________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
६१. यममुनिकथानकम् ।
अथोण्ड्रविषये' चापि पुरं धर्मपुरं नृपः । यमस्तत्रास्य भार्याऽपि धनदोपपदा मतिः ॥ १ ॥ तत्पुत्रो गर्दभो नाम तनया कोणिका तथा । अस्या नैमित्तिकेनायमादेशो विहितः स्फुटम् ॥ २ ॥ सुकुमारामिमां कन्यां यो नरः परिणेष्यति । स महीमण्डलं सर्वं निरातङ्कः प्रभोक्ष्यति ॥ ३ ॥ तदादेशमिमं ज्ञात्वा भूपतिः कोणिकामिमाम् । भूमिगृहेऽपरिज्ञातां स्थापयामास केनचित् ॥ ४ ॥ अन्यासामपि पत्नीनां भूपस्यास्य महात्विषाम् । शतानि पञ्च पुत्राणां सन्ति रूपादिशालिनाम् ॥५॥ तस्यैव भूपतेर्मन्त्री दीर्घको नाम विश्रुतः । राजाऽयं लौकिकादीनि वेत्ति शास्त्राण्यखण्डितम् ॥६॥ राजा 'ज्ञानमदाविष्टो यमो वा स्खलिताज्ञकः । उग्रतेजास्तरां भूत्वा स नरेन्द्रोऽवतिष्ठते ॥ ७ ॥ एवं हि तिष्ठतस्तस्य नरेन्द्रस्य स्वपत्तने । कृतान्तसमशीलस्य साधितारातिसंततेः ॥ ८ ॥ 10 अन्यदा विहरन् क्वापि शिष्यपञ्चशतावृतः । धर्माख्यपुरसामीप्यं सुधर्मा मुनिराययौ ॥ ९ ॥ ततस्तं योगिनं ज्ञात्वा श्रावकाणां गणास्तदा । वितानध्वजमादाय तत्पूजार्थं समाययुः ॥ १० ॥ तद्वृत्तान्तं परिज्ञाय भूपतिर्गर्वसंयुतः । मुनिनिन्दां प्रकुर्वाणो याति साधुसमीपकम् ॥ ११ ॥ एवं हि गच्छतस्तस्य मुनिनिन्दाविधायिनः । ज्ञानं बुद्ध्या समं नष्टं तदानीं तत्क्षणेन च ॥१२॥ एतस्मिन् सकले नष्टे गर्वहीनो नराधिपः । मुनिपार्श्वं स संप्राप्य भक्तिहृष्टतनूरुहः ॥ १३ ॥ is त्रिःपरीत्य ततः साधुं वन्दित्वा भक्तितत्परः । धर्मं शुश्राव जैनेन्द्रं भूपतिः सन्मनोहरम् ॥ १४ ॥ आहूय गर्दभाभिख्यं पुत्रं प्राप्तं स भूपतिः । राज्यपठ्ठे बबन्धास्य समस्तनृपसाक्षिकम् ॥ १५ ॥ शैतैः पञ्चभिरायुक्तः स्वपुत्राणां नृपैः सह । अन्यैः सुधर्मसामीप्ये राजेन्द्रः स तपोऽग्रहीत् ॥१६॥ एवं प्रव्रजिते तस्मिंस्तत्पुत्रा नृपकुञ्जराः । ग्रन्थार्थपारगाः सर्वे बभूवुः स्वल्पकालतः ॥ १७ ॥ क्रियायां क्रियमाणायामुत्थानं च निवेशनम् । विहायान्यं न जानाति यमयोगी कदाचन ॥१८॥ 20 ततो वैराग्यमासाद्य ज्ञानाभ्यासविवर्जितः । संघमध्ये च किं कार्यं तिष्ठामि क्षणमप्यहम् ॥१९॥ एवं विचिन्त्य संप्राप्य गुरुं पृष्ट्वा पुनःपुनः । पूर्वदेशं जगामायमेकाकी विहरन् मुनिः ॥ २० ॥ यमयोगी व्रजन् मार्गे गर्दभस्यन्दनं' स्थितम् । यवमध्येऽभिगच्छन्तं नरमेकं ददर्श सः ॥ २१ ॥ भक्षयन्तौ यवं बाढं हन्यमानौ नरेण तौ । गच्छन्तौ मार्गतो मन्दमाकर्षन्तौ दिशो दश ॥ २२ ॥ यमयोगी विलोक्यायं गर्दभौ क्षेत्रमध्यगौ । खण्डश्लोकमिमं दिव्यमेकं पठति विस्मितः ॥ २३ ॥ तरामाकर्षणोऽसि त्वं भूयोऽपि प्रतिकर्षणः । लक्षितस्ते " मया भावो यवं गर्दभ याचसे ॥ २४ ॥ स्तौति देवक्रियां कुर्यात् स्वाध्यायादिकमेव सः । यमसाधुः परं हृष्टः लोकेनानेन सर्वदा ॥ २५ ॥ अन्यदा पथि गच्छन् सन् रममाणान् कुमारकान् । दृष्ट्वा कौणिकया भूयः " श्लोकखण्डं पठत्यरम् ॥ २६ ॥ आधावन्तः प्रधावन्तः संधावन्तो मतं मया । मन्दबुद्धिसमायुक्ताश्छिद्रे पश्यत कोणिकाम्" ॥२७॥ श्लोकद्वयेन चान्येन भक्तिनिर्भरमानसः । वन्दनादिक्रियाः सर्वाः करोत्येष विशुद्धधीः ॥ २८ ॥ ° ततो गच्छन् हरिं दृष्ट्वा संध्यायां यान्तमेव सः । यमसाधुः प्रयत्नेन श्लोकार्थं पठति स्फुटम् ॥२९॥
25
5
१३२
numbering of the last chapter 6 Second line missing in फ. युगलम् फ युगलमिदम् 10 प लखितं
1फ अथेन्द्रविषये, [ अथोड़ विषये ]. 2 Upto verse No. 8 below, फ continues the फ महाज्ञानमहाविष्टो 5 फ तिष्ठति. फ दिशो दिशः. 9 प युग्मम्, ज 12 फ पश्यति कोणकम्.
3 फज प्रभोक्ष्यते 4 7फ गर्दभं स्यन्दने. 8 11 पज कोणिकया भूपः.
Jain Education International
[ ६१.१
For Private & Personal Use Only
www.jainelibrary.org