________________
१२४ हरिषेणाचार्यकृते बृहत्कथाकोशे
[५९. ५६साऽस्य वाक्यं समाकर्ण्य बभाणेमं कलखना । स्वामिन्नहं न ते गन्तुं ददामि पदमप्यतः ॥५६॥ अवाचि सा पुनस्तेन गां विप्रां हन्मि वल्लभे । नागच्छामि त्वदन्तं चेच्छपथोऽयं ततो मम॥५७॥ यं यं करोति सोऽत्यर्थ शपथं तत्पुरःस्थितः । तं तं नेच्छति सा देवी प्रतिकूलत्वमागता ॥ ५८॥ भूयोऽपि पक्षिणा प्रोक्ता सा देवी लोललोचना । मयाऽवश्यं प्रगन्तव्यं शपथं कं त्वमिच्छसि ॥५९॥ तद्वाक्यतः पुनः प्राह सा देवी पक्षिणी तकम् । हित्वा मां यदि यासि त्वं कुर्विमं शपथं ततः॥६॥ यदि नागच्छसि क्षिप्रं मुनेरस्य गतिं ध्रुवम् । अन्यजन्मनि किं याहि ततो गच्छ प्रिय प्रभो॥६॥ पक्षिणीवचनं श्रुत्वा पक्षी प्राह पुनः प्रियाम् । भद्रे शपथमीदृक्षं जीवन् सन् न करोम्यहम् ॥६२॥' पक्षिणोर्वचनं श्रुत्वा यमदग्निर्मुनिः पुनः । प्राहैतौ क्रुद्धचेतस्कौं भृकुटीभीषणालिकः ॥ ६३ ॥ किं कारणमिमं कर्तुं शपथं नेच्छसि द्रुतम् । कथयैतन्मम क्षिप्रं कौतुकं प्रतिभासते ॥६४॥ 10 यमदग्निवचः श्रुत्वा पक्षी वदति तं पुनः । न गतिस्ते तपो नापि नास्ति किंचित्तपःफलम् ॥६५॥ गतिर्न सुतहीनस्य नाकोऽपि न भवेत्ततः । पुत्रस्य वदनं दृष्ट्वा चरमं भिक्षुको भवेत् ॥६६॥ पुत्रेण जायते नूनं लोकद्वितयमुत्तमम् । तथा कीर्तिवधूः शुभ्रा लोकत्रयविसर्पिणी ॥ ६७॥ आश्रमा लोकविख्याताश्चत्वारों विदिता बुधैः । यशोव्याप्तसमस्ताशैः समस्तजनवल्लभैः ॥ ६८॥
आश्रमादाश्रमं याति यदि विप्रो न निश्चितम् । अतिक्रामन्निदं वाक्यं प्रायश्चित्तं च सोर्हति ॥६९॥ 15 कुमारेण 'त्वया साधो व्रतमाचरता तराम् । अप्रमाणमिदं सर्वं कृतं मूर्खत्वमीयुषा ॥ ७० ॥ मनु-व्यास-वसिष्ठानां वेदस्य वचनं तथा । योऽप्रमाणं वदत्येष ब्रह्मघाती भवेद् भुवि ॥ ७१॥ मनुधर्मः "पुराणं च साङ्गो वेदविधिः क्रिया। एतानि सिद्धरूपाणि हन्तव्यानि न हेतुभिः॥७२॥ पक्षिवाक्यं समाकर्ण्य यमदग्निर्विमूढधीः । आत्मानं निन्दितुं बाढं प्रारेभे भोगसक्तधीः ॥७३॥
अज्ञानिना मया कष्टं कुमारव्रतचारिणा । इयन्तं कालमासाद्य कथमात्माऽतिवञ्चितः ॥ ७४॥ 20 तपस्वी चिन्तयित्वेदं पक्षिणं निजगाद तम् । बन्धुत्वं कर्तुमायातो दुर्गतिं मे निवारय ॥ ७५ ॥ पक्षिणं पूजयित्वाऽयमुपदेशप्रदायकम् । जगामेन्द्रपुरं योगी तदानीं सन्ततीच्छया ॥ ७६ ॥ तत्र राजाऽभवद् घाती यमदग्नेः सुमातुलः । भार्या जयमतिस्तस्य रूपराजितविग्रहा ॥ ७७ ॥ तयोर्दैवकुमार्याद्याः कन्याः सन्ति मनोरमाः । गत्वा तदन्तिकं प्राह भूपतिं विह्वलात्मकः ॥७८॥
मातुलाहमपुत्रोऽस्मि न काचिद्गतिरस्ति मे । तेन कन्यानिमित्तं हि राजन् प्राप्तस्त्वदन्तिकम् ॥७९॥ 25 श्रुत्वा तद्वचनं राजा समाहूय स्वकन्यकाः । रूपसौभाग्यसंपन्ना जगादेति पुरःस्थिताः ॥ ८० ॥
अनेन मुनिना सार्धं कामभोगं यथेप्सया । भुञ्जानास्तिष्ठत स्पष्टं मदुक्तेन कुमारिकाः ॥ ८१॥ कन्या जनकवाक्येन दृष्ट्वाऽमुं भयकारिणम्" । पिशाचसदृशं वृद्धं जटामुकुटधारिणम् ॥ ८२ ॥ बीभत्सं पञ्चभिः कूसित्वा जनकान्तिकात् । शीघ्रं पलायनं चक्रुः कन्यकाः भयविह्वलाः॥८३॥
ततो रुष्टेन तेनासां शापो दत्तस्तपस्विना। कन्यका हि दुराचाराः सर्वाः कुब्जा भवन्त्विमाः॥८४॥ 30 कुब्जिकाः सकलाः कन्या जाता तद्वचनेन ताः। पुरमिन्द्रपुरं पूर्व "कन्याकुब्जं बभूव तत् ॥८५॥ तन्मध्ये रेणुका कन्या धूलिधूसरिताङ्गिका । रममाणा पलायन्ती तस्थौ मुदितमानसा ॥८६॥
1 प युग्मम् , फज युगलमिदम्. 2 [क्रुद्धचेतस्को]. 3 प चत्वारः ब्रह्मचारी, गृही, वानप्रस्थः, भिक्षुकः. 4 फमया. 5 फ देवस्य. 6फ मनुधर्मपुराणं. 7 प कुलकम् , फज कुलकमिदम्. 8 फ यमुपदेशं. 9 पत्रिकला, फज त्रिकलमिदम्. 10 फसमाकुलः, 11 फ भयकारणम्. 12 फ कन्याकुब्जे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org