________________
१२१
-५८. ५० ]
क्षीरकदम्बकथानकम् भूयोऽवाचि नरेणायं तदा क्षीरकदम्बकः । कोऽसि त्वं कस्य वा पार्थे धनुर्वेदोऽपि शिक्षितः ॥२०॥ तद्वाक्यतोऽवदत् सोऽपि नरं विस्मितचेतसम् । अहं क्षीरकदम्बाख्यो महापल्लीपतिः प्रभो ॥२१॥ धनुर्वेदो मया राजन् शिक्षितो निखिलोऽप्यलम् । द्रोणाचार्यस्य दक्षस्य शस्त्र-शास्त्रकलासु च ॥२२॥ अयं निगदितो भूयः कौतुकेन किरीटिना । धनुर्वेदोपदेशशं द्रोणाचार्य प्रदर्शय ॥ २३ ॥ शृङ्गिका-वसुनन्दे च करवाल्यां च चक्रके। चित्रदण्डे स निष्णातो ज्ञातः पञ्चायुधेऽमुना ॥२४॥ ततश्चन्द्रकवेधादिकरणेषु विशारदम् । परीक्ष्य तं नरो दध्यौ तदा विस्मितमानसः ॥ २५ ॥ द्रोणाचार्य तथा मां च शबरोऽयं चिलातकः । अतिशय्य जनं सर्वं विज्ञानेन स्थितो भुवि ॥२६॥ उपदेशो हि यो दत्तो ममैकान्ते प्रयत्नतः । द्रोणाचार्येण सोऽस्यापि दत्तः सातिशयो वने ॥२७॥ अथवा प्रायशो लोके मतिवर्जितचेतसाम् । स्वभावो विपरीतोऽयं दृश्यते महतामपि ॥ २८॥ संक्रीडते खले रामा नगे मेघोऽम्बु मुञ्चति । श्रयेत् तृष्णापरं लक्ष्मीः प्रायशः पण्डितोऽधनी॥२९॥"
तथा चोक्तम्अपात्रे रमते नारी गिरौ वर्षति माधवः।
लुब्धमाश्रयते लक्ष्मीः प्राज्ञः प्रायेण निर्धनः ॥३०॥ एवं विचिन्त्य विस्मित्य नगरं प्राप्य वेगतः । द्रोणाचार्यं बभाणेति किरीटी विनयान्वितः॥३१॥ समस्तभुवनव्यापियशसां विदुषामपि । धनुर्वेदोपदेशो ते म्लेच्छहस्तमुपागमत् ॥ ३२॥ 15 अर्जुनस्य वचः श्रुत्वा द्रोणाचार्यों जगावमुम् । कथमेवंविधं वाक्यं नर ब्रूषे निरूपितम् ॥३३॥ उपदेशो ममायैव तिष्ठति स्थिरतामितः । न म्लेच्छहस्तमायाति निश्चितं नर जातुचित् ॥ ३४ ॥
....................]। उपदेशो गतस्तेऽद्य म्लेच्छं क्षीरकदम्बकम् ॥३५॥" द्रोणाचार्यों निशम्याशु वाक्यं गाण्डीवधारिणः। जगाम तत्समं पल्लिं नानानोकहसंकुलम् ॥३६॥ दृष्ट्वा म्लेच्छमिमं प्राह द्रोणाचार्यः कुतूहली । कस्य पार्थे त्वया ज्ञातो धनुर्वेदोऽयमीदृशः॥३७॥ 20 आकर्ण्य तद्वचः सत्यं जगौ म्लेच्छोऽपि तं पुनः। धनुर्वेदो मया ज्ञातो द्रोणाचार्यस्य चान्तिके॥३८॥ अवाचि सूरिणा भूयो म्लेच्छोऽयं पुरतः स्थितः । द्रोणाचार्य हि चेद्वेत्सि कीदृशं तं च मे वद ॥३९॥ निशम्य वाचिकं तस्य म्लेच्छोऽपि निजगावमुम् । द्रोणाचार्यमहं वेभि दर्शयामि पुरस्तव ॥४०॥ नीत्वाऽमुं लेपबिम्बस्य समीपं भाषितः पुनः । अयं स मद्गुरुः साधो द्रोणाचार्योऽवतिष्ठते ॥४१॥ तद्वाक्यतः पुनः प्रोक्तः शबरो गुरुणा तदा । कथमस्य त्वया पार्श्वे धनुर्वेदः सुशिक्षितः ॥४२॥ 23 भूयस्तद्वाक्यतोऽनेन म्लेच्छेनायं प्रचोदितः । प्रसन्नो मे गुरुयेन विधिना तं विधिं शृणु ॥४३॥ पूर्वमादाय पुष्पाणि कृत्वाऽस्य त्रिप्रदक्षिणम् । प्रसूक्तितः पादावर्चितौ विधिवन्मया ॥४४॥ ततश्चापं समादाय भाषितोऽयं गुरुर्मया । दृष्टिमुष्टिप्रसंधानं करोमि स्थानकं कथम् ॥ ४५ ॥ नूनमस्योपदेशेन विनयेन मयेदृशः। शिक्षितोऽयं धनुर्वेदो विनयात् किं न लभ्यते ॥ ४६॥" तुष्यन्ति गुरवो भक्त्या देवास्तुष्यन्ति भक्तितः । तुष्यन्ति योगिनो भक्त्या भक्तितः किं न वा भवेत् ॥ 30 श्रुत्वा तद्वचनं सारं तोषपूरितमानसः । गाण्डीवधारिणं प्रोचे द्रोणाचार्यो विशुद्धधीः ॥४८॥ धनुर्वेदोऽमुना ज्ञातो विनयाद् गुरुभक्तितः । त्वयाऽयं शिक्षितः साधो विनयेनापि भक्तितः॥४९॥ एवं निगद्य तस्याग्रे द्रोणाचार्येण तत्क्षणात् । तदा क्षीरकदम्बस्य वनाम विनिवेदितम् ॥ ५०॥
1 फज दत्तस्यातिशयो. 2 फ प्रयासः. 3 पज कुलकम् , फ कुलकमिदम्. 4 [°पदेशस्ते]. 5फज युग्मम्, फ युगलमिदम्. 6All the Mss. have only one line in this verse. 7 [संकुलाम्].8 प पादं चर्चितो. 9 चतुष्कलम् , चतुष्कलमिदम्.
बृ० को० १६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org