________________
१२६
हरिषेणाचार्यकृते बृहत्कथाकोशे
[५९. ११६एष पद्मरथो राजा नवधर्मा समागतः । धर्मे विध्वंसनं चास्य कुरु त्वं यदि शक्तिमान् ॥११६॥ दृष्ट्वा नरेश्वरं तत्र कोपारुणनिरीक्षणः । उपसर्ग चकारेमं गजानीकः सुरो' रुषा ॥ ११७ ॥ पुरदाहं पुरस्तस्य बलयुद्धं महारवम् । उपसर्ग पिशाचादि चकार स सुरस्तदा ॥ ११८ ॥ विश्वानलोपसर्ग तं न विवेद मनागपि । ध्यानाचलं समारूढो न हि ध्यानाचचाल सः ॥११९॥ दृष्ट्वाऽस्य धीरतां देवो योजनध्वनिनादिनीम् । ददौ भेरी कलस्वानां तोषपूरितमानसः ॥ १२०॥ ततः पद्मरथायाशु धर्मवात्सल्यकारणात् । अच्युतेन्द्रो ददौ हारं सर्वव्याधिहरं मुदा ॥१२१ ॥ वासुपूज्यं जिनं नत्वा पूजयित्वा नृपं सुरः । भक्त्या पद्मरथो नौति वासुपूज्यं जिनं तरां ॥१२२॥ कण्ठे हारं विधायायं भेरीमादाय सुस्वरम् । भक्त्या पद्मरथो नौति वासुपूज्यं जिनं तराम् ॥१२३॥
स्थापयित्वा निजं पुत्रं राज्ये पद्मरथो नृपः । वासुपूज्यजिनस्यान्ते प्रवव्राज विशुद्धधीः ॥१२४॥ 10 गणेन्द्रत्वं परिप्राप्य जिनभक्तिपरायणः । शीघ्रं पद्मरथो योगी निर्वाणमगमत्सुधीः ॥ १२५ ॥ ॥ इति श्रीजिन भक्तिपरायणपद्मरथपगणधरत्वप्रातिनिर्वाण
गमनकथानकमिदं संपूर्णम् ॥ ५९॥
६०. सुभगगोपालकथानकम् । ततोऽङ्गाख्यमहादेशे परा चम्पापुरी प्रभुः । अस्यां बभूव नीतिज्ञो दन्तिवाहननामकः ॥१॥ 15 अभयाऽस्य महादेवी भूभुजोऽभवदिद्धधीः । अस्या धात्री गुणाधारा पण्डिता नाम विश्रुता ॥२॥
अस्मिन्नेव पुरे श्रेष्ठी बभूव स महाधनी । ऋषभोपपदो दासो जिनदासी प्रियाऽस्य सा ॥३॥ श्रेष्ठिनोऽस्य हितो भक्तो महिषीपरिपालकः । नामतः सुभगः ख्यातः सुभगोऽखिलदेहिनाम् ॥४॥ अन्यदा ताः पुरस्कृत्य महिषीः सुभगो वनम् । ययौ मुदितचेतस्कः शष्पनीरसमन्वितम् ॥ ५॥ ततो निवर्तमानः सन् पुरमार्गे दवीयसि । दृष्ट्वा चारणमेकं हि दध्याविति सविस्मितः ॥६॥ 20 शीतकाले महाशीते मुनिरेष बहिःस्थितः । 'करप्रावरणो दीर्घा कथं नेष्यति शर्वरीम् ॥७॥ सुभगः स्वगृहं प्राप्य सुप्तो निशि कुटीरके । मुनि ध्यायंस्तमेवासौ तद्गुणाकृष्टमानसः ॥ ८॥ ततः प्रभातकाले च महिषीः प्राप्य तां दिशम् । दृष्ट्वा तं चारणं तत्र स्तोकवारं स तस्थिवान् ॥९॥ प्राभातिकीक्रियां कृत्वा रवावभ्युदिते मुनिः । नमोऽर्हते समुच्चार्य वचनं स खमुद्ययौ ॥१०॥ "दृष्ट्वा गोपालकः साधुं व्रजन्तं तं विहायसा । शुश्राव तद्धनिं भक्त्या सनीरजलदोपमाम् ॥११॥ 25 ज्ञात्वा विद्यामिमां सोऽलं नभस्तलविसर्पिणीम् । जग्राहाहन्नमस्कार संसारोदधिशोषणम् ॥१२॥
आकाशगामिनी विद्या मम सिद्धिं प्रयास्यति । अस्या बलेन सर्वत्र विचरिष्याम्यगादिषु ॥१३॥ सुभगश्चिन्तयित्वेदमुच्छिष्ठप्रभवन्नपि । नमोऽर्हन्यो वचो भक्त्या न मुञ्चति कदाचन ॥ १४ ॥ अवाचि श्रेष्ठिना गोपो शुचिभिः श्रावकैरपि । ग्रहीतुं पुत्र नो युक्तं जिननाम भवाशनम् ॥१५॥
श्रेष्ठिवाक्यं समाकर्ण्य गोपको वक्ति तं पुनः । तात मोक्तुं न शक्नोमि जिनगोत्रमहं क्वचित् ॥१६॥ 30 गोपवाक्यमिदं श्रुत्वा भूयः श्रेष्ठी बमाण तम् । सुत मा मोचनं जातु जिननाम्नः करिष्यसि ॥१७॥
इमं जैनेश्वरं नाम पवित्रं मङ्गलं तव । भविष्यति निगद्यासौ मौनमादाय तस्थिवान् ॥१८॥
1प गजानिकासुरो. 2 4 omits No. 122. 3 ज omits इति श्री. 4फ श्रेष्ठिनो सहितो. 5 पज करप्रावरणो-कटिकर्पटं नास्ति. 6 फ नत्वा. 7 प भवाशनं भवनाशनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org