________________
-६०. १७३]
सुभगगोपालकथानकम् एवमुक्त्वा तकां शीघ्रं देवदत्ता खचेटिकाम् । प्रजिघाय मुनेरन्तं प्राप्येमं वदति स्म सा ॥१४५॥ मगृहे भोजनं साधो कुर्वद्य त्वं यतीश्वर । तद्वाक्यतः पुनर्योगी देवदत्तागृहं ययौ ॥ १४६ ॥ कपाटद्वितयं दत्त्वा गृहं विष्टस्य योगिनः । देवदत्तोपसर्ग च चकार दिवसत्रयम् ॥ १४७॥ तदा काष्ठमयः किं वा लेपकर्ममयोऽपि वा । 'सुदर्शनो मुनिस्तस्थौ सुसमाहितमानसः ॥१४८॥ तदानीं देवदत्ताया हावभावविलासतः। विभ्रमेण न तस्यासीञ्चित्तक्षोभो मनागपि ॥१४९॥ स्थिरचित्तं मुनि ज्ञात्वा गम्भीरं गुणसागरम् । देवदत्ता भयग्रस्ता निनिन्द स्खदुरीहितम् ॥१५०॥ देवदत्ता मुनिं नीत्वा श्मशानं रजनीमुखे । आजगाम निजं गेहं प्रम्लानमुखपङ्कजा ॥१५१ ॥ ततः सुदर्शनो योगी श्मशाने दरदायिनि । सर्वाहारं परित्यज्य तस्थौ प्रतिमया निशि ॥ १५२॥ तत्राभयमहादेवी व्यन्तरी तं सुदर्शनम् । परिज्ञायोपसर्ग सा चकार दिनसप्तकम् ॥ १५३॥ ततः सप्तदिनान्ते च सुदर्शनमहामुनेः । घातिक्षयात् समुत्पन्नं केवलं सर्वभासनम् ॥ १५४॥ 10 एवं सति समुत्पन्ने तीर्थेशस्य जिनेशिनः । यथाऽसौ प्रातिहार्याणि चतुस्त्रिंशद्गुणास्तथा ॥१५५॥ सर्वमस्यैव वक्तव्यं केवलामलयोगिनः । सुदर्शनमुनीन्द्रस्य सुरासुरनतस्य च ॥ १५६ ॥ छत्रत्रयं समुत्तुङ्गं प्राकारो हरिविष्टरम् । मुण्डकेवलिनो नास्ति सरणं समवादिकम् ॥ १५७॥ छत्रमेकं शशिच्छायं भद्रपीठं मनोहरम् । मुण्डकेवलिनो नूनं द्वयमेतत् प्रजायते ॥ १५८॥ द्वादशापि गणा ज्ञेयाः सन्ति सामान्यगोचराः । मुण्डकेवलिनः सर्वं यथासंभवतो भवेत् ॥१५९॥ is केवले सति संजाते लोकालोकप्रकाशने । सुदर्शनमुनेभूतं देवागमनमुत्तमम् ॥ १६० ॥ अत्रान्तरे महाभक्तिर्देवदत्ता सधात्रिका । व्यन्तरी पौरलोकोऽपि ययौ केवलिनोऽन्तिके ॥ १६॥ अथ देवादिलोकानां स्थितानां च यथाऽऽसनम् । धर्म जगाद योगीन्द्रः केवलामललोचनः॥१६२॥ धर्मेण रूपसंपत्तिधर्मेण कुलसंभवः । धर्मेण धनसंपत्तिधर्मेण विमलं यशः ॥ १६३॥ चिन्तामणिसमो धर्मो धर्मः कामदुधासमः। धर्मः समस्तजन्तूनां वशीकरणमुत्तमम् ॥ १६४ ॥ मनुष्यत्वं परिप्राप्य धर्म ना न करोति यः । स निधिं वीक्ष्य संजातो लोचनाभ्यां विवर्जितः॥१६५॥ पापेन नरके जन्म तथा तिर्यग्गतावपि । जायते देहिनां नित्यं भ्रमतां सततं भवेत् ॥ १६६ ॥ दानेन भोगसंपत्तिस्तपसा स्वर्गसंभवः । ज्ञानेन च भवेन्मोक्षः सर्वकर्मक्षयात्मकः ॥ १६७ ॥ श्रुत्वा केवलिनो वाक्यं व्यन्तरी पूर्ववर्णिता । गणिका देवदत्ता च तथा पण्डितधात्रिका ॥१६८॥ एवमादिजना हृष्टा धर्मश्रवणकारणात् । जगृहुः श्रावकं धर्म सम्यक्त्वं च सुभक्तितः ॥ १६९ ॥ 25 केचित् संसारतस्त्रस्ता हित्वा सर्वं परिग्रहम् । वपुत्रेभ्यः श्रियं दत्त्वा व्रतं दैगम्बरं दधुः॥१७०॥ विहृत्य केवलज्ञानविहारेण सुदर्शनः । निहत्याशेषकर्माणि निर्वाणमगमन्मुनिः ॥ १७१॥ सुदर्शनमुनीन्द्रेण सुभगत्वं भवान्तरे । लब्धं जिननमस्कारफलेन परमं पदम् ॥ १७२॥
तथा चोक्तम्साथेनापि" नमस्कारं यः करोति जिनेश्वरे"।
स निस्तरति संसारं किं पुनः परमार्थतः ॥ १७३ ।। ॥ इति श्रीजिननमस्कारसमन्वितसुभगगोपालकथानकमिदम् ॥६०॥
1फ मनेरन्तुं. 2 पज त्रिकलम् , फ त्रिकलमिदम्. 3 पज द्वितीयं. 4फ सुदर्शनमुनि. 5 पज 'क्षोभं. 6 पज शरणं. 7 फ मुन्नतम्. 8 फ संनिधिं. 9 प नारके. 10 पज विहृत्य-विहारकर्म कृत्वा. 11फ साव्येनापि, ज सापेनापि, पज (=युगपत्पठति), [सार्थेनापि]. 124जिनेश्वरम्. 13 फज omit इति. 14 प adds समाप्तम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org