________________
[६२. ५१
हरिषेणाचार्यकृते बृहत्कथाकोशे दत्त्वाऽभयं नरेन्द्रस्य तदानीं श्रेष्ठिवाक्यतः । सैन्यमुत्थापितं सर्वं देवेन कृतनिस्वनम् ॥५१॥ श्रुत्वाऽतिशयमेतस्य महावैराग्यसंगतः । लक्ष्मी समर्पयामास धनपालः स्वसूनवे ॥५२॥ आपृच्छय सकलान् बन्धून् धनदत्तं च भक्तितः। जिनसेनान्तिके दीक्षां धनपालोऽग्रहीत् तदा ॥५३॥ दृढसूर्यचरो देवो धनदत्तस्य पूजनम् । विधाय कानकैः पदैर्जगाम त्रिदिवं मुदा ॥ ५४॥ ॥ इति श्रीदृढसूर्यचौरशूलिकानिहितपश्चनमस्कारस्मरणमात्र
देवत्वप्राप्तिकथानकमिदम् ॥ ६२॥
६३. अर्हद्दासकथानकम् । अथ चेदं समासेन भेदेनान्येन सजना । आकर्णयत भावेन कथयामि कथानकम् ॥१॥
शूरसेनजनान्तेऽस्ति चोत्तरा मथुरापुरीं । अस्यां नराधिपः श्रीमानुदितोदयनामकः ॥२॥ 10 उदिताऽस्य महादेवी रूपसौभाग्यशालिनी । आसीत् प्रमोदसंपन्नः पुत्रः प्रमुदितोदयः ॥३॥
बभूवास्य नरेन्द्रस्य प्रतापाक्रान्तवैरिणः । सुबुद्धिर्नामतो मत्री महामन्त्रविराजितः ॥४॥ भूपस्यास्य महाश्रेष्ठी जिनदासोऽभवत् प्रियः । अष्टौ तस्य महाभार्या नामानीमानि बिभ्रति ॥५॥ मित्र श्रीरभवत् पूर्वा कुन्दश्रीरपरा मता । विष्णुश्रीविष्णुभार्याभा नागश्रीर्नागिनीव सा ॥६॥
तथा पद्मलता चान्या कनकादिलता परा । विद्युल्लता परा ज्ञेया मता कुन्दलताऽपि च ॥७॥ 15 तथा स्वर्णखुरश्चौरस्तत्पुरे विद्यते महान् । महाचौरिकया सोऽयमहन्यहनि जीवति ॥ ८॥
अन्यदा तिष्ठतामत्र सर्वेषां च यथाक्रमम् । कौमुदीमहिमा प्राप्ता कामिमानसवल्लभा ॥९॥ नूनं कार्तिकमासस्य शुक्लपक्षे समागते । पूर्णिमान्ताऽष्टमीपूर्वा कौमुदीमहिमेरिता ॥१०॥ तत्पुरीप्रमदोद्याने 'समस्तवनिता भृशम् । रमन्ते पूर्णिमां यावन्नरेन्द्रनररक्षिताः ॥११॥ तदानी घोषणा दत्ता भूभुजेयं महादरात् । समस्तभुवनव्यापियशसा नीतिवेदिना ॥ १२ ॥ 20 योषितां रममाणानां मध्यं विशति यो नरः। स वध्यो मे स्वकीयोऽरं भवेद् यद्यपि नन्दनः ॥१३॥ नगराभ्यन्तरे सर्वे तोषपूरितमानसाः । रममाणा महाभूत्या नरास्तिष्ठन्तु केवलाः ॥ १४ ॥ अत्रान्तरे महादेवीविरहे स महीपतिः । जगाद मत्रिणं कामविह्वलीभूतमानसः ॥ १५ ॥ कौमुदीमहिमायां च रममाणाः सुयोषितः । पश्यामि तद्वनं गत्वा कौतुकव्याप्तमानसः ॥ १६ ॥
नरेन्द्रवचनं श्रुत्वा सुबुद्धिः सचिवः पुनः । जगादेमं महाबुद्धिर्भार्यादर्शनकोत्सुकम् ॥ १७ ॥ 2 विधाय घोषणामत्र यदि तन्मध्यमेष्यसि । प्रतिज्ञाभङ्गतो राजन्नकीर्तिस्ते भविष्यति ॥ १८॥
नूनं कृतप्रतिज्ञस्य गुणसंतानवारिधेः । तव राजप्रधानस्य न गन्तुं तत्र युज्यते ॥ १९ ॥ निशम्य मत्रिणो वाक्यं जगादेमं नरेश्वरः । अवश्यमेव गन्तव्यं मया तत्र महामते ॥ २० ॥ भूपालवचनं श्रुत्वा सुबुद्धिर्निजगावमुम् । अथाख्यानं महाराज शृणु त्वं मम सांप्रतम् ॥२१॥ कुरुजङ्गलदेशेऽत्र हस्तिनागपुरं परम् । सुयोधनोऽस्य भूपालो धनदत्ताऽस्य गेहिनी ॥ २२॥ 30 तस्य मत्री सुमित्रोऽस्ति सोमशर्मा पुरोहितः । तलारो यमपाशोऽपि पुरं पाति स सर्वदा ॥ २३॥
अन्यदा भूपतिर्जिष्णुः परदेशात् समाययौ । पौरलोकः समस्तोऽपि नरेन्द्रं द्रष्टुमागतः ॥ २४ ॥
1प adds संपूर्णम्. 2 फ चोत्तरान्मथुरापुरी. 3 अस्या. 4 फ समस्ता. 5 प युग्मम् , ज युगलम्. फ युगलमिदम्. 6पज त्रिभिःकुलकम,फ निकलमिदम्. 7 पर्विजगावमुम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org