________________
-६०. ५१] सुभगगोपालकथानकम्
१२७ अन्यदा महिषीसंघो गङ्गामुत्तीर्य वेगतः । क्षेत्रमध्यं विवेशायं गन्धशालिसमन्वितम् ॥ १९॥ मन्दाकिनीसमुत्तीर्ण विलोक्य महिषीगणम् । गोपालकः प्रधाव्याशु तस्थौ सुरसरित्तटे ॥ २० ॥ कृत्वा जिननमस्कारं तद्भक्तिस्थिरमानसः । गङ्गाह्रदे मुमोचायं गोपः स्वं भयवर्जितः ॥२१॥ तत्रत्यकाष्ठशूलेन विद्धस्तुण्डे' मृतिं गतः । पूर्वोक्तश्रेष्ठिभायास्तदाऽसौ गर्भमाश्रितः ॥ २२ ॥ तद्गर्भे सुस्थिते तस्मिन् नीतोऽथो मासपञ्चके । बभूव दोहलस्तस्याः श्रेष्ठिन्या जिनपूजने ॥२३॥ विलोक्य श्रेष्ठिनी श्रेष्ठी जगादैतां पुरःस्थिताम् । त्वं दुर्बलाऽसि कथं कान्ते ब्रूहि कार्यमिदं मम ॥२४॥ श्रेष्ठिवाक्यमुपश्रुत्य श्रेष्ठिनी निजगावमुम् । जिनपूजाविधौ नाथ मदिच्छा वर्ततेऽधुना ॥ २५॥ तद्वाक्यतः पुनः श्रेष्ठी जिनानां जितजन्मनाम् । महामहं चकाराशु तूर्यमङ्गलनिखनैः ॥ २६ ॥ ततो नवसु मासेषु व्यतीतेषु प्रभोज्वलम् । पूर्वाशेव रविं तत्र श्रेष्ठिनी सुषुवे सुतम् ॥ २७॥ : निजदेहप्रभाभारभासिताशेषपुष्करः । पूर्णिमाचन्द्रवद्भाति कुर्वन् बन्धुमुदं शिशुः ॥ २८॥ ततो जिनमहं कृत्वा नीत्वाऽमुं जिनमन्दिरम् । ददौ सुदर्शनं नाम मुनिरस्मै गुणानुगम् ॥२९॥ क्रमेण वृद्धिमासाद्य कलाः सर्वाः सुशिक्षिताः । सुदर्शनकुमारेण सुकुमारेण वेगतः ॥ ३०॥ चतुःषष्टिरपि स्पष्टं विज्ञानानि विवेद सः । यौवनं च परिप्राप्तः कन्दर्पसमविभ्रमम् ॥ ३१॥ सागरोपपदो दत्तः श्रेष्ठी तन्नगरेऽभवत् । भार्या सागरसेनाऽस्य तत्सुता च मनोरमा ॥३२॥ सुदर्शनेन सा लब्धा परिणीता विधानतः । सुतोऽनयोः समुत्पन्नः सुकान्तः कान्तदर्शनः ॥३३॥ 15 अथानित्यमिदं ज्ञात्वा सर्वं सांसारिकं सुखम् । सुदर्शनसुतायास्मै श्रेष्ठिप बबन्ध सः ॥३४॥ दन्तिवाहनभूपस्य समर्प्य तनयं पुनः । समाधिगुप्तिसामीप्ये श्रेष्ठी दीक्षामशिश्रियत् ॥ ३५ ॥ ततः सुदर्शनः श्रेष्ठी भूपतेरभवन्महान् । कलाविज्ञानसंपन्नः समस्तजनपूजितः ॥ ३६ ॥ सखा सुदर्शनस्यैष कपिलो नाम “माहनः । दन्तिवाहनभूपस्य स बभूव पुरोहितः ॥ ३७॥ ब्राह्मणी कपिला चास्य रूपयौवनगर्विता । सुदर्शनगुणान् श्रुत्वा तत्सत्ता मनसाऽभवत् ॥३८॥ 20 अन्यदा संफली दक्षा मदनोन्मत्तया तया । गूढं किमपि संदिश्य प्रेषिता श्रेष्ठिनो गृहम् ॥३९॥ अविलम्बं जगामेषा ततस्तद्गतमानसा । सुदर्शनं परिप्राप्य जगादैनं विचक्षणा ॥४०॥ कपिलो वक्ति नाथ त्वां शरीरेणापटुस्तराम् । आगन्तव्यं त्वयाऽवश्यं स्नेहनाशु मदन्तिकम् ॥४१॥' दूतीवचनमाकर्ण्य स्नेहनिर्भरमानसः । सुदर्शनो गृहं तस्य मित्रस्य सहसाऽगमत् ॥ ४२ ॥ दृष्ट्वा तद्ब्राह्मणी प्राह तदानीं स सुदर्शनः । व गतः कपिलो भद्रे सा पुनस्तं जगाविति ॥४३॥ 25 सुप्तस्तिष्ठति ते मित्रं गृहान्ते व्रज त्वं लघु । प्रविष्टोऽपि च तन्मध्ये पश्यतीमं न तत्र सः॥४४॥ क्क मित्रं वदत क्षिप्रं वक्ति सा पुनरप्यमुम् । न भट्टोऽस्त्यत्र किं चान्यन्मदीयं वचनं शृणु ॥४५॥ इच्छ त्वं भद्र मां शीघ्रं भवद्भक्तियुजं तराम् । त्वत्परोक्षानुरागेण रक्तां विद्धि सुदर्शनः ॥४६॥ यदि नेच्छसि मां भूयो भणितोऽपि ततो द्रुतम् । कारापयामि ते शीघ्र मारणं नियतं नरैः ॥४७॥" निशम्य तद्वचः श्रेष्ठी तामुवाच विचक्षणः । आलिङ्गनादिकं मूढां कुर्वन्तीं निन्दितं बुधैः ॥४८॥ 30 शृणु मद्वचनं मुग्धे सत्यभूतं वदामि ते । किं त्वया न परिज्ञातः पौरुषो न भवाम्यहम् ॥४९॥" आकर्ण्य तद्वचस्तं च विरक्ता कपिला जगौ । यदि त्वं पुरुषो नासि ततो व्रज निजं गृहम् ॥५०॥ मन्यमानः प्रमुक्तं खं महाव्याघ्रीमुखादरम् । तयोदितो ययौ शीघ्रं खकीयभवनं सकः॥ ५१ ॥
1पज तुण्डे-उदरे. 2 प उपसृत्य. 3 फ लब्ध्वा . 4 फ omits शात्वा. 5 फ ब्राह्मणः. 6 फ सफली, [शम्बली]. 7 प युग्मम् , फज युगलमिदम्. 8 पज भक्तियुजां. 9 [सुदर्शन]. 10 फ सुरैः. 11 प युग्मम् , फज युगलमिदम्. 12 प युग्मम् , फज युगलमिदम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org