________________
१२८ हरिषेणाचार्यकृते बृहत्कथाकोशे
[६०.५२अन्यदा कपिलेनामा सुदर्शनसमं तथा । महोद्यानवनं रन्तुं प्रययौ दन्तिवाहनः ॥ ५२ ॥ ततोऽभयमहादेवी कपिलाऽपि मनोरमा । एतास्तिस्रोऽपि निर्जग्मुः शिबिकास्था वनं प्रति ॥५३॥ अथाभयमहादेवी पप्रच्छ कपिलां तदा । कस्यैषा वनिता याति पुत्रादिपरिवारिता ॥ ५४॥ स्वदेहदीप्तिसंतानैरुद्योतितनभस्तलैः । आकाशे चन्द्रलेखेव द्योतयन्ती दिशां मुखम् ॥ ५५॥ 5 कपिला तद्वचः श्रुत्वा वदति स्म हि तां द्रुतम् । सुदर्शनस्य भार्येयं नाम्नाऽपीति मनोरमा ॥५६॥ कपिलाया वचः श्रुत्वा महादेवी जगाविमाम् । सुदर्शनस्य सद्भार्या प्राणानामपि वल्लभा॥५७॥ धन्येयं सुन्दरी बाला बालपुत्रसमन्विता । विना पुत्रेण किं स्त्रीत्वं वन्ध्यावल्लीव निष्फलम् ॥५८॥ अस्माभिः सह संप्रीत्या रूपराजितविग्रहा । महोद्यानवनं रन्तुं गच्छतीयं कलखना ॥ ५९॥
ततोऽभयमहादेवी वाक्यमाकर्ण्य मन्थरम् । बभाण कपिला राज्ञी हसित्वा हसनामिकाम् ॥६०॥ 10 सुदर्शनप्रिया भद्रे जायन्तां किं पुनः शृणु । जनयन्ति सुताः पुत्रान् कुशलत्वेन योषितः ॥६॥
कपिलावाक्यमाकर्ण्य हसित्वाऽसौ जगाद ताम् । किं कारणमिदं ब्रूषे कपिले क्रूरमानसे ॥६२॥ एषा पतिव्रता" नारी रूपशीलविराजिता । सुदर्शनपतिं हित्वा नान्यमिच्छति चेतसा ॥ ६३॥ जिनशासनसंमक्ता सम्यक्त्वाणुव्रतान्विता । गुणशिक्षाव्रतैर्युक्ता पञ्चुम्बरपरिच्युता ॥ ६४॥ निजकान्तं विहायैषा न चान्यं नरमिच्छति । जिनं मुनिगणं हित्वा न चान्यं स्तौति भक्तितः॥६५॥ 15 निशम्य भारतीमस्याः कपिला" तां जगौ पुनः । तेनेदं मत्पुरः प्रोक्तं पुरुषो नास्म्यहं स्फुटम्॥६६॥ तेनाहं वेमि तं पण्डं पुरुषं हि सुदर्शनम् । कुशलत्वेन तल्लब्धमेतया नन्दनादिकम् ॥ ६७॥" अभयादिमहादेवी तद्वाक्येन बमाण ताम् । त्वं वञ्चिताऽसि धूर्तेन कामशास्त्रपराङ्मुखी ॥६८॥ सुदर्शनो हले नूनं षण्ढो यः परयोषिताम् । पुरुषोऽयं वनारीणां कन्दर्पसमविभ्रमः ॥ ६९ ॥ तच्चित्तं वार्धिगम्भीरं क्षोभेन परिवर्जितम् । कथं त्वं वेत्सि मुग्धत्वाद्योषितोऽकुशला हि वै ॥७॥* 20 ततः प्रोवाच तां देवीं कपिला वञ्चिताऽमुना । ईर्षावशपरिग्रस्ता म्लानवक्रसरोरुहा ॥ ७१॥
यदि मे स वशीकर्तुं ब्राह्मण्या कामबाह्यया । न शक्योऽकुशलत्वेन मन्दरस्थिरमानसः ॥ ७२ ॥ ततस्त्वं कामशास्त्रज्ञा महादेवीपदाश्रिता । रूपयौवनयुक्ताऽसि वशीकुरु तकं लघु ॥७३॥" श्रुत्वाऽभयमहादेवी तद्वचस्तामुवाच सा । सुष्ठु तं स्खवशीकर्तुं समर्थाऽस्मि सुदर्शनम् ॥ ७४॥ एवमुक्त्वा तकां देवी विलक्षीभूतमानसाम् । तत्पुरः सा चकारेमा प्रतिज्ञा रूपगर्विता ॥७५॥ s यदि तच्चित्तसंक्षोभं न करोमि नितम्बिनि" । ततः पुरुषभोगस्य निवृत्ति विदधाम्यहम् ॥७६॥ महादेवी विधायेमां प्रतिज्ञा कपिलापुरः । प्रविश्य नगरं शीघ्रं विवेश निजमन्दिरम् ॥ ७७ ॥ अथाहूय महादेवी स्वान्ते पण्डितधात्रिकाम् । लज्जां विहाय हृष्टात्मा बभाणेति पुरःस्थिताम् ॥७८॥ सुदर्शनमिमं साध्वि मदन्तं शीघ्रमानय । येनामुना समं भोगाम् प्रभोक्ष्ये निजलीलया ॥ ७९ ॥ मच्चित्तहारिणं नो चेदेनं नानयसि द्रुतम् । ततोऽहं निश्चितं भद्रे करिष्ये प्राणमोचनम् ॥ ८॥ 30 श्रुत्वा तद्वचनं धात्री जगादैतां कलखना । अशोभनमिदं कार्यं त्वयाऽत्र परिचिन्तितम् ॥८१॥
1 पज कपिलो नामा. 2 फ नृपं. 3 प युग्मम् , फज युगलमिदम्. 4 फ नाना प्रीति'. 5 पज सुन्दरं. 6प युग्मम् , ज युगलम्. 7 फ omits No. 60. 8 प युग्मम् , फ युगलमिदम् , ज युगलम्. 9फ सहित्वा. 10 फ पतिव्रते. 11 फ कपिलां. 12 प युग्मम् , ज युगलम् , फ युगलमिदम्. 13 फ नूनं पण्डकः पर. 14 पत्रिकलम् , फज त्रिकलमिदम्. 15 पत्रिकलम्, फज त्रिकलमिदम्. 16 फ"मानसा. 174 करोमि न नितम्बिनि. 18पभोग्यस्य. 19 प निवृत्यं. 20 पज त्रिकला, फ त्रिकलमिदम्. 21 पज त्रिकलम् , फ त्रिकलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org