________________
१३०
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ६०. ११४
सुदर्शनो विधायेमां प्रतिज्ञां मेरुनिश्चलः । श्यामायां निश्चलस्तस्थौ तत्रेमं चिन्तयन् जिनम् ॥११४॥ अभयादिमहादेव्या देवीरूपसमानया । क्षोभं तथाऽपि नो नीतस्तदा श्रेष्ठी सुदर्शनः ॥ ११५ ॥ पाटयित्वा नखैरेषा खशरीरं निरन्तरम् । विकीर्य केशभारं च कामाकुलितमानसा ॥ ११६ ॥ भुक्ताऽहं श्रेष्ठिना नूनमनिच्छन्ती हठादरम् । आगच्छत जनास्तुङ्गं महारावं चकार सा ॥११७॥ • महादेवीवचः श्रुत्वा राजा रुष्टो जगौ जनान् । एतस्य मस्तकच्छेदं कुरुताशु श्मशानके ॥११८॥ नीत्वा पितृवनं तं ते 'खङ्गेनाहन्तुमुद्यताः । पुष्पमाला बभूवैषा खड्गयष्टिर्गलेऽस्य सा ॥ ११९ ॥ दृष्ट्वा विस्मयमीदृक्षं नभस्स्थाः सुरपुङ्गवाः । अहो सौदर्शनं शीलं साधुवादान् प्रचक्रिरे ॥ १२० ॥ एवं निगद्य ते देवा नानावर्णैः समुज्वलैः । पुष्पैः सुगन्धिभिः पूजां चक्रुरस्य प्रमोदिनः ॥ प्रातिहार्यं विलोक्यास्य दन्तिवाहनभूपतिः । नानाजनसमूहेन समं प्राप तदन्तिकम् ॥ १२२ ॥ 10 प्रदक्षिणं विधायास्य क्षमणं च मुहुर्मुहुः । सपर्यां कानकैः कर्जगादेमं महीपतिः ॥ १२३ ॥ अर्धराज्यं गृहाण त्वं मदीयं हि सुदर्शन । भुञ्जानो विपुलान् भोगान् पुरे तिष्ठ यथेप्सया ॥ १२४॥ दन्तिवाहनभूपस्य निशम्य वचनं तदा । सुदर्शनो जगादेमं नानाजनसमन्वितम् ॥ १२५ ॥
१२१ ॥
राज्य मे कार्यं भोगेनापि नरेश्वर । भोगो' राज्यं महादुःखं संसारपरिवर्धनम् ॥ १२६ ॥ मानिनां हतदर्पाणां धरालाभेन किं सुखम् । जीवितं मानहेतुः स्यान्माने नष्टे सुखं च न ॥१२७॥ तथा चोक्तम्मानिनो हतदर्पस्य लाभोऽपि न सुखायते ।
जीवितं मानमूलं हि माने म्लाने कुतः सुखम् ॥ १२८ ॥
उपसर्गो हि राजेन्द्र त्वयाऽयं न कृतो मम । कर्मभिः प्राक्तनैरेष विहितोऽशुभकारणैः ॥ १२९ ॥ ' सुदर्शनो वदत्येवं यावत् सह नरेशिना । तावत् सूरिः समायातो नाम्ना विमलवाहनः ॥ १३० ॥ 20 हित्वा परिग्रहं सर्वं कृत्वा भूपक्षमापणम् । सुदर्शनो जगामाशु समीपं योगिनोऽस्य सः ॥ १३१ ॥ ' त्रिः परीत्य तमीशानं वन्दित्वा च पुनः पुनः । सुदर्शनो ययाचेमं दीक्षां संसारभीलुकः ॥ १३२ ॥ निशम्य तद्वचः कान्तं ज्ञात्वा निश्चयमीदृशम् । ददौ दैगम्बरीं दीक्षां तस्मै विमलवाहनः ॥ १३३॥ ततोऽभयमहादेवी प्रातिहार्यं सुरेशिना । पूजनं दीक्षणं चास्य विदित्वा जनवाक्यतः ॥ १३४ ॥ भयवेपितसर्वाङ्गी "कृत्वोल्लम्बनमात्मनः । मृत्वैवं पाटलीपुत्रे बभूव व्यन्तरी पुनः ॥ १३५ ॥ 25 तथा पण्डितधात्री च नरेन्द्रभयविह्वला | चम्पापुरवराच्छीघ्रं ययौ पाटलिपुत्रकम् ॥ १३६ ॥ समस्तगणिकानां च समस्तपुरयोषिताम् । आत्मदेशपरित्यागं सुदर्शनकथां तथा ॥ १३७ ॥ आत्मनिन्दनसंसक्ता कथयन्ती दिने दिने । गणिका देवदत्ताख्या तगृहे साऽवतिष्ठते ॥ १३८ ॥ * लोकोऽपि विस्मितस्वान्तस्तद्वार्ता हितचेतनः । सुदर्शनमुनिं द्रष्टुमिच्छन् हृष्टोऽवतिष्ठते ॥ १३९ ॥ अन्यदा विहरन् क्वापि सुदर्शनमुनीश्वरः । आजगाम सुधीरात्मा पुरं पाटलिपुत्रकम् ॥ १४० ॥ बहूपवास खिन्नाङ्गमस्थिचर्मावशेषकम् । व्रजन्तं राजमार्गेण चर्यार्थं हि सुदर्शनम् ॥ १४१ ॥ दृष्ट्वा पण्डितधात्रीमं देवदत्तां जगाद सा । यन्निमित्तादहं नष्टा तं साधुं पश्य सुन्दरि ॥ १४२ ॥ " धात्रिकावाक्यमाकर्ण्य देवदत्ता जगाविमाम् । न चाभयमहादेवी कपिला कामकोविदा ॥१४३॥ कामशास्त्रविनिर्माणा नरमानसलक्षिका । पश्य पश्य मुनेरस्य चित्तक्षोभं करोम्यहम् ॥ १४४ ॥
14
15
36
1 फ तत्रेशं. 2 प भुक्त्वाहं. 3 प युग्मम्, ज युगलम् फ युगलमिदम्. 4 प खङ्गेन हन्तु . 5 फ भोग्ये. 6 प युग्मम्, ज युगलमिदम्, फ चतुष्कलमिदम्. 7फ adds No. 130 once more afterNo. 131. 8 फ ययाचेमां. 9 [भीरुकः ]. 10 प कृत्वो हुञ्छन, फ कृतोल्लंघन, पज ( = फासि ) 11 प युग्मम्, ज युगलम्, फ युगलमिदम्. 12 फज सा वितिष्ठते 14 फ धातृका
13 प युग्मम् ज युगलम् फ युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org