सर्वसत्त्वहितावहम् । समस्तलोकविख्यातं बुधकर्णरसायनम् ॥ ११६॥ पञ्चमे वासरे जाते कथानकमिदं पुनः । प्रारब्धं गदितुं तेन तलारेण सभाऽन्तरे ॥ ११७॥ समस्तविषयख्याता जनविस्मयकारिणी । गङ्गा हरति राजेन्द्र शृण्विदं मत्सुभाषितम् ॥ ११८॥ बीजानि येन जायन्ते सिच्यन्ते येन पादपाः । तन्मध्येऽहं मरिष्यामि जातं शरणतो भयम् ॥११९॥ ३॥ पत्तने पाटलीपुत्रे वसुपालो नराधिपः । वसुपूर्वा मतिस्तस्य बभूव वनितोत्तमा ॥ १२० ॥ वसुपालनरेन्द्रस्य शीघ्रकाव्यविधायकः । बभूव मतिसंपन्नो नाम्ना चित्रकविः कविः ॥ १२१ ॥ परिहासं प्रकुर्वद्भिः सभ्यैर्विस्मयमागतैः । मात्सर्येण पुनः शीघ्रं गङ्गायां स निधापितः ॥ १२२ ॥ नीयमानः पुनः सोऽपि गङ्गापूरेण वेगतः । तत्रत्यो वीर्यसंपन्नः पृष्टोऽमीभिः सुभाषितम् ॥१२३॥ ___1 [ दत्ता]. 2 पफ युग्मम् , ज युगलम्. 3 फ सोदिताम्. 4 पफ जनकं. 5 पफज चतुर्भिः कुलकम्. 6 फनन्दनम्. 7 फ वसुपर्वा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org