________________
-६०. ११३ ]
सुभगगोपालकथानकम् योऽणुव्रतादिसंयुक्तः सम्यग्दर्शनभावितः । पुण्यपापविचारज्ञो हिताहितविवेकधीः ॥ ८२॥ सागरो वाऽतिगम्भीरो मेरुवा कम्पवर्जितः । क्षमेव क्षान्तिसंपन्नो नभो वाऽमलविग्रहः ॥ ८३॥ पररामाकथां लोकैः क्रियमाणामपि स्फुटम् । कर्णाभ्यां नेच्छति श्रोतुं मनोवाक्कायकर्मभिः ॥८४॥ कामभोगांस्त्वया सार्धं गुणी भुङ्क्ते विशुद्धधीः । कथं चानीयते सोऽत्र मया तन्वि त्वदन्तिकम्।।८५॥ धात्रीवचनमाकर्ण्य महादेवी जगावमूम् । कपिलायाः पुरः प्रोक्ता प्रतिज्ञेयं महासखि ॥ ८६॥ 5 यदि नालिझ्यते सोऽयं काम्यते वा मयाऽऽलि न । ततोऽहं पञ्चतावाप्तिं यास्यामि नियतं द्रुतम्।।८७॥ ततो धात्री जगादैतां विज्ञातपरमार्थिका । उपायो विद्यते चायं तदागमनकारणे ॥ ८८॥ नक्तं प्रतिमया सोऽयं पर्वणि स्थिरमानसः । तिष्ठन्नानीयते तस्मादुपायो नापरः परम् ॥ ८९ ॥ ततोऽभयमहादेवी धात्रिकां तां जगौ पुनः । यत्ते प्रयोजनं चित्ते स्थितं तन्नोऽपि सुन्दरि ॥९॥ ततः कौलालमासाद्य भवनं धात्रिका तदा । तत्करात् कारयामास सप्त मृत्पुरुषानरम् ॥ ९१ ॥ 10 वस्त्रेणाच्छादितं कृत्वा समादाय मृदो नरम् । धात्री प्रववृते गन्तुं तदानीं प्रतिपद्दिने ॥ ९२॥ महादेवीगृहद्वारं यावद्विशति धात्रिका । प्रथमद्वारपालेन तावदृष्टा प्रभाषिता ॥ ९३ ॥ वस्त्राच्छादितमादाय किमिदं विशसि द्रुतम् । अस्मभ्यं कोपमायाति भूपतिर्वद मेऽधुना ॥ ९४॥ दौवारिकवचः श्रुत्वा धात्रिकाऽमुं जगौ पुनः । यन्मह्यं रोचते किंचिद्गृहीत्वा यामि किं तव ॥९५॥ उत्तरीयं ततस्तस्या द्वारपालेन कोपतः । आकृष्टं तत्करात् तेन तदानीं निजपाणिना ॥ ९६॥ 15 गृहीतमात्रया वेगान्मृत्तिकाप्रतियातना । मुक्त्वा तया पुनर्भूमौ गता सा शतखण्डताम् ॥ ९७॥ द्वारपालोऽनयाऽवाचि कोपकम्पितगात्रया । न शोभनमिदं कार्यं त्वयाऽत्र विहितं सुत" ॥९८॥ उपोषिता महादेवी पुरुषव्रतमादरात् । मृन्नरं पूजयित्वेमं भोज्यं किल करिष्यति ॥ ९९ ॥ आनीतोऽयं मया तेन तदर्थं मृत्तिकानरः । सांप्रतं चूर्णितः सोऽपि भवता मन्दबुद्धिना ॥१०॥ मृत्स्नामयो नरोऽद्यैव लभ्यते नेदृशः क्वचित् । वीक्ष्यमाणा च मां देवी तिष्ठति तत्प्रपीडिता ॥१०१॥2॥ कथयित्वा नरेन्द्रस्य वार्तामेतां तव द्रुतम् । शिरसः कर्तनं ते श्वः कारयिष्यामि निश्चितम् ॥१०२" धात्रिकावाक्यमाकर्ण्य भयवेपितविग्रहः । दौवारिको जगादैतां तत्पादन्यस्तमस्तकः ॥ १०३ ॥ अम्बिके जननीतुल्ये किंवदन्तीमिमां विभोः । कथयिष्यसि मा मुग्धे पादयोः पतितोऽस्मि ते ॥१०४॥ आस्तां मृत्लानरो भद्रे यदि सत्यनरं पुनः । गृहीत्वा यासि देव्यन्तं न किंचिन्निगदाम्यहम् ॥१०५॥ द्वारपालवचः श्रुत्वा धात्रिका निजगावमुम् । एवमस्त्विति संतुष्टा दीर्घायुस्त्वं चिरं भव ॥१०६॥ 25 एवमुक्त्वा तकं शीघ्रं वेपिताखिलविग्रहम् । जगाम धात्रिका गेहं तोषकण्टकिताङ्गिका ॥१०७॥ अन्येधुर्विधिनाऽनेन सप्तद्वारप्रतिष्ठितान् । द्वारपालान् वशे धात्री चकार विधिकोविदा ॥१०८॥ अथाष्टमीदिने जाते सर्वारम्भपरिच्युतम् । सोपवासं श्मशानस्थं नक्तं प्रतिमया स्थितम् ॥१०९॥ सुदर्शनं समादाय "ध्यानारूढं च धात्रिका । अभयादिमहादेवीसमीपं त्वरितं ययौ ॥११०॥ कायोत्सर्गस्थितं नक्तं तदानीं तं सुदर्शनम् । देव्यै समर्पयामास धात्रिका प्रीतमानसा"॥१११॥ 3 कायोत्सर्गस्थितस्यास्य गाढालिङ्गनकादिकम् । कामग्रहगृहीतात्मा महादेवी करोत्यलम् ॥११२॥ उपसगों ममेदृक्षो यदि क्षेमेण यास्यति । ततो भविष्यति क्षिप्रं पाणिपात्रेण पारणम् ॥११३॥
1फ भुङ्क्तेतिशुद्धधीः. 2 फ न कथं वानीयते. 3 पज चतुःकुलकम्. ज चतुष्कलमिदम्. 4 फ मयाखिला. 5प युग्मम् , फ युगलमिदम् , ज युगलम्. 6 प युग्मम् , फ युगलमिदम् , ज युगलम्. 7 फ तन्नोप. 8 फ सत्कालकारयामास. 9 फ omits No. 93. 10 [मुक्ता]. 11फ पुनः. 12 पज चतुःकुलकम्, फ चतुष्कलमिदम्. 13 पज देवीतं. 14 पज त्रिकलम्, फ विकलमिदम्. 15 फ ध्यानरूढं. 16 प युग्मम् , ज युगलम् , फ युगलमिदम्. 17 फ प्रीतिमानसा.
वृ० को० १७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org