________________
१३४ हरिषेणाचार्यकृते बृहत्कथाकोशे
[६१.६१अणिमा लघिमा प्राप्तिर्वशित्वं कामरूपिता । प्रागम्यमीशिता' वीर्यं लब्धयोऽष्टौ प्रकीर्तिताः॥६॥ जललब्धिमता चार्वी तथाऽन्या तन्तुजङ्घयोः । बीजपुष्पफलाकाशश्रेणिलब्धिमता परा ॥ ६२ ॥ 'स्वखरूपफलावाप्तिविधानकरणक्षमाः । कीर्तिताः कोविदैरेताश्चाष्टौ चारणलब्धयः ॥ ६३ ॥
आमखेलौषधिर्दिव्यामलजल्लौषधिस्तथा । सौषधिरिमाः पञ्च लब्धयः परिकीर्तिताः ॥ ६४ ॥ 5 अमृतक्षीरयोलब्धिस्तथा च मधुसर्पिषोः । एताश्चतस्र उद्दिष्टाः कोविद रसलब्धयः ॥६५॥
औषधस्य क्षीणता 'लब्धिराहाराक्षीणतस्तथा । लब्धिद्वयमिदं प्रोक्तमक्षीणादिमहानसम् ॥६६॥ एताभिर्लब्धिभिर्युक्तः श्रामण्यं परिपाल्य च । धर्मादिनगरासन्ने कुमारगिरिमस्तके ॥ ६७ ॥ शतैः पञ्चभिरायुक्तो मुनीनां धर्मशालिनाम् । आराधनां समाराध्य यमः साधुर्दिवं ययौ ॥ ६८॥ ॥ इति श्रीखण्डश्लोकत्रयस्वाध्यायसंसक्तयममुनिवर्ग
लोकगमनकथानकमिदम् ॥ ६१॥
६२. दृढसूर्यकथानकम् । अथावन्तीमहादेशे श्रीमदुज्जयिनी पुरी । अस्यां बभूव भूपालो धनपालः प्रतापवान् ॥ १॥ कान्ता धनमती तस्य तन्मनोनयनप्रिया । आसीदुत्तुङ्गवक्षोजा विषाणदललोचना ॥२॥
अस्सैव भूपतेः श्रेष्ठी धनदत्तोऽभवद्धनी । धनदत्ताऽस्य सद्भायों रूपराजितविग्रहा ॥३॥ । तत्रैव नगरे चौरो दृढसूर्योऽभवन्महान् । भार्या वसन्तसेनाऽस्य पण्यस्त्री मनसः प्रिया ॥४॥
उद्यानवनमायान्त्या धनमत्या मनोहरम् । हारं विलोक्य सा जाता दुःखिनी तदलाभतः ॥५॥ ततो विलोक्य तां भार्यां दृढसूर्यो जगाद सः।देवि किं दुःखिता जाता किं वा ध्यायसि दुर्मनाः ॥६॥ दृढसूर्यवचः श्रुत्वा तत्प्रिया निजगावमुम् । हारदर्शनमूढात्मा म्लानवक्रसरोरुहा ॥७॥ दत्से हारं न मे कान्त धनमत्या यदि प्रभो । ततोऽहमद्य" यास्यामि पञ्चतां नियतं द्रुतम् ॥८॥ 20 निशम्य तद्वचः सोऽपि शोकिनी तां जगौ पुनः। भद्रे मा दुःखिनी भूया हारं ते वितराम्यरम् ॥९॥ एवं निगद्य तां कान्तां नक्तं तद्वासमन्दिरम् । दृढसूर्यो विवेशाशु तत्प्रभोद्योतिताम्बरम् ॥१०॥ मणिहारं समादाय निर्गच्छंस्तद्गृहान्तरात्" । गृहीतो यमपाशेन" तलारेण स तस्करः ॥ ११॥ ततः प्रभातकाले च शूलिकायां निवेशितः । यमपाशेन तेनाशु दृढसूर्यों वितिष्ठते ॥ १२ ॥
अन्यदा धनदत्तोऽपि वन्दित्वा जिनपुङ्गवम् । आगच्छन् दृढसूर्येण दृष्टोऽयमिति भाषितः ॥१३॥ 25 श्रावकोऽसि कुलीनोऽसि दयावानसि सजन । तेन त्वं मां जलं शीघ्रं धनदत्त प्रपाय भो ॥१४॥
शूलस्थदृढसूर्यस्य तृषाविह्वलचेतसः । निशम्य वचनं श्रेष्ठी बभाणेति तकं पुनः॥१५॥ कुर्वाणेन गुरोः सेवां सर्वसत्त्वानुकम्पिनः । मया द्वादशभिर्वमंत्रो लब्धो महानयम् ॥ १६ ॥ गच्छतो जलमानेतुं त्वदर्थं मम शोभन । विस्मृतिं याति मत्रोऽयं द्वादशाष्टप्रशिक्षितः ॥१७॥ मदीयं धरसे" मत्रं कण्ठस्थं यदि भावतः । ततोऽहं शीतलं तोयं भवन्तं पाययाम्यरम् ॥१८॥"
___1[प्राकाम्य]. 2 पवाप्तिर्वि. 3 प‘जलौषधि. 4 फ अषध्य, ज ऊषधस्य. 5 फ राहार. 6 [औषध्यक्षीणतालब्धिराहाराक्षीणता तथा ]. 7 फज omit इति श्री. 8 प adds संपूर्णम. 9 प वनमायाता. 10 फ दुर्मता. 11 फ ततोहमथ. 12 प युग्मम् , ज युगलम्, फयुगलमिदम्. 13 पज तत्प्रभाज्योतिताम्बरम्. 14 फहान्तरम्. 15 फ यमपालेन. 16 [द्वादशाब्दप्रशिक्षितः]. 17 फ चरमे. 18 पज चतुःकुलकम् , फ चतुष्कलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org