________________
-५९. ५५] पद्मरथनृपकथानकम्
१२३ मांसमध्ये विषं क्षिप्त्वा मद्यमध्ये मधुन्यपि । परस्परमजानन्तस्तदन्तं ते समाययुः ॥ २५॥ धर्मान्तरिस्तमाहारं तथा विश्वानलोऽपि च । न भुङ्क्ते स्म समानीतं रात्रिभोजनकारणात् ॥२६॥ 'आत्मानीतं विहायैतौ तदानीं पिशितादिकम् । अन्यदन्यसमानीतं सर्वं भुक्तं तु दस्युभिः ॥२७॥ अन्ये च तस्करा भुक्त्वा भोजनं विषमिश्रितम् । अजानन्तोऽवधि प्राप्ताः पापविन्यस्तबुद्धयः॥२८॥ ततस्तौ तद्धनं सर्वं समादाय प्रयत्नतः । तोषपूरितचेतस्कौ प्रविष्टौ नगरं तदा ॥ २९॥ मातृभार्ये धनं सर्व संप्राप्य नगरं व्रजन् । विश्वानलं च मुक्त्वाऽत्र निर्गतोऽविदितः सकः॥३०॥ ततो धर्मान्तरिः प्राप्य सूरिं गुणधरं परम् । निन्दयित्वा धनं खं च ययाचे तं तपः सुधीः॥३१॥ मुनिस्तद्वचनं श्रुत्वा ज्ञात्वा भव्यत्वमस्य च । ददौ दैगम्बरी दीक्षां संसारार्णवतारिणीम् ॥३२॥ आचाराङ्गादिकं सर्वं श्रुतं ज्ञात्वा महातपाः । तपश्चकार शुद्धात्मा स मुनिर्धर्मभावितः ॥३३॥ अन्यदा विहरन्नार तापसाश्रमगोचरम् । धरणीभूषणं तुङ्गं पर्वतं स यतीश्वरः ॥ ३४ ॥ प्राप्य तं भूधरं रम्यं तदा धर्मान्तरिमुनिः । दधावातापनायोगं तद्रौि स्थिरमानसः ॥ ३५ ॥ अथ विश्वानलः प्राप्य स्मृत्वा मित्रगुणान्तरम् । आतापनस्थितं साधुं धरणीभूषणे गिरौ ॥३६॥ दृष्ट्वा मौनव्रतस्थं तं कायोत्सर्गव्यवस्थितम् । सकः कोपं परिप्राप्य तापसव्रतमादधौ ॥ ३७॥ कायोत्सर्ग विमुच्यायं विश्वानलतपखिनम् । आजगाम स योगीन्द्रस्तदा बोधयितुं तकम् ॥३८॥ दृष्ट्वा विश्वानलं योगी जगाद हितकारणात् । जिनधर्म गृहाण त्वं समस्तसुखकारणम् ॥ ३९ ॥ 15 मुनिवाक्येन तेनापि न किंचिजल्पितं तदा । भवान्तरे पुनर्मित्र "ज्ञास्यसि त्वं तपःफलम् ॥४०॥ एवमुक्त्वा तकं साधुर्जिनधर्मपराङ्मुखम् । निर्गस्य च ततो देशाजगाम खमनीषितम् ॥४१॥ विश्वानलो मृतिं कृत्वा तापसव्रतयोगतः । लोकपालगजानीकः सौधर्मेन्द्रस्य सोऽजनि ॥४२॥ ततो धर्मान्तरियोगी तपः कृत्वा सुदुष्करम् । द्वाविंशतिसमुद्रायुरच्युतेन्द्रो बभूव सः॥४३॥ अथ नन्दीश्वरद्वीपे चान्योन्यमवलोक्य तौ । अन्योन्यसंकथामतां चक्रतुः कृतनिश्चयौ ॥४४॥ 20 ततो धर्मपरीक्षायै यमदग्निसमीपकम् । प्राप्य देवो कृतानन्दौ "तस्थतुस्तौ कुतूहलात् ॥ ४५ ॥ पक्षिणो रूपमेकोऽत्र पक्षिण्याश्चापरः पुनः । विधाय कौतुकाद्देवौ तस्थिवांसौ विचक्षणौ ॥४६॥" पक्षिरूपः सुरः प्राह नारीरूपां नितम्बिनीम् । "वियस्यास्मत्प्रभोः कान्ते गिरिराजस्य मूर्धनि ॥४७॥ अभिषेकं विधायास्य पक्षिणः प्रीतमानसाः । पट्टबन्धं करिष्यन्ति जयमङ्गलनिस्वनैः ॥४८॥ पद्मपत्रसमानाक्षि विबुद्धकमलानने । बृहन्नितम्बिनि क्षिप्रं गमिष्याम्यहमादरात् ॥४९॥ 25 निशम्य पक्षिरूपस्य देवस्य वचनं तदा । नारीरूपामरस्तत्र जगावेतं पुरःस्थितम् ॥ ५० ॥ खामिन् भवद्वियोगेऽहं गर्भालसशरीरिका । एकाकिनी न तिष्ठामि भयविह्वलमानसा ॥५१॥ पुरुषाणामिदं चित्तं को जानाति महीतले । मेरुशृङ्गे महारूपाः पक्षिण्यः सन्ति भूरिशः ॥५२॥ ताभिः समं सुरूपाभिः पक्षिणीभिर्निरन्तरम् । विहाय मां सुखं तत्र भुञ्जानः स्थास्यसि स्फुटम्॥५३॥" निशम्य तद्वचः पक्षी तामुवाच ससंभ्रमः । विहाय भवतीं नान्या विद्यते मम वल्लभा ॥ ५४ ॥ 30 दयायुक्तस्य सत्त्वानां जनवात्सल्यकारिणः । समीपेऽस्य मुनेः कान्ते तिष्ठ त्वं दिनपञ्चकम् ॥५५॥"
... 1 पज आत्मानितैर्विधार्यतै. 2 प अवधि-मरणम्. 3 फज संसारार्णवदाविनीम्. 4 पज महातपः. 5फ कायोत्सर्ग. 6फ विमोच्यायं. 7 फ ज्ञास्यसे. 8 प लोकपालः.लोकपालो]. 9 पज अन्योन्यं. 10 फ तस्थिवांसौ विचक्षणः. 11 फ omits 46. 12 corrects thus विहास्यप्रभोः, [विहस्यास्मत्प्रभुः]. 13 प युग्मम्, फज युगलमिदम्. 14 प चतुःकुलकम् ,फ चतुष्कलमिदम् , ज चतु(:)कुलकमिदम्. 15 प युग्मम् , फज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org