________________
१२२ हरिषेणाचार्यकृते बृहत्कथाकोशे
[५८. ५१एवं निगदिते तेन म्लेच्छो विनयसंगतः । ननाम चरणावस्य जानुस्पृष्टमहीतलः ॥५१॥ ततः क्षीरकदम्बोऽयं धनुर्वेदविशारदः । द्रोणाचार्येण तुष्टेन याचितो गुरुदक्षिणाम् ॥ ५२ ॥ तद्वाक्यतः पुनर्लेच्छो गुरुभक्तिपरायणः । छित्त्वा स्वदक्षिणाङ्गुष्ठं ददावस्मै स्वदक्षिणाम् ॥ ५३॥
यथा क्षीरकदम्बस्य गुरुभक्तियुतस्य को । म्लेच्छस्यापि धनुर्वेदः सिद्धिं जातोऽल्पकालतः॥५४॥ • तथा मुनेरपि क्षिप्रं जिनेन्द्रस्य गुरोरपि । भक्त्या निर्वाणविद्येयं सिद्धिं व्रजति निश्चितम् ॥ ५५ ॥ ॥ इति श्रीद्रोणाचार्यसमन्वितक्षीरकदम्बम्लेच्छधनुर्वेदविद्या
समागमकथानकमिदम् ॥ ५८॥
५९. पद्मरथनृपकथानकम् । अत्रैव भारते वास्ये जनान्ते विजये पुरम् । भूम्यादितिलकं नाम बभूव जनसंकुलम् ॥१॥ 10 प्रजापालोऽभवत्तत्र पुरे राजा प्रजाहितः । मनोरमा प्रिया चास्य मनोरमशरीरिका ॥२॥
अस्यैव श्रावकः श्रेष्ठी सुन्दरो जनसुन्दरः। प्रियाऽस्य सुन्दरी नाम बभूव गुणसुन्दरी ॥३॥ अन्योन्यप्रेमसंसक्तचेतसोरनयोः सतोः । क्रमेण सूनवः सप्त संजाताः श्रावकास्तराम् ॥४॥ तन्मध्ये श्रावकोऽत्यन्तं कनिष्ठो धर्मभावितः । धर्मान्तरिः प्रिया चास्य प्रियदत्ताऽभवत् प्रिया ॥५॥
सखा विश्वानलस्तस्य ब्राह्मणोऽत्यन्तवल्लभः । सप्तव्यसनसंयुक्तो बभूव चलमानसः ॥६॥ 15 धर्मान्तरिरपि क्षिप्रं तत्संसर्गेण तत्समः । जातो व्यसनसंपन्नो दुष्टसंगो हि तादृशः ॥७॥ ततस्तौ भूरिशो दृष्टौ कुर्वाणौ चौरिकां पुरे । तथापि भूभुजा मुक्तौ श्रेष्ठिदाक्षिण्यकारणात् ॥८॥ धर्मान्तरिः पुनर्जातु गृहीतो दण्डपाशकैः । प्रविष्टश्चौरिकाहेतोहं कस्यापि दुष्टधीः ॥९॥ बन्धुवर्गपरित्यक्तो मुक्तः सन् पापधीरसौ । हस्तिनागपुरं प्राप मातृभार्यासुहृत्समम् ॥ १०॥ . यमदण्डतलारस्य समीपे प्राप्य वेश्म तौ । तद्बलेन स्थितौ तत्र चौरिकासक्तमानसौ ॥ ११॥ . 20 अन्यदा मुनिसामीप्यं प्राप्य धर्मान्तरिः क्वचित् । घृतस्यावग्रहं चक्रे दिनानि कतिचित् सकः॥१२॥ न निवृत्तस्त्वहं यावद् भदन्त पदसप्तकम् । तावज्जीववधं नूनं न करोमि यतीश्वर ॥ १३ ॥ अत्रान्तरे तको नक्तं चौरिकार्थे विनिर्गतौ । गता च चौरिकावेला मन्दं नाटकदर्शनात् ॥ १४ ॥ धर्मान्तरिहं प्राप्य दृष्ट्वा मातरमत्र सः । सुषया सह संसुप्तां जगाम क्रोधराशिताम् ॥१५॥ ईर्षावशेन यावच्च खड्गमादाय तद्वधम् । करोत्यरं पुनस्तावत् सस्मारावग्रहस्य सः॥१६॥ 25 पदानि सप्त यावत्तु पश्चात्कुर्यान्निवर्तनम् । शुश्राव तावदेवायं स्वरं मातुः स्खयोषितः ॥ १७ ॥
ततो वैराग्यमासाद्य निर्गतः स्वगृहादरम् । गुरुभार्यावधं प्राप्तो व्रतेनाहं सुरक्षितः ॥ १८॥ एवं ध्यात्वा परिप्राप्य मुनेः सामीप्यमादरात् । जगाद व्रतसामर्थ्य धर्मान्तरिरिदं यतेः ॥१९॥ धर्म श्रुत्वा मुनेः पार्थे मधुमद्यपलस्य च । अवग्रहं विधायासौ नत्वाऽमुं निर्ययौ ततः ॥२०॥
अन्यदा व्याधवृन्देन सह चौरिकया गतः । धर्मान्तरिः स्वमित्रेण दुर्विदग्धेन लोभतः ॥ २१॥ 30 ततस्ते तस्करा भीमा धनरत्नसमन्वितम् । वनमध्ये महासार्थं जगृहुः क्रूरमानसाः ॥ २२ ॥ तद्धनं सर्वमादाय रक्षणार्थं समर्पितम् । विश्वानलस्य चौराद्यैर्धर्मान्तरियुतस्य तैः ॥ २३ ॥ मुक्त्वेमौ धनरक्षार्थं बुभुक्षाग्रस्तमानसाः । पानभोजनमानेतुं हस्तिनागपुरं ययुः ॥ २४ ॥
1फ omits इतिश्री. 2 फ धर्मन्तरः. 3 फज नत्वा मुनिर्ययो. 4 फ जग्राह. 5 फज चौरौधै. 6फ interchanges 22 and 23.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org