________________
१२०
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ५७.५७५
अत्रान्तरे महीपालं वर्नपालो जगौ मुदा । राजन्नुद्यानमायातो वासुपूज्यजिनोऽद्य ते ॥ ५७५ ॥ श्रुत्वा तद्वचनं शीघ्रं प्रोत्थाय हरिविष्टरात् । तत्सन्मुखं परिप्राप्य प्रमोदी पदसप्तकम् ॥ ५७६ ॥ वासुपूज्यं जिनं नत्वा वनपालं प्रपूज्य च । आनन्दभेरिनादेन पौरलोकमबोधयत् ॥ ५७७ ॥ लोकपालकुमाराय दत्त्वा राज्यश्रियं विभुः । महाविभूतिसंपन्नो जगाम वनमादरात् ॥ ५७८ ॥ • वासुपूज्यं जिनं भक्त्या त्रिः परीत्य प्रणम्य च । दीक्षां जग्राह जैनेन्द्रीं तदन्तेऽशोकभूपतिः ॥५७९ ॥ वासुपूज्यजिनेन्द्रस्य पुरंदरनतस्य हि । गणेन्द्रोऽशोकयोगीशो जातोऽयममितप्रभः ॥ ५८० ॥ उग्रं तपो विधायायं कालेन बहुना ततः । क्षीणकर्मा जगामाशु निर्वाणं परमुत्तमम् ॥ ५८१ ॥ रोहिणी च महादेवी हित्वा सर्वं परिग्रहम् । वासुपूज्यं जिनं नत्वा सुमत्यन्ते तपोऽग्रहीत् ॥५८२ ॥ नानातपो विधायैषा सामान्यस्त्रीसुदुष्करम् । सलेखनविधिं चक्रे रोहिणी कर्महानये ॥ ५८३ ॥ 10 ततः स्त्रीत्वं समादाय कृत्वा कालं समाधिना । कल्पेऽच्युते बभूवासौ दिव्यबुन्दीधरः सुरः ||५८४ | एकेन चोपवासेन रोहिण्या तद्वशेन च । सामान्यजनदुःप्राप्या प्राप्ता सुखपरंपरा ॥ ५८५ ॥ ॥ इति श्रीरोहिणी नक्षत्रोपवासैकफलसंभूताशोकरोहिणीकथानकमिदम् ||५७||
*
५८. क्षीरकदम्बकथानकम् ।
15
5
कुरुजाङ्गलदेशेऽस्ति हस्तिनागपुरं परम् । तत्र पण्डुर्नराधीशः कीर्तिशुश्रीकृताम्बरः ॥ १॥ कुन्ती- माधौ कलाधारे रूपयौवनसंगते । बभूवतुरुभे जाये नरेन्द्रस्यास्य शोभने ॥ २ ॥ युधिष्ठिरस्तथा भीमः किरीटी पृथुकीर्तयः । कुन्त्याः पुत्राः समुत्पन्नास्त्रयो लोकप्रियाः क्षितौ ॥ ३ ॥ नन्दनो नन्दिताशेषबान्धवो लोकसंमतः । नकुलः सहदेवोऽपि जातौ माद्याः कुलध्वजः ॥ ४ ॥ तस्मिन्नेव परे चासीद् द्रोणाचार्यो विदां मतः । शस्त्रशास्त्रकृताभ्यासो धनुर्वेदविशारदः ॥ ५ ॥ तस्य स्वस्तिमती भार्या बभूव मनसः प्रिया । अश्वत्थामाऽनयोः पुत्रो मनीषी 'जनवल्लभः ॥ ६ ॥ अर्जुनादिकुमाराणां विनयाचारवेदिनाम् । धनुर्वेदोपदेशं च द्रोणाचार्यो ददात्ययम् ॥ ७ ॥ विद्यते तत्पुरोऽभ्याशे भिल्लपल्ली भयानका । अस्यां क्षीरकदम्बाख्यः शबरश्चापवल्लभः ॥ ८ ॥ लेप्यस्य प्रतिमां कृत्वा द्रोणाचार्यस्य तां पुनः । नमस्कृत्य महाभक्त्या धनुर्वेदं सुशिक्षितः ॥ ९ ॥ एवं दिने दिने सोऽस्य कुर्वाणो विनयं भृशम् । धनुर्वेदस्य सर्वस्य पारं यातो महादरात् ॥ १० ॥ अन्यदा पर्यटन्तस्ते मृगयायां धनुर्भूतः । तामेव पल्लिकां प्रापुरर्जुनादिकुमारकाः ॥ ११ ॥ 2s ततः क्षीरकदम्बोऽपि रममाणो वनान्तरे । बाणबाणासनायुक्तः कुमारान्तिकमाययौ ॥ १२ ॥ कक्षे' तेषां कुमाराणां पापङ्घर्थं प्रदीव्यताम् । मण्डलेन महानादो विहितः कर्णदुःसहः ॥ १३ ॥ पुनः स मण्डलस्तेन शबरेण मुखे द्रुतम् । विद्धः क्षीरकदम्बेन शब्दवेधशरेण हि ॥ १४ ॥ अस्मन्मध्ये स को नाम शब्दवेधं करोति यः । स नरो दृश्यते नात्र धनुर्वेदविचक्षणः ॥ १५ ॥ चिन्तयित्वा चिरं तत्र किरीटी विस्मयान्वितः । शरानुसारतः प्राप्य सचापं तं ददर्श सः ॥ १६ ॥ ततोऽर्जुनकुमारोऽपि मं पुरतः स्थितम् । सन्नद्धं भीषणाकारं पप्रच्छेति कुतूहलात् ॥ १७ ॥ त्वयाऽयं मण्डलो विद्धः शब्दविज्ञानशालिना । वदने ब्रूहि मे भद्र पृष्टार्थं सनिमित्तकम् ॥ १८ ॥ नरवाक्यं समाकर्ण्य शबरो भक्तितः पुनः । यथा स्वामिन् मया विद्धः श्वा शरेण मुखे स्फुटम् ॥१९॥
20
30
1. फ महीपालवन 6 फंज मनीषिजन
2 पफज त्रिकलम्. 3 फज कुरुजंगल. 4 फ पण्डु 5 [ कुलध्वजौ ]. 7 प कक्षे = वने.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org