________________
११८
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ५७.५१३
उपवासो न जायेत सेवितैरष्टभिर्भुवि । तत्फलं जन्तुभिर्नैव प्राप्यते धर्ममिच्छुभिः ॥ ५१३ ॥ मुनिमार्गेण पूतेन पुत्रिका धर्मतत्पराः । सर्वाहारपरित्यागादुपवासः प्रजायते ॥ ५१४ ॥ उपवासस्य माहात्म्यं पुत्र्यः शुद्धेन चेतसा । आकर्णयत भावेन प्रोच्यमानमिदं परम् ॥ ५१५ ॥ यदज्ञानेन जीवेन कृतं पापं सुदारुणम् । उपवासेन तत्सर्वं दहत्यग्निरिवेन्धनम् ॥ ५९६ ॥ ' रजोमलावलिप्ताङ्गो यथा तोयेन निर्मलः । तथोपवासतोयेन चात्मा भवति निर्मलः ॥ ५१७ ॥ धमायमानं यथा लोहं मलं त्यजति सर्वतः । व्रतोपवासतोयेन तथा पापमलं त्यजेत् ॥ ५९८ ॥ जलागमे 'यथा रुद्धे सरः शोषयते रविः । गुप्तेन्द्रियस्तथा नूनं नरः पापं विशोधयेत् ॥ ५१९ ॥ श्रूयते सर्वशास्त्रेषु तपो नानशनात् परम् । पापानां क्षयहेतुत्वादुपवासः परं तपः ॥ ५२० ॥ देवगन्धर्वयक्षा वा पिशाचोरगराक्षसाः । व्रतोपवासयोगेन वशं गच्छन्ति तत्क्षणात् ॥ ५२१ ॥ विद्यामत्रास्तथैौषध्यो योगाश्च वशकारिणः । सिध्यन्ति ह्युपवासेन ये चान्ये व्यभिचारिणः ॥ ५२२ ॥ इमं संक्षेपतः स्तोकमस्माभिः कृतनिश्चयैः । उपवासविधानं हि भवतीनां निवेदितम् ॥ ५२३ ॥ श्रुत्वा यतिवचः कन्यास्तोषपूरितमानसाः । मुनिं पृच्छन्ति पञ्चम्याश्चोपवासविधिं तकाः ॥५२४॥ कन्यावचनमाकर्ण्य जगौ योगी पुनर्वचः । पञ्चमी द्विविधा प्रोक्ता कृष्णा शुक्ला जिनेश्वरैः ॥ ५२५॥ या कृष्णपञ्चमी कृष्ण पक्षे भव्यैरुपोष्यते । वर्षाणि पञ्च तावन्तो मासा मुदितमानसैः ॥ ५२६ ॥ 18 एतस्याः कृष्णपञ्चम्या माहात्म्येन सुनिश्चितम् । जीवः समाधिमाप्नोति जिनशासनभावितः ॥५२७॥ यस्याः फलेन संसारे 'भव्यजीव प्रधानतः । द्वित्रीन् भवान् परिभ्राम्य सिद्धिं याति निरत्ययम् ॥५२८॥ एकस्मिन् जन्मनि स्पष्टं यः करोति समाधिना । कालं विशुद्धचेतस्को जिनभक्तिपरायणः ॥ ५२९ ॥ क्रोधमानमहामीने मायालोभतरङ्गके । स सप्ताष्टान् भवान् हित्वा न भ्राम्यति भवार्णवे ॥ ५३० ॥ तथा चोक्तमागमे -
10
20
25
30
एकहि 'भगवग्गणे समाहिमरणेण कुणइ जो कालं ।
हु सो हिंड बहुसो सत्तभवे पमोत्तूण ॥ ५३१ ॥
आद्या श्रीपञ्चमी नाम चोपवासविधिर्भवेत् । गृह्यते शुक्लपञ्चम्यामसौ भव्यजनब्रजैः ॥ ५३२ ॥ वर्षैः पञ्चभिरेवासौ मासैरपि तथाविधैः । उपवासैः कृतैरेभिः पूर्यतेऽयं महाविधिः ॥ ५३३ ॥ पश्चाजिनमहं कृत्वा पुष्पधूपाक्षतादिभिः । घण्टावितानलम्बूषैर्जिनगेहं विभूष्यते ॥ ५३४ ॥ पञ्चमीपुस्तकं दिव्यं पञ्चपुस्तकसंयुतम् । साधुभ्यो दीयते भक्त्या भेषजं च यथोचितम् ॥५३५॥ आहारदानमादेयं भक्तितो भेषजादिकम् । वस्त्राणि चार्यिकादीनां दातव्यानि मुमुक्षुभिः ॥ ५३६ ॥ कल्याणपञ्चकं प्राप्य विधेरस्य विधानतः । प्रयाति भव्यलोकोऽयं निर्वाणपदमक्षयम् ॥ ५३७ ॥ मुनिवाक्यं समाकर्ण्य वन्दित्वा मुनिपुङ्गवम् । तका जिनमतासत्तत्या जगृहुः पञ्चमीविधिम् ॥५३८॥ पञ्चमीविधिमादाय तोषनिर्भरचेतसः । नत्वा मुनिपदाम्भोजं जग्मुर्निजगृहं तकाः ॥ ५३९ ॥ प्रासादशिखरस्थानां तदा चतसृणामपि । तन्मस्तकोपरि क्षिप्रं पपाताशनिरुज्वला ॥ ५४० ॥ तत्पातजातपञ्चत्वाश्चतस्रोऽपि च तद्दिने । सौधर्मे धर्मसामर्थ्याज्जाता देव्यो मनोरमाः ॥ ५४१ ॥ एकोपवासपुण्येन ताभिर्देवत्वमीदृशम् । संप्राप्तं त्रिदिवावा से किन्नरीगीतशोभिते ॥ ५४२ ॥
1 फ बलागमे यथा रुद्रे. 5 पज कुलकम्, फ कुलकमिदम् 9 फ पार्थिकादीनां.
Jain Education International
2 फ राक्षसः. 3 पज कुलकम् फ कुलकमिदम्. 4 [ भव्यजीवः ]. 6 फ तथा चोक्तं समागमे 7 [ एक्कम्हि भवग्गहणे ]. 8
यथोच्यते.
For Private & Personal Use Only
www.jainelibrary.org