________________
-६२. ५०] दृढसूर्यकथानकम्
१३५ धनदत्तवचः श्रुत्वा दृढसूर्यो जगावमुम् । यथा त्वं लघु मे मत्रं देहि प्राणिदयापर ॥ १९॥ श्रावकेन ततस्तस्मै दत्तो मत्रो मुमूर्षवे । ध्यायंस्तं स नमस्कारं दृढसूर्यो मृतिं ययौ ॥ २० ॥ 'दिव्यदुन्दुभिनिर्घोषदिव्यदेवीसमन्विते । दृढसूर्यः सुरो जातः सौधर्मे तत्फलान्महान् ॥ २१॥ दत्त्वा पञ्चनमस्कारं धनदत्तोऽपि दस्यवे । ययौ जिनालयं तुङ्गं नानामुनिसमाकुलम् ॥ २२ ॥ तद्वृत्तान्तं परिज्ञाय धनपालो नराधिपः । निर्धनं कर्तुमारेभे धनदत्तस्य मन्दिरम् ॥ २३ ॥ । दृढसूर्यचरो देवः प्रथमस्वर्गसंभवः । अवधिज्ञानमासाद्य विवेद स्वभवान्तरम् ॥ २४ ॥ धनदत्तोपसर्ग च विदित्वाऽवधिना सुरः । धनपालकृतः क्रुद्धः संप्रापच्छ्रेष्ठिमन्दिरम् ॥ २५ ॥ धनपालनरान् सर्वान् धनदत्तगृहागतान् । मायया पातयामास दृढसूर्यचरः सुरः ॥ २६ ॥ कर्णघ्राणं समादाय कृत्वा मस्तकमुण्डनम् । धनपालान्तिकं देवो नरं प्रहितवानरम् ॥ २७॥ आस्थानमण्डपस्थस्य धनपालस्य भूपतेः । स नरः प्राप्य सामीप्यं भयवेपितविग्रहः ॥ २८॥ ॥ दृष्ट्वाऽमुं भूपतिः प्राह केनेदं विहितं तव । ब्रूहि मे भद्र तं शीघ्रं प्रापयामि यमालयम् ॥ २९ ॥ धनपालनरेन्द्रस्य निशम्य वचनं भटः । जगाद विह्वलस्वान्तस्तं तदा स्खलिताक्षरम् ॥ ३०॥ धनदत्तगृहद्वारे मषीवर्णशरीरकः । गुञ्जाफलसमानाक्षो नरः कोऽपि वितिष्ठते ॥ ३१ ॥ त्वदादिष्टान्नरान् सर्वान् निहत्य लकुटेन च । अवस्थामीदृशीं तेन नीतोऽहं नरकुञ्जर ॥ ३२॥ श्रुत्वा तद्वचनं राजा कोपारुणनिरीक्षणः । चतुरङ्गबलं शीघ्रं तदन्तं स विसृष्टवान् ॥ ३३॥ ॥ आयातमात्रतस्तेन धनपालबलं लघु । दृढसूर्यचरेणेदं देवेन भुवि पातितम् ॥ ३४ ॥ ततो निहतमाकर्ण्य स्वबलं तेन भूपतिः । निजसैन्यसमाजेन संप्रापाशु तदन्तिकम् ॥ ३५ ॥ ततस्तत्क्षणमात्रेण तद्बलं लकुटाहतम् । दृढसूर्यचरो देवः पातयामास भूतले ॥ ३६॥ विलोक्य सकलं सैन्यं हतं विह्वलमानसः । रणात् पलायनं चक्रे धनपालनरेश्वरः ॥ ३७॥ वन्दित्वा श्रेष्ठिनं भूपो जिनायतनमागतम् । भयवेपितसर्वाङ्गो धनदत्तान्तिकं ययौ ॥ ३८॥ ॥ यावद्वदति तद्वार्ता धनदत्तस्य भूपतिः । तावत्तन्मार्गतः प्राप सुरो जिनवरालयम् ॥ ३९ ॥ धनपालनृपं दृष्ट्वा धनदत्ताश्रितं तदा । जगाद श्रेष्ठिनं देवो दष्टदन्तच्छदो रुषा ॥ ४०॥ वणिक्पते द्रुतं मुञ्च भूपतिं त्वत्पुरः स्थितम् । करोमि निग्रहं येन वहस्तेन तवाग्रतः ॥४१॥ निशम्य तद्वचः श्रेष्ठी जगादेमं पुरः स्थितम् । कोऽसि त्वं केन कार्येण कोपमायासि भूपतेः ॥४२॥ श्रेष्ठिवाक्यं समाकर्ण्य बभाण विबुधोऽप्यमुम् । दृढसूर्योऽस्म्यहं चौरः प्रसिद्धो वसुधातले ॥४३॥ 25 गृहमस्य प्रविष्टोऽहं हारमादाय निर्गतः । गृहीतोऽस्मि तलारेण शूलिकायां निवेशितः ॥ ४४ ॥ त्वत्पार्श्वतो मया श्रेष्ठिन् विह्वलीभूतचेतसा । नूनं जिननमस्कारो गृहीतो जललोभतः ॥४५॥ ध्यात्वा पञ्चनमस्कारं पञ्चतां प्राप्य वेगतः । जातो महर्द्धिको देवः सौधर्मे त्वत्समागमात् ॥४६॥ ज्ञात्वा वृत्तान्तमीदृक्षं त्वद्गृहस्य च लुण्टनम् । अनेन भूभुजा कर्तुं प्रारब्धं कोपमीयुषा ॥४७॥ अवधिज्ञानतो ज्ञात्वा भवत्पीडामहं द्रुतम् । आगतस्तां निराकर्तुं त्वद्गुणाकृष्टमानसः॥४८॥ 30 हत्वाऽस्य सकलं सैन्यं प्राप्तोऽमुं हन्तुमीश्वरम् । करोमि निग्रहं तेन मुञ्च श्रेष्ठिन् विकारणम् ॥४९॥" श्रुत्वाऽमरवचः श्रेष्ठी जगादेमं सुविस्मितः । मुञ्चेमं" मत्पतिं साधो मद्वात्सल्यं कृतं त्वया ॥५०॥
1फ निर्घोषे. 2 फalone has this verse. 3 [प्राप]. 4 फ तदस्खलि. 5 पज त्रिभिः कुलकम्, फत्रिकलम, 6 फज विदित्वा. 7 फ loses the second line of No.40 and the first line of No. 41. 8 पज निग्रहस्तेन. 9 फ मुञ्चन्. 10 पज कुलकम् , फ कुलकमिदम, 11 फ मुञ्च मे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org