________________
-६३. ५५] अर्हद्दासकथानकम्
१३७ सुयोधनो विलोक्येमं पौरलोकं पुरःस्थितम् । क्षेमं भवत्समूहस्य' सर्वकालं महाजन ॥ २५॥ निशम्य भूपतेर्वाक्यं श्रेष्ठिलोको जगावमुम् । आरक्षकप्रसादेन कुशलं सर्वदैव नः ॥२६॥ पौरलोकवचः श्रुत्वा कोपमासाद्य चेतसि । विस्मयव्याप्तचेतस्कस्तदा दध्यौ महीपतिः ॥ २७॥ आरक्षकप्रसादेन श्रेष्ठिनां कुशलं सदा । अस्मत्पादप्रसादेन नैतेषां तत् कदाचन ॥ २८॥ तदानीं चिन्तयित्वेदं मौनमादाय भूपतिः । दिनानि कानिचित्तस्थौ तलारोपरि कोपवान् ॥ २९ ॥ तलारमत्सरेणायं राजा मत्री पुरोहितः । भाण्डारे तत्परीक्षार्थं निशि खातं चखान सः ॥ ३० ॥ आदाय साररत्नानि विधायान्यत्र तानि सः। राजाऽऽहूय तलारं तं तद्वृत्तान्तमभाषत ॥ ३१ ॥ आरक्षिको नृपोक्तेन गत्वा खातमुखं तदा । नखां यज्ञोपवीतं च विलोक्य मणिपादुके ॥३२॥ एतानि त्रीण्यपि क्षिप्रं समादाय सविस्मयः। आरक्षिको भयग्रस्तो जगाम निजमन्दिरम् ॥३३॥ अथारक्षिकमाहूय भूपतिः स्वान्तिकं तदा । बमाण क्रोधरक्ताक्षस्तदा तं पुरतः स्थितम् ॥ ३४ ॥ ॥ अन्येषां वेश्मरत्नानि पासि दुष्ट प्रयत्नतः । मद्गृहं मद्धनं कस्मान्न रक्षसि वदाशु मे ॥ ३५॥ रे दुष्टारक्षिक क्षुद्र यदि सप्तदिनान्तरे । चौरं धनं मदन्तं च समानयसि ते शुभम् ॥ ३६ ॥ अन्यथा तव पापिष्ठ प्रमादासक्तमानसः । करोमि निग्रहं स्वेन करवालेन चारुणा ॥ ३७॥ नरेन्द्रवचनं श्रुत्वा तलारः संभ्रमान्वितः । एवमस्त्विति संभाष्य निर्जगाम तदन्तिकात् ॥ ३८॥ वणिग्जनादिसामीप्यं संप्राप्य पृथुवेपथुः । आरक्षिको जगादैतान् तदा तच्चौरदर्शनम् ॥ ३९ ॥ 15 भवद्भिः स्नेहसंपन्नैः साधुसेवापरायणैः । भवितव्यं ममावश्यं सहायैः करुणापरैः ॥ ४०॥ मत्रिसामन्तपुत्राणां कुमारश्रेष्ठिभूभुजाम् । नखयज्ञोपवीतं च विचित्रमणिपादुके ॥४१॥ दर्शयित्वाऽखिलानेतान् विस्मयव्याप्तचेतसाम् । आरक्षको विशुद्धात्मा जगादेति विचक्षणः ॥४२॥ स्वगृहे चौरिकां कृत्वा खयमेव नराधिपः । कार्य विनाऽधुना हन्तुं मां समिच्छति कोपतः॥४३॥ श्रुत्वा तद्वचनं तेन वदन्तीमं पुरःस्थितम् । सहायास्ते भविष्यामो वयं मा याहि भीतिताम् ॥४४॥2॥ शमं यास्यति यद्येष न स्वयं धरणीपतिः । ततोऽस्य निग्रहं सर्वे करिष्यामो विसंशयम् ॥४५॥ स्थिरान् सर्वान् विधायैष भूपवाक्येन संसदम् । आजगाम विनीतात्मा तलारो विकसन्मुखः ॥४६॥ आरक्षिकं विलोक्यैष भूपतिः प्राह सुस्थितम् । दृष्टश्चौरस्त्वया मूढ वद तं शीघ्रं मेऽधुना ॥४७॥ नरेन्द्रवचनं श्रुत्वा तलारो वदति प्रभुम् । न दृष्टस्तस्करो राजन् भ्राम्यताऽपि मया क्वचित् ॥४८॥ किं पुनः पुरुषश्चैकः पठित्वाशु सुभाषितम् । आख्यानं कथयत्येष शृण्वन्निदमहं स्थितः ॥४९॥ स्थिता वयं चिरं कालं पादपे निरुपद्रवे । मूलात् समुत्थिता वल्ली जातं शरणतो भयम् ॥५०॥ पादस्तम्भो वनस्यान्ते पादपः सरलो महान् । सरोवरसमीपे च स्थितो भाति विभिः कलैः ॥५१॥' निजदेहप्रभाभारभासिताकाशभूतलाः । वसन्ति बहवस्तत्र मन्दस्खानाः कलस्वनाः ॥ ५२ ॥ महातरोरधःस्थं तं सुकुमारं महाप्रभुः । वयङ्कुरं विलोक्यैकं वृद्धहंसो जगावमून् ॥ ५३॥ बहुश्रुतेन युक्तानां वृद्धानां वचनं परम् । भवद्भिः स्थिरचेतोभिः श्रोतव्यं सकलैरिदम् ॥ ५४॥* 30 वल्यङ्गुरमिमं यावदुत्थितं कोमलं द्विजाः । तावच्चञ्चूनखैः शीघ्रं नयामोऽसारतां वरम् ॥५५॥
1 फ भव समूहस्य. 2 फ राजाहूय नलारम्भं. ३ प नखां=मुद्रिकाम्. 4 [°मानस]. 5 पफज त्रिकलमिदम्. 6फ आरक्षको. 7 फसह संपन्नैः. 8 प चतुष्वकुलकम् , फ चतुःकलकमिदम्, ज चतुष्कुलकम्. 9 प युग्मम्,ज युगलम्, फयुगलमिदम. 10 फ स्थितो भाति विभिः कलैः. 11 फ omitsNo.51. 12 फ interchanges Nos. 53 and 54. 13 पज त्रिकलम, फत्रिकलमिदम.
बु० को०१८ Jain Education International For Private & Personal Use Only
www.jainelibrary.org