________________
-५७. ५१२ ]
अशोकरोहिणीकथानकम् धर्माधर्मफलं ज्ञात्वा बहुभूत्यादिमाहनाः । यशोधरमुनिं प्राप्य धर्म पप्रच्छुरादरात् ॥ ४८२ ॥ श्रुत्वा तद्वचनं कान्तं यशोधरमुनीश्वरः । धर्म जगाद चैतेषां सप्तानामपि शोभनम् ॥ ४८३॥ लब्ध्वा मनुष्यतां यो हि धर्म न कुरुते नरः। स निधिं वीक्ष्य संजातो लोचनाभ्यां विवर्जितः॥४८४॥ धर्मेण कुलसंपत्तिर्दिव्यरूपं च धर्मतः । धर्मेण धनसंप्राप्तिः कीर्तिधर्मेण देहिनाम् ॥ ४८५॥ कौ वशीकरणं धर्मो धर्मश्चिन्तामणिः परः । वसुधारा शुभा धर्मो धर्मः कामदुधा च गौः॥४८६॥ । उक्तेन बहुना किं वा सारं यद्यच्च दृश्यते । मनोऽक्षवल्लभं यद्वा तत्तद् धर्मफलं द्विजाः ॥ ४८७॥ इदं धर्मफलं श्रुत्वाऽधर्मतो वाऽसुखं नृणाम् । एवं मत्वा द्विजाः सर्वे तत्समीपे प्रवव्रजुः ॥४८८॥ ततः सर्वे तपः कृत्वा कालं प्राप्य समाधिना । जाता महर्द्धिका देवाः स्वर्गे सौधर्मनामनि ॥४८९॥ द्विःसागरं सुखं तत्र भुक्त्वा ते नाकतश्युताः। बभूवू रोहिणीपुत्रा वीतशोकादयो नृप ॥ ४९०॥ एषोऽपि लोकपालाख्यस्त्वत्सुतः परमोदयः । पूर्वजन्मनि राजेन्द्र भल्वादिक्षुल्लकोऽभवत् ॥४९१॥॥ श्रावकानां परं धर्म सम्यक्त्वादिकमादरात् । पिहितास्रवसामीप्ये जग्राहायं विशुद्धधीः॥४९२॥ कर्मभूमिषु सर्वासु विद्यया गमनस्पृशा । जिनचैत्यानि सर्वाणि कृत्रिमाकृत्रिमाण्यपि ॥ ४९३ ॥ सुरासुरनुतान्युच्चैभक्तिहृष्टतनूरुहः । कालत्रये विशुद्धात्मा क्षुल्लको नमति स्म सः ॥४९४ ॥ कालं समाधिना कृत्वा जिनभक्तिपरायणः । देवदुन्दुभिनिर्घोषं सौधर्म नाकमाप सः ॥ ४९५ ॥ तत्र दिव्यं सुखं भुङ्क्त्वा पल्यानां पञ्चविंशतिः। जातोऽयं रोहिणीपुत्रो लोकपालस्ततच्युतः॥४९६॥ 15 कथितः पुत्रसंबन्धो भवान्तरसमागतः । वदामि तेऽधुना भूप त्वत्पुत्रीणां भवान्तरम् ॥ ४९७ ॥ अथ पूर्व विदेहे हि जम्बूद्वीपे मनोहरे । विषयः कच्छनामास्ति धनधान्यजनाकुलः ॥ ४९८ ॥ दक्षिणे विजयार्धस्य भागे चास्त्यलकापुरी । राजा गरुडसेनोऽस्यां तत्प्रिया कमलाऽमला ॥४९९॥ तत्सुता रूपसंपन्नाश्चतस्रः कमलाननाः । कार्तस्वरशरीराभा नामानीमानि बिभ्रति ॥ ५००॥ कमलश्रीर्मता पूर्वा तथा कमलगन्धिनी । कमला च तृतीया स्यादन्या विमलगन्धिनी ॥५०१॥ 20 एता रूपान्विता दिव्याश्चतस्रः प्रीतमानसाः । उद्यानवनमाजग्मुस्तरुपुष्पफलान्वितम् ॥ ५०२ ॥ दृष्ट्वाऽत्र सुव्रताचार्य चारणं मुनिपुङ्गवम् । नत्वोपवासमाहात्म्यं पृच्छन्तीमाः सकौतुकाः॥५०३॥ नाथ लोकोपवासोऽयमुच्यते नामको भुवि । लोकोत्तरितधर्मोऽपि चोपवासो निगद्यते ॥ ५०४॥' सुव्रतस्तद्वचः श्रुत्वा धर्मोपादानकारणम् । लक्षणं ह्युपवासस्य जगादासां यथाक्रमम् ॥ ५०५॥ तत्राहारमिमं प्रोचुर्जिना राद्धान्तवेदिनः । अशनं पानकं खाद्यं स्वाद्यं चेति चतुर्विधम् ॥ ५०६ ॥ 25 "अतश्चतुर्विधस्यापि चाहारस्य सतो भुवि । बलकान्तिप्रदस्यालं मन्ये वाक्कायशुद्धितः ॥ ५०७॥ मुनिमार्गेण पूतेन जिनप्रोक्तेन साधुना । क्रियते यः परित्यागो ह्युपवासः स भण्यते ॥ ५०८॥" उपवासः पुनर्यस्तु लौकिके समये मतः । सर्वाहारसमादाने जायते स न जातुचित् ॥ ५०९ ॥ सर्वाहारसमादाने "सोपवासो भवेदयम् । तच्छास्त्रपाठका" नूनं "किमनर्थं वदन्त्यमी ॥५१०॥ फलं मूलं पयो नीरं हविर्माहनवाचिकम् । गुरूदितौषधं चाष्टौ धर्मकार्याणि देहिनाम् ॥५११॥ 30
तथा चोक्तम्अष्टौ तान्यव्रतनानि आपो मूलं पयः फलम् । हविर्ब्राह्मणकामश्च गुरोर्वचनमौषधम् ॥ ५१२ ॥
1प को पृथिव्याम्. 2 पज चतुष्कलम्, फ चतुष्कलमिदम्. 3 फ चासुखं. 4 पज युग्मम् , फ युगलम्. 5 फ लोकपाल ततः०. 6फ तं सुता. 7 प युग्मम् , ज युगलम् ,फ युगलमिदम्. 8फ अथ चतु. 9 प युग्मम्, ज युगलम् , फ युगलमिदम्. 10 सोपवासे. 11 फज पाठको. 12 फ किमर्थ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org