________________
-६१. ६० ] यममुनिकथानकम्
१३३ विषाणनालशीताङ्गसंध्यायां मा व्रज क्वचित् । बुभुक्षाग्रस्तचेतस्काहीर्घात्ते दृश्यते भयम् ॥३०॥ भूयः श्लोकत्रयेणायं स्वाध्यायादिक्रियाः सश । करोति भक्तिसंपन्नो यमयोगी दिवानिशम् ॥३१॥ ततो व्रजन्नसौ भूयो ग्रामस्यान्ते मनोहरे । शिलाबद्धमहावापीसोपानेषु वरेषु च ॥ ३२॥ निम्नगर्तान् विलोक्यैष योषितं पुरतः स्थिताम् । घटद्वयसमायुक्तां पप्रच्छेति कुतूहली ॥ ३३॥ किमर्थं कोणिका गर्ता वर्तुलाः श्रेणिसंस्थिताः । दृश्यन्ते ब्रूत मे शीघ्रं वापीसोपानपतिषु ॥३४॥ मुनिवाक्यं समाकर्ण्य वक्रतापरिवर्जितम् । जगाद तं मुनि मुग्धं कौतुकेन विलासिनी ॥ ३५॥ जलपूर्णैः कुटैस्तुङ्गैः क्रियमाणैर्वधूजनैः । गर्ताः शिलासु संजाताः कालेन बहुना मुने ॥ ३६॥ श्रुत्वा तद्वचनं योगी कौतुकव्याप्तमानसः । पापठीति परं श्लोकं संगतार्थमिमं पुनः ॥ ३७॥ तिष्ठता गच्छताऽन्येन मृदुना कठिनोऽपि च । भिन्नो ग्रावाऽपि कालेन नित्यस्थेन घटेन सः॥३८॥ एवमुक्त्वा पुनः साधुर्दध्यौ विस्मितमानसः । शिलाया नूनमेतस्याः किं कर्णौ कठिनौ मम ॥३९॥" येनाहं स्वगुरुं हित्वा बन्धमोक्षप्रकाशकम् । अपुष्टधर्मतायोग्यां श्रितश्चैकविहारिताम् ॥ ४०॥ चिन्तयित्वा चिरं साधुरागच्छन् गुरुसंनिधिम् । धर्मपत्तनसामीप्ये तस्थौ तरुसमाकुले ॥४१॥ दृष्ट्वा यममुनिं नक्तं तद्वने दीर्घगर्दभौ । अमुं हन्तुं समायातौ खड्गमादाय भीषणम् ॥ ४२॥ यावन्मुनिमिमं हन्तुं खङ्गेनायं समुद्यतः । तावन्मुनिवधाद् भीतः खड्ग कोशे मुमोच सः॥४३॥ एवं हि गर्दभस्यापि कुर्वाणस्य विचेष्टितम् । स्वाध्यायं मुनिरादाय श्लोकखण्डं पठत्यरम् ॥ ४४ ॥ आकर्षन्तौ प्रकर्षन्तौ स्वमतं क्रूरमानसौ । भूयोऽपि गर्दभो' दीर्घ जगाद पुरतः स्थितम् ॥४५॥ मुनिनाऽत्र परिज्ञाता वाऽऽवां दीर्घ महामते । परस्परं समालोक्य तस्थतुस्तौ विशङ्कितौ ॥४६॥ मूकभावं समासाद्य दीर्घगर्दभयोस्तयोः । स्थितयोः साधुरप्येष श्लोकखण्डं पठत्यलम् ॥ ४७॥ आधावन्तौ प्रधावन्तौ किंचिदेतौ समीपगौ । भूयोऽपि गर्दभो दीर्घ प्राहेदं भयवेपितः ॥४८॥ यत्त्वया गदितो दीर्घ यथायं मुनिरागतः। आवयोमरणं कृत्वा तव राज्यं ग्रहीष्यति ॥ ४९ ॥॥ मदीयराज्यकार्येण दीर्घ नायं समागतः । मत्स्वसुः कोणिकाया हि ज्ञापनार्थ समाययौ ॥५०॥ तूष्णीभावमुपाश्रित्य स्थितस्यास्य यतीश्वरः । श्लोकखण्डं तृतीयं च पपाठ पुनरप्ययम् ॥ ५१॥ मृणालनालशीताङ्ग नक्तं मा याहि ददुरे । श्लोकखण्डमिदं मौनं श्रुत्वा दध्यौ स गर्दभः ॥५२॥ कुमत्रिणमिमं धूर्त दीर्घनामानमुद्धतम् । स्वकार्याकुशलं" क्रूर वञ्चकं वेभि सर्वदा ॥ ५३॥ उपकारशतेनापि गृह्यते न परः क्वचित् । सुगृहीतः सुमान्यो वा यः परः पर एव सः॥ ५४॥ 25 अनयाऽवस्थया साधुः पुत्रस्नेहपरायणः । शिक्षा दातुं समायातः पितुः पुत्रो हि वल्लभः ॥५५॥" चिन्तयित्वा चिरं साधुदीर्घेण सह गर्दभः । जगाम मुनिसामीप्यं पितृभक्तिसमन्वितः ॥५६॥ विधाय बन्दनामस्य भक्तितोऽपि क्षमापणम् । जिनधर्म समादाय सदीर्घः स्वगृहं ययौ ॥ ५७॥ यमयोगी परिप्राप्य गुरुसामीप्यमादरात् । घोरं तपश्चकारेदं विविधर्द्धिसमन्वितः ॥ ५८॥ “पादानुसारिणी बुद्धिः कोष्ठबुद्धिस्तथैव च । संभिन्नश्रोत्रिकाद्या हि बुद्धयः परिकीर्तिताः ॥५९॥ ॥ उग्रं तपस्तथा दीप्तं तपस्तप्तं महातपः । घोरादीनि विजानन्तु तपांसीमानि कोविदः ॥ ६ ॥
1फ omits portions and gives one verse for Nos. 29-30. 2 फ कुतूहलीम्. 3 पज त्रिकलम् , फ त्रिकलमिदम्. 4 [ ह्रियमाणे ]. 5 प युग्मम् , ज युगलम् , फ युगलमिदम्. 6 फ यो नाहं. 7 फ गर्दभं. 8 फ दीर्घ. 9 पज स्तोकषण्डं. 10 फ दुर्द्धरः. 11 फ खकालकुशलं. 12 पज शिष्या. 13 प चतुष्कलकमिदम.फ चतुष्कलमिदम्, ज चतुःकुलकमिदम्. 14 [पदानु]. 15फ कोविदेः, कोविदाः].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org