________________
-५९. ११५ ]
पद्मरथनृपकथानकम्
१२५
अस्याः प्रदर्श्य धूर्तोऽयं जगौ तां बीजपूरकम् । यदि मामिच्छसि क्षिप्रं ददामीदमहं तव ॥ ८७॥ उक्तस्तया मुनिर्देहि ममेदमतिशोभनम् । इच्छामि त्वामहं येन तरां वृद्धमपि ध्रुवम् ॥ ८८ ॥ तत्करे तत्फलं दत्त्वा तन्मतेन स तापसः । स्कन्धे तां स समादाय निर्ययौ तगृहादरम् ॥ ८९ ॥ कृत्वा समस्तकन्यास्ताः कुब्जत्वपरिवर्जिताः । शुक्लदानं च दत्त्वाऽयं जगाम निजमालयम् ॥९०॥ नीत्वाऽसौ रेणुकां वृद्धिं परिणीय ' विधानतः । तस्यां 'परशुरामस्य वक्तव्योत्पत्तिरादरात् ॥ ९१ ॥ अच्युतेन्द्रस्ततः प्राह विश्वानलचरं सुरम् । अज्ञानमूढतां पश्य यमदग्नितपस्विनः ॥ ९२ ॥ अनेन मूढचित्तेन परमार्थमपश्यता । नन्विदं न परिज्ञातं शोभनं यमदग्निना ॥ ९३ ॥ परीक्षणं विधातव्यं सर्वग्रन्थेषु कोविदैः । न कुग्रन्थोपदेशेन कर्तव्यं गूथभक्षणम् ॥ ९४ ॥ नानासमासहस्राणि कौमारब्रह्मचारिणाम् । स्वर्गं प्राप्य विमुक्तानि विहाय रमणीजनम् ॥ ९५ ॥
तथा चोक्तम्
परीक्षा सर्वशास्त्रेषु कर्तव्याऽत्र विचक्षणैः ।
न कुशास्त्रप्रणीतेन कर्तव्यं विषभक्षणम् ॥ ९६ ॥ अनेकानि सहस्राणि कौमारब्रह्मचारिणाम् ।
दिवं गतानि मुक्तानि अकृत्वा दारसंग्रहम् ॥ ९७ ॥
10
1
15
एवं निगद्य तौ देवौ यमदग्निं च तापसम् । कौमारव्रतहन्तारं पुरं राजगृहं गतौ ॥ ९८ ॥ श्रावको जिनदासोऽत्र सम्यग्दृष्टिः प्रियंवदः । अयं पर्वदिने प्राप्ते कायोत्सर्गेण संस्थितः ॥ ९९ ॥ अच्युतेन्द्रो विलोक्येमं प्रतिमायोगधारिणम् । विश्वानलचरं देवं जगादेति विशुद्धधीः ॥ १०० ॥ तिष्ठन्तु मुनयस्तावन्मद्धर्मे श्रावकं त्विमम् । यदि त्वं शक्तिसंपन्नः स्वयोगाद् भ्रंशमानय ॥१०१॥ अच्युतेन्द्रस्य वाक्येन गजानीकामरः कुधा । जिनदासोपसर्गं स कर्तुं प्रववृते तदा ॥ १०२ ॥ धनधान्यापहारं हि पुत्रगोत्रादिहिंसनम् । नानाविधोपसर्गं च चकारास्यः पुरःसरः ॥ १०३ ॥ 20 उपसर्गेऽमुना बाढं क्रियमाणेऽप्ययं पुनः । धराधरेन्द्रवत्तस्थौ ध्यानाचलितमानसः ॥ १०४ ॥ ज्ञात्वा धीरत्वमेतस्य गजानीकामरो मुदा । आकाशगामिनीं विद्यां ददावस्मै स्थिरात्मने ॥ १०५ ॥ विद्यामेतां प्रदायास्मै विश्वानलचरोऽमरः । अच्युतेन्द्रो बभाषेति तरां कुटिलमानसः ॥ १०६ ॥ जिनदासो महानार्यः श्रावकोऽयं चिरन्तनः । धर्मभावितचेतस्को नानाशास्त्रविचक्षणः ॥ १०७ ॥ उपसर्गमयं धीरः सहते कोऽत्र विस्मयः । अल्पधर्मश्रुतं चान्यं दर्शयैनं ममाधुना ॥ १०८ ॥ गजानीकवचः श्रुत्वा चारणेन्द्रो जगावमुम् । मुग्धचित्तो विशुद्धात्मा विद्यते मन्दधार्मिकः ॥१०९॥ जिनधर्मस्य सर्वस्य गृहीतस्य यशखिना । अमुना सारभूतस्य वर्तते दिनसप्तकम् ॥ ११० ॥ विद्यते यदि ते वाञ्छा तद्धर्मप्रविनाशने । व्रजावस्तत्समीपं च कौतुकव्याप्तमानसौ ॥ १११ ॥ वचनादच्युतेन्द्रस्य तोषरोषसमन्वितः । पुरंदरसमं सोऽपि मिथिला नगरीं ययौ ॥ ११२ ॥ धर्मं श्रुत्वा सुधर्मान्ते दिनैः सप्तभिरर्जितम् । उद्याने तिष्ठति प्रीत्या वीरः पद्मरथो नृपः ॥ ११३ ॥ ० चम्पापुरवरोद्याने वासुपूज्यजिनेश्वरम् । नन्तुं पद्मरथो राजा सोपवासः समागतः ॥ ११४ ॥ अच्युतेन्द्रः समालोक्य भूपतिं वनमागतम् । विश्वानलसुरं प्राह कौतुकव्याप्तमानसः ॥ ११५ ॥
1 फ ददासीदमहं 2 पज वृद्धिमपि 3 [ शुल्कदानं ]. 4 [ परिणीतो ]. 5 पज तस्यां हि परशु . ' 6 फ स्वयोगाद्वशमानय 7 फ omits verses Nos. 106 - 125, ie, up to the close of this chapter 8 पज त्रिकलमिदम् 9 ज ' व्याप्तचेतसौ.
Jain Education International
For Private & Personal Use Only
25
www.jainelibrary.org