________________
१३८
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ६३.५६
वृद्धहंसवचः श्रुत्वा परिणामहितं तदा । धार्तराष्ट्र्युवानस्ते' हसित्वेमं जगुः पुनः ॥ ५६ ॥ अहो मरणभीतस्य तव वृद्धस्य सांप्रतम् । बुद्धिर्विनाशमायाता येनैवं भाषसे द्विज' ॥ ५७ ॥ अयं वहयङ्कुरोऽस्माकं सामर्थ्यपरिवर्जितः । बुद्धिपक्षप्रयुक्तानां मृत्युहेतुर्भविष्यति ॥ ५८ ॥ वृद्धहंसः समालापमुपहाससमन्वितम् । श्रुत्वा मौनं समादाय तस्थौ संकुचितात्मकः ॥ ५९ ॥ • ततः कालेन सा वृद्धिं प्राप्य वृक्षं समाश्रिता । तया वल्या समारूढो व्याधो वृक्षाग्रमुन्नतम् ॥ ६० ॥ प्राध्वं कृत्य ततो हंसान् व्याधः सर्वानपि द्रुतम् । भूमौ मुमोच हृष्टात्मा भयवेपितविग्रहान् ॥ ६१ ॥ वृद्धहंसस्य वाक्येन स्थितास्ते निश्चलाङ्गकाः । तावद्यावद् विमुक्तास्ते तेन सर्वेऽपि तत्क्षणम् ॥६२॥ ततः सर्वेऽपि ते हंसा वियदुत्पत्य वेगतः । पलायांचक्रिरे धूर्ता वृद्धहंसोपदेशतः ॥ ६३ ॥ नूनमाख्यानकं राजन् शृण्वन्नहमिदं स्थितः । एवमाज्ञापिते तस्य गतं तत् प्रथमं दिनम् ॥ ६४ ॥ 1. अथान्यदिवसे जाते भूपतिं सदसि स्थितम् । जगाद विस्मितस्वान्तः सेवार्थं दण्डपाशिकः ॥६५॥ दृष्ट्वा पुरःस्थितं राजा तलारं प्राह विस्मितः । दृष्टश्चौरस्त्वया भद्र ब्रूहि तं मम सांप्रतम् ॥ ६६ ॥ श्रुत्वा नराधिपं वाक्यं तलारो निजगावमुम् । न दृष्टस्तस्करो राजन् मयाऽन्वेषणकारिणा ॥६७॥ एकमाख्यानकं ख्यातं कुम्भकारेण मे विभो । आकर्णयन्निदं तत्र स्थितोऽहं नरकुञ्जर ॥ ६८ ॥ येनाहं दीनदुःखिभ्यो जन्तुभ्यः सततं भुवि । भिक्षं ददामि येनालं देवेभ्योऽपि तथा बलिम् ॥ ६९ ॥ पुष्णामि येन चात्यर्थं स्वगृहागतमानवान् । स्वजनानपि संप्रीत्या महास्नेहविधायिनः ॥ ७० ॥ अत्यन्तक्लेशनिर्माणा समानीताऽतिदूरतः । तया पृष्टं तु मे भग्नं जातं शरणतो भयम् ॥ ७१ ॥ मित्रेण केनचित् पृष्टः कुम्भकार सुमेधसा । पृष्टं तु केन भग्नं ते कथयाशु ममाधुना ॥ ७२ ॥ मित्रवाक्यं समाकर्ण्य कुम्भकारो बभाण तम् । जीवामि येन पिण्डेन पृष्टं तेनेह चूर्णितम् ॥ ७३ ॥ सर्वभूतशरण्येश समस्तजनताप्रिय । अस्माभिः श्रुतमेवेदं कुम्भकारवचो नृप ॥ ७४ ॥
15
20
25
तृतीये दिवसे जाते तदाऽसौ दण्डपाशिकः । तत्पुरः प्रीतचेतस्को जगादेदं कथानकम् ॥ ७५ ॥ पिता यस्य गलं हन्ति विषं माता ददाति च । नरेन्द्रो लुम्पति क्षिप्रं शरणं कं प्रयातु सः ॥ ७६ ॥ अत्रास्ति भरतक्षेत्रे पुरं धर्मपुरं वरम् । वरधर्मोऽत्र भूपालो वरधर्मा प्रियाऽस्य च ॥ ७७ ॥ तन्मन्त्री ज्यदेवोऽस्ति जयदेवी प्रियाऽस्य सा । तोषपूरितचेतस्कौ तिष्ठतस्तौ यथोचितम् ॥ ७८ ॥ अन्यदा तौ परिप्राप्तौ परदेशं महाबलौ । रिपुं जेतुं महावीर्यं स्कन्धावारेण भूयसा ॥ ७९ ॥ तं च शत्रुं वशीकृत्य स भूपः स्वल्पवासरैः । आजगाम पुरं शीघ्रं पताकावलिराजितम् ॥ ८० ॥ विशन् स गोपुरद्वारं चित्रचित्रितभीतिकम्' । ददर्श निपतत्तुङ्गं विशीर्णाशेषबन्धकम् ॥ ८१ ॥ निपतद् गोपुरं दृष्ट्वा निवृत्तोऽशकुनं वदन् । वरधर्मो नृपस्तस्थौ तत्रैव नगराद् बहिः ॥ ८२ ॥ उत्थापयति तद्भूपो भूयः पतति मूलतः । विलोक्य निपतद् भूपो मन्त्रिणं प्राह विस्मितः ॥ ८३ ॥ केनोपायेन चोत्तुङ्गं स्थिरं भवति गोपुरम् । सांप्रतं सचिव स्पष्टं ब्रूहि मत्पुरतः शुभम् ॥ ८४ ॥ 30 भूपालवचनं श्रुत्वा मन्त्री तं निजगौ पुनः । महाचिन्ताभरक्रान्तविह्वलीभूतविग्रहम् ॥ ८५ ॥ निहत्य भानुषं चैकं स्वयं प्राकारगोपुरे । क्षतजेन बलिं दत्त्वा तिष्ठतीदं नरेश्वर ॥ ८६ ॥ ततस्तद्वचनं श्रुत्वा वरधर्मनराधिपः । मूकभावं समासाद्य तस्थौ तत्क्षणमात्रकम् ॥ ८७ ॥ अत्रान्तरे परिप्राप्य पौरलोको जगाद तम् । तिष्ठ त्वं मौनमादाय जानीमोऽत्र वयं नृप ॥ ८८ ॥ अस्माकं मानुषं यो हि मारणार्थं ददात्यरम् । तस्मै दीनारलक्षं च दास्यामो वयमादरात् ॥ ८९ ॥
1 फ युवानास्ते. 2 फ द्विजः 3 पफज त्रिकलमिदम्. 4 [ भैक्षं ]. 5 [ भित्तिकम् ]. 6 पफ युग्मम्, ज युगलम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org