________________
-५७. ५७४ ]
अशोक रोहिणीकथानकम्
११९
1
पञ्चपल्योपमं कालं भुक्त्वा तत्र सुखं सुरैः । चतस्रः कालमासाद्य तन्नाकाच्च परिच्युताः ॥ ५४३ ॥ इदानीं त्वत्सुता राजन् रोहिणीगर्भसंभवाः । वसुंधरादिका जातास्तिष्ठन्ति प्रमदान्विताः ॥ ५४४ ॥ रूप्यकुम्भमुनेः पार्श्वे श्रुत्वा पूर्वभवान्तरम् । राजा स्वपुत्रपुत्रीणां रोहिणी तोषमाप सा ॥ ५४५ ॥ अन्येऽपि बहवः श्रुत्वा तदानीं तद्भवान्तरम् । सम्यक्त्वं श्रावकत्वं च यतित्वं प्रापुरुत्तमम् ॥५४६ ॥ अत्रान्तरे प्रणम्येशं कन्या वसुमती मुनिम् । जगादेति वचो हृष्टा विस्मयव्याप्तमानसा ॥ ५४७ ॥ नाथ मौनव्रतं साधो तत्फलोज्जवनं तथा । कथं विधीयते स्पष्टं कथयैतन्ममाधुना ॥ ५४८ ॥ तद्भारतीं निशम्यायं धर्मवर्धनकारिणीम् । रूप्यकुम्भो बभाणेमां ललाटन्यस्तपाणिकाम् ॥ ५४९ ॥ यथा भोजनवेलायां भुक्तं यावन्न चाशनम् । तावन्न जल्पते किंचित् कर्तव्यं मौनमुत्तमम् ॥५५० ॥ एवमिच्छानिरोधेन मासवर्षप्रमाणके । कृते मौनव्रते तन्वि विधिरेष समाप्यते ॥ ५५९ ॥ मौने समाप्तिमापन्ने कालावधिविधानतः । अधुना ते समासेन तदुज्जवनमुच्यते ॥ ५५२ ॥ वर्धमानजिनेन्द्रस्य पुष्पधूप। दिसंपदा । सपर्या खलु कर्तव्या महामहविधानतः ॥ ५५३ ॥ ततः समस्तसंघस्य देहिभिर्भक्तितत्परैः । देयं वस्त्रादिदानं च कर्मक्षयनिमित्ततः ॥ ५५४ ॥ ततो जैनगृहे दिव्या घण्टाष्टङ्कारहारिणीः । वितानैः सह दातव्या विधिरेष समाप्यते ॥ ५५५ ॥ कालं कृत्वा ततो जन्तुमौनव्रतविधानतः । देवः कलस्वनः स्वर्गे जायते भोगसंयुतः ॥ ५५६ ॥ ततस्तत्र सुखं भुक्त्वा भुवं प्राप्य विशुद्धधीः । चक्रवर्त्यादिकान् भोगान् भूयो भुङ्क्ते स तत्फलात् ॥ ५५७ भौमान् भोगान् पुनर्भुक्त्वा मनोऽभिलषितांश्चिरम् । दीक्षामादाय जैनेन्द्री सिद्धिं याति स नीरजाः ॥ यशोव्याप्तसमस्ताशे मृदुमन्थरगामिनि । वदामि तेऽधुना वत्से मौनव्रतफलं शृणु ॥ ५५९ ॥ श्रवः सुखं मनोहारि लोकप्रत्ययकारणम् । प्रमाणभूतमादेयं वचनं मौनतो नृणाम् ॥ ५६० ॥ देवशेषामिवाशेषामाज्ञामस्य प्रतीच्छति । मस्तकेन जनो यस्मात् तन्मौनफलमुत्तमम् ॥ ५६१ ॥ यच्च किंचित् कृतं तेन भयरोषविषापहम् । तत् समस्तं भवेलोके येन मौनं चिरं कृतम् ॥५६२ ॥ 20 मधुराक्षरसंयुक्तं मुखपद्मं मनोहरम् । मौनेन जायते पुंसां नानार्थरुचिभाषणम् ॥ ५६३ ॥ अपि दुःसाध्यतां प्राप्ताः सर्वलोकफलप्रदाः । विद्याः सिध्यन्ति सर्वेषां चिरं मौनव्रतं कृतम् ॥५६४॥ यदसाध्यं" भवेत् कार्यमतिसंशयकारणम् । तत्तस्य वाक्यतः सिद्धिमेति मौनफलाद् भुवि ॥ ५६५ ॥ ध्यायन्ति मुनयो ध्यानं येन कर्मविनाशनम् । मौनेन हि सदा तस्मान्मौनं सर्वार्थसाधनम् ॥५६६॥ अणुव्रतधरः कश्चिद् गुणशिक्षाव्रतान्वितः । सिद्धिभक्तो" व्रजेत् सिद्धिं मौनव्रतसमन्वितः ॥५६७॥” 25 एवं मुनिवचः श्रुत्वा नत्वाऽमुं शिरसा त्रिधा । मौनव्रतं तदा कन्या जग्राह मुनिसंनिधौ ॥ ५६८ ॥ श्रुत्वा पूर्वभवं धर्मं रूप्यकुम्भान्तिके त्वमुम् । नत्वाऽशोकादयो भक्त्या हस्तिनागपुरं ययुः ॥५६९॥ अशोकरोहिणीपुत्राः प्रविश्य स्वं निकेतनम् । भुञ्जाना विपुलान् भोगांस्तस्थुर्मुदितचेतसः ॥५७०॥ समावर्धासने" स्नात्वा तदाऽशोकमहीपतिः । उपविष्टो महादेव्या समं भद्रासने मुदा ॥ ५७१ ॥ अथ काशप्रसूनाभं कर्णान्ते स्वधवस्य सा । ददर्श रोहिणी चैकं पलितं तत्समीपगा ॥ ५७२ ॥ " पलितं तत् समादाय महादेवी स्वपाणिना । ददौ भर्तृकरे* मुग्धा पद्मकोशसमप्रभे ॥ ५७३ ॥ दृष्ट्वा स्वपलितं राजा महादेवीसमर्पितम् । तदा दध्यौ स वैराग्यं निन्दन् भोगशरीरकम् ॥५७४ ॥
1 पज कुलकं, फ कुलकमिदम्. 2 फ तुष्टा. 3 फ व्याप्तचेतसा. 4 ज उज्जवनं = उद्यापनम् 5 फ मौनमुन्नतम् 6 [ घण्टा टङ्कारहारिणी ]. 7 फ सिद्धं. 8 फज सुखमनों 9 फ मौनव्रते, [ मौनव्रते कृते ]. 10 फ यदि साध्यं 11 पज सिद्धभक्तो. 12 पफज कुलकम्. 13 [ समावर्धापने] 14 फ भक्तिकरे.
Jain Education International
For Private & Personal Use Only
10
www.jainelibrary.org